ताराशङ्करवन्द्योपाध्यायः
ताराशङकरवन्द्योपाध्यायः (24/07/1898 - 14/09/1971)
भूमिका
[सम्पादयतु]विंशशताब्देः बङ्गकथासाहित्यिकेषु अन्यतमः ताराशङ्करवन्द्योपाध्यायः ।एतेषां समग्रसाहित्यकृतिषु 65 उपन्यासाः, 53 कथाग्रन्थाः, 12 नाटकानि, 4 प्रबन्धग्रन्थाः, 4 आत्मजीवनीमुलकग्रन्थाः,2 भ्रमणकाहिणी च सन्ति । विशिष्टसाहित्यिकोSयं रवीन्द्रनाथपुरस्कारेण,साहित्यअकादमिपुरस्कारेण,ज्ञानपीढपुरस्कारेण,पद्मभूषणपुरस्कारेण च पुरस्कृतासीत्।
जन्मः शिक्षाश्च
[सम्पादयतु]भारतवर्षं यदा गौराङ्गमहाशासकानामथाने आसात् तस्मिन्नेव सङ्कटमयसमये ताराशङ्करवन्द्योपाथ्यायस्य आविर्भावोsभूत्। भारतस्य पूर्वस्यां दिशि अवस्थितः बङ्गप्रदेशस्य बीरभूमजिलायान्तर्गत अत्यन्त क्षुद्रतमः लाभपुरग्रामः ताराशङ्करवन्द्योपाध्यायस्य जन्मस्थानम्। साहित्यिकः ताराशङ्करवन्द्योपाध्यायः जुलई मासस्य चतुर्विशति दिनाङ्के अष्टनवतित्तराष्चादशतमे अब्दे(24.07.1898) जमिदारपरिवारे जनिमलभत्। पार्वतीदेवी-हरिदासवन्द्योपाध्यायश्च एतस्य पितरौ भवतः। तेषां गृहे कालीदेव्याः तारामातुश्च प्रत्यहमर्चयतिस्म। त्स्य पितरौ उभयौ अत्यन्त धर्मपरायणादर्शनिष्ठाश्च आस्ताम्। ताराशङ्करस्य जन्मग्रहणात्प्रागेव प्रभावतीहरिदासयोः ज्येष्ठपुत्रस्य स्वर्गवासं अभूत्। अतः तेषां परिवारे तारा मातुः प्रारम्भमभवत्। पूजारब्धात् दशमासान्तरे एव ताराशङ्करस्य जन्ममभूत्। तारामातुः कृपावलेण जन्मजनितकारणात् सः ताराशङ्करः इति नाम्ना अभिधीयते। ताराशङ्करः बाल्यकाले मादुलि-ताविच-कवोच इत्यादिसंस्कारैः युक्तवातावरनैः वर्धितासीत्। सतता, धर्मपरायणता, भक्तिः, धर्मशास्त्रीयविश्वासश्च सः मातुः सकाशत् प्राप्यते। यद्यपि एतेषां विश्वासमुपरि बहुद्विधा-द्वन्द्व जिज्ञासाश्च परवर्तीजीवने तस्य मनसं आन्दलयतिस्म। ग्रामस्य परिवेशे ग्रमस्य विद्यालयादेव तारासङ्करस्य बाल्यकालं व्यातितम्।
शिक्षावृत्तिश्च
[सम्पादयतु]1916 तमे अब्दे ताराशङ्करवन्द्योपाध्यायः लभपुरग्रामस्य यादवलाल उच्चविद्यालयात् प्रवेशिकापरीक्षायां प्रथमस्थानमधिकृत्य आदौ सेन्ट जेभियार्स इति महाविद्यालये ततोपरं साउथसुवार्वन नामकमहाविद्यालये(वर्तमानः आशुतोषमहावित्यालयः) निजनामं पञ्जीकरोति। सः सेन्ट जेभियार्समहाविद्यालये उच्चमाध्यमिकस्तरे पठनसमये असहयोग आन्दोलने भागं गृह्णाति। अस्वास्थं राजनैतिककार्यकलापेनियोक्तिश्च स्वीय विश्वविद्यालयीयपाठ्यक्रमस्य समापनं तस्य पक्षे असन्भवमासीत्।
