त्रिविधा भवति श्रद्धा...
दिखावट
श्लोकः
[सम्पादयतु]अयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
श्रीभगवानुवाच -
- त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा ।
- सात्त्विकी राजसी चैव तामसी चेति तां श्रुणु ॥ २ ॥
अयं भगवद्गीतायाः सप्तदशोध्यायस्य श्रद्धात्रयविभागयोगस्य द्वितीयः(२) श्लोकः ।
पदच्छेदः
[सम्पादयतु]त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा सात्त्विकी राजसी च एव तामसी च इति तां श्रुणु ॥ २ ॥
अन्वयः
[सम्पादयतु]देहिनां स्वभावजा (या) श्रद्धा सा सात्त्विकी राजसी तामसी च इति त्रिविधा भवति, तां शृणु ।
शब्दार्थः
[सम्पादयतु]- देहिनाम् = शरीरवताम्
- स्वभावजा = स्वभावात् सञ्जाता
- श्रद्धा = आस्था ।
अर्थः
[सम्पादयतु]प्राणिनां स्वभाववशात् या श्रद्धा भवति सा सात्त्विकी, राजसी, तामसी चेति त्रिविधा वर्तते । तद्विवृणोमि, शृणु ।