तत्रैवं सति कर्तारम्...
दिखावट
श्लोकः
[सम्पादयतु]अयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- तत्रैवं सति कर्तारमात्मानं केवलं तु यः ।
- पश्यत्यकृतबुद्धित्वान्न स पश्यति दुर्मतिः ॥ १६ ॥
अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य षोडशः(१६) श्लोकः ।
पदच्छेदः
[सम्पादयतु]तत्र एवं सति कर्तारम् आत्मानं केवलं तु यः पश्यति अकृतबुद्धित्वात् न सः पश्यति दुर्मतिः ॥
अन्वयः
[सम्पादयतु]देहभृता अशेषतः कर्माणि त्यक्तुं नहि शक्यम् । यः तु कर्मफलत्यागी सः त्यागी इति अभिधीयते ।
शब्दार्थः
[सम्पादयतु]- तत्र = तस्मिन् प्रसङ्गे
- एवं सति = पञ्च हेतवः इति स्थितौ
- कर्तारम् = आचरितारम्
- आत्मानम् = स्वम्
- केवलम् = शुद्धम्
- अकृतबुद्धित्वात् = असंस्कृतबुद्धित्वात्
- दुर्मतिः = दुष्टबुद्धिः ।
अर्थः
[सम्पादयतु]एवं सर्वकर्मसिद्धौ पञ्च कारणानि इति स्थितौ यः पुरुषः सर्वेषां कर्मणां कर्ता अहम् (आत्मा) इति चिन्तयति तस्य शास्त्रोपदेशेन बुद्धिरेव न संस्कृता इति निर्णयः । ततश्च सः जानन्नपि न जानाति इत्येव बोद्धव्यम् ।