भारतीय स्वाधीनतासंग्रामेण साकं सक्रियरूपेणयुक्तजनितकारणात् 1930 तमे अब्दे कारारुद्धं भूत्वाsपि अनन्तरं तस्य मुक्तिममभवत्। ततोपरं स्वीय मनसं साहित्ये नियोजति। 1932 तमे बर्षे सः प्रथमवारं शान्तीनिकेतने रवीन्द्रनेथेन साकं मेलति। तदा "चैतालीघूर्णी" नामकः तस्य प्रथमोपन्यासः प्रकेशयति। ताराशङ्करवन्द्योपाध्याय 1940 तमे बर्षे बागबाजारे शूल्केण एकं गृहं स्वीकृत्य निजपपरिवारं कोलिकातायामानयति,ततोपरं स वराहनगरे गच्छति। ताराशङ्करवन्द्योपाध्यायः बीरभूमजिलासाहित्यसम्मेलनस्य सभापति तथा च फ्यसिविरोधीलेखकशिल्पीसङ्गठनस्यश्च सभापतिरुपेण नियुक्तर्भवति। एवञ्च 1970 तमे अब्दे बङ्गीयसाहित्यपरिषदस्य सभापतित्वं अलङ्करोति। राजनैतिकजीवनम्
ताराशङ्करवन्द्योपाध्यायः कभ्ग्रेसस्य कर्मीभूत्वा समाजसेवामूलककार्यं साधयतिस्म,तेन कारणेन सः कतिपयदिनानि कारागारे व्यतितानि। एकदा सः "इउनियन बोर्ड" इत्यस्य सभापतिपदमलङ्करोति। 1952 तमे बर्षे सः बङ्गप्रदेशस्य विधनपरिषदस्य सभापतिः आसीत्। *लेखनवैशिष्ठानि ताराशङ्करवन्द्योपाध्यायस्य रचनासु विशेषरुपेण प्राप्नते बीरभूम-बर्धमानयोः साँओताल-वागदि-वोष्टम्-वाउरि-डोम इति एतेषां ग्राम्यकवियालसम्प्रदायाणां कथा। तस्य रचनायाः श्रेष्ठगुणाः भवति यत् तस्य रचनायां बालात्प्रौढाः पर्यन्तं सर्वेषां जनाणं महत्त्वं प्रस्फुटणम्। समाजपरिवर्तनस्य विभिन्नचित्रानि तस्य वह्वोः गल्पोपन्यासयोः मुख्यविषयः। तैः साकं ग्रम्यजीवनभग्नकथाः नगरजावनविकाशाश्च तस्य लेखनस्य विषयः भवन्ति। *चलचित्रानि ताराशङ्करस्य उपन्यासः,कथा,नाटकेभ्यश्च प्रायः चत्वारिंशताधीकानि चलचित्रानि निर्मितानि। सत्यजित् रायः ताराशङकरयोः जलसागर-अभियानोपन्यासयोः सफलचित्रं रूपायताम्। याः रचनाः चलचित्रेषु रूपायितस्सन्ति ताः निम्नरूपाः-
सत्यजितरायपरिचालितः जलसागरः(१९५८) अभियानञ्च(१९६२),अग्रदानी(पलाशवन्द्योपाध्यायः,१९८३),आगुन(असात् सेन १९८२), आरोग्यनिकेतनम्(विजयबसु१९६९-जातीयपुरस्कारप्राप्तः), उत्तरायणम्(अग्रदूत्१९६३), कविः(देवकी बसु१९४९ एवञ्च सुनीलवन्द्योपाध्यायः१९७५), कान्ना(अग्रगामी१९६२), कालिन्दी(नरेशमित्र१९५५), गणदेवता(तरुणमजुमदार१९७९), चाँपाडाङारबौ(निर्मलदे१९५४)।जया(चित्रबसु१९६५), डाकहर्करा(अग्रगामी१९५८), दुइपुरुष(सुबोधमित्र१९४५, सुशीलमखोपाध्यायश्च१९७२), धात्रीदेवता(कालिप्रसादघोष१९४८), ना(श्रीताराशङ्करवन्द्योपाध्यायः१९५४), फरियाद्(विजयबसु१९७१), विचारकः(प्रभात् मुखपाध्यायः१९५९), बिपाशा(अग्रदूत्१९६२), मञ्जरीअपेरा(अग्रदूत्१९७०), राइकमल(सुबोधमित्र१९५५), शुकसारी(हारानोसुरकथामवलम्व्य सुशीलमजुमदारेणपरिचालितः१९६९), सन्दीपनपाठशाला(अर्धेन्दुमुखोपाध्यायः१९४९), सप्तपदी(अजयकरः१९६१), हारमानाहारः(नहाश्वेतोपन्यासमवलम्ब्य- सलिलसेनपरिचालितः१९७२), हाँसुलीवाँकेर उपकथा(तपनसिंह१९६२), वेदेनि च(२०१०) प्रभृतयः।
