तोटकच्छन्दः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


लक्षणम्[सम्पादयतु]

वद तोटकमब्धिसकारयुतम्

प्रत्येकम् अपि पादे यदा सगणचतुष्टयं भवति तदा तोटकं वद ।

उदाहरणम्[सम्पादयतु]

यमुनातटमच्युतकेलिकला लसदङ्घ्रिसरोरुहसङ्गरुचिम् ।
मुदितोऽट कलेरपनेतुमघं यदि चेच्छसि जन्म निजं सफलम्।।

अर्थः[सम्पादयतु]

यदि कलेरघमपनेतुमिच्छसि, तथा च यदि निजं जन्म सफलीकर्तुम् इच्छसि तर्हि श्रीकृष्णस्य नृत्यकलया शोभायमानचरणकमलस्य सम्पर्केण वर्धिता कान्तिर्यस्य यमुनातटस्य वर्तते, तत्र मुदितः सन् अट।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=तोटकच्छन्दः&oldid=408947" इत्यस्माद् प्रतिप्राप्तम्