तेषामेवानुकम्पार्थम्...
दिखावट
श्लोकः
[सम्पादयतु]अयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- तेषामेवानुकम्पार्थमहमज्ञानजं तमः ।
- नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता ॥ ११ ॥
अयं भगवद्गीतायाः दशमोऽध्यायस्य विभूतियोगस्य एकादशः(११) श्लोकः ।
पदच्छेदः
[सम्पादयतु]तेषाम् एव अनुकम्पार्थम् अहम् अज्ञानजं तमः नाशयामि आत्मभावस्थः ज्ञानदीपेन भास्वता ॥ ११ ॥
अन्वयः
[सम्पादयतु]आत्मभावस्थः अहं तेषाम् एव अनुकम्पार्थं भास्वता ज्ञानदीपेन अज्ञानजं तमः नाशयामि ।
शब्दार्थः
[सम्पादयतु]- आत्मभावस्थः = बुद्धौ वर्तमानः
- अहम् = परमात्मा
- तेषाम् एव = तादृशबुधानाम् एव
- अनुकम्पार्थम् = दयाहेतोः
- भास्वता = प्रकाशमानेन
- ज्ञानदीपेन = विवेकदीपेन
- अज्ञानजम् = मिथ्याज्ञानोत्पन्नम्
- तमः = अन्धकारम्
- नाशयामि = विध्वंसयामि ।
अर्थः
[सम्पादयतु]तादृशानां बुधानाम् अनुग्रहार्थम् अहं तेषाम् अन्तःकरणे तिन् तेषु अज्ञानेन जन्यं तमः प्रकाशमानेन ज्ञानरूपेण दीपेन नाशयामि ।