*उल्लेखग्रन्थाावली ताराशङ्करवन्द्योपाध्यायप्रणिताणां समग्रसाहित्यकर्माणां संक्षिप्ततालिका अधः प्रतिपााद्यते-
१.निशिपद्म1962, २.व्यार्थनायिकाविचारकः, ३.फरियादः1957, ४.तामसतपस्या1971, ५.कालवैशाखी1952, ६.कालिन्दी1963, ७.गणदेवता1940, ८.पञ्चग्राम्, ९.आरोग्यनिकेतनः1944, १०.नागिणीकण्यारकाहिनी1953, ११.राधा1952, १२.योगभ्रष्टः1958, १३.डाइनि1960, १४.एकटि प्रेमेर ग्रन्थमः, १५.राधारानी, १६.सप्तपदी, १७.हाँसुलिवाकेर उपकथा1957, १८.चिरन्तनी कविः1951, १९.कीर्तिहाटेरकरचा1944, २०.चैतालिघूर्णी1967, २१.धात्रीदेवता1931, २२.ना1939, २३.रसकलि1960, २४.पाषानपुरी1938, २५.चापाडाङारबौ1933, २६.सन्ध्यामनि1954, २७.लेखारकथा, २८.नीलकण्ठ, २९.राइकमलः1933, ३०.जलसागरः1934, ३१.येबइलिखतेचाइ1937, ३२.प्रेमओप्रयोजनः, ३३.कालापाहार1935, ३४.वेदेनी, ३५.आमारचोखेकपालकुण्डला आगुन, ३६.मन्वम्तर1937, ३७.हारानोसुर1944, ३८.छलनामयी1945, ३९.स्वर्गमर्त, ४०.सन्दीपनपाठशाला1968, ४१.झर ओ झारपाता1946, ४२.यादुकरी1946, ४३,आमि यदि आमार समालोचक हताम्, ४४,.अभियानम्, ४५.पदचिह्ण1946, ४६.यतिभङ्ग1950, ४७.बन्दिणी कमला1962, ४८.डाकहरकारा, ४९.आमारकालेरकथा1958, ५०.पञ्चपुत्तली ५१,सङकेतः१९६४, ५२,मऩिबौदि१९६४, ५३,पौशलक्ष्मी१९६७, ५४,भूतपुराणम् ५५,गन्नबेगम्, ५६,तमसा, ५७,बसन्तरोगः१९६३, ५८,मञ्जरी अपेरा१९६४, ५९,बिपाशा१९६४, ६०,अत्तरायनम्१९५८, ६१,महाश्वेता१९५०, ६२,एकटि चडुई पाखी ओ कालो मेये१९६०, ६३,जङ्गलगडः१९६३, ६४,महानगरी१९६४, ६५,कालरात्री१९६६, ६६,भुवनपुरेर हाट१९७० ६७,अरण्यबह्णिः१९६४, ६८,हीरापान्ना१९६६, ६९, अभिनेत्री१९६६, ७०,गुरुदक्षिणा१९७०, ७१,शुकसारीकथा१९६६, ७२,शताब्दीर मृत्यु १९६७, ७३,शक्करबाई, ७४,इतिहाससाहित्यञ्च१९६७, ७५, नवदिगन्त, ७६,रनीन्द्रनाथ ओ बांलार पल्ली, ७७,दुइपुरुष(नाटकम्)१९४३, ७८,छायापथः, ७९,मस्कोतेकतिपयदिनानि१९६९, ८०,पथेरडाक्, द्वीपान्तरः, ८१,विंशसताब्दी(नाटकम्), ८२,कालान्तरम्, ८३,सुतपायाः तपस्या, ८४, एकटि कालो मेये१९७१, ८५, विचित्रम्१९७१, ८६,नागरिकः१९५३, ८७,कान्ना१९६०, ८८,वैष्णवेर आखडा१९६२, ८९,द्वीपान्तरम्(नाटकम्)१९४५, ९०,पथेरडाक्(१९४३)
* पुरस्काराः 1955 तमे अब्दे ताराशङ्करवन्द्योपाध्यायः पश्चिमबङ्गसर्वकारैः रवीन्द्रपुरस्कारेण विभूषितः। 1956 तमे बर्षे तेन साहित्याकदमिपुरस्कारं लब्धः। चीनसर्वकारैः प्रदत्तः आमन्त्रणात् सः 1957 तमे अब्दे सः चीनदेशभ्रमणं साधयति ।