त्वमादिदेवः पुरुषः...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(त्वमादिदेवः पुरुषः- 11.38 इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः[सम्पादयतु]

गीतोपदेशः
त्वमादिदेवः पुरुषः पुराणस्त्वमस्य विश्वस्य परं निधानम् ।
वेत्तासि वेद्यं च परं च धाम त्वया ततं विश्वमनन्तरूप ॥ ३८ ॥

अयं भगवद्गीतायाः एकादशोऽध्यायस्य विश्वरूपदर्शनयोगस्य अष्टात्रिंशत्तमः(३८) श्लोकः ।

पदच्छेदः[सम्पादयतु]

त्वम् आदिदेवः पुरुषः पुराणः त्वम् अस्य विश्वस्य परं निधानम् वेत्ता असि वेद्यं च परं च धाम त्वया ततं विश्वम् अनन्तरूप ॥ ३८ ॥

अन्वयः[सम्पादयतु]

अनन्तरूप ! त्वम् आदिदेवः पुराणः पुरुषः । त्वम् अस्य विश्वस्य परं निधानं वेत्ता असि । वेद्यं च परं धाम च । विश्वं त्वया ततम् ।

शब्दार्थः[सम्पादयतु]

अनन्तरूप = अगण्यरूप !
त्वम् आदिदेवः = त्वं प्रथमदेवः
पुराणः पुरुषः = प्राचीनः पुरुषः
अस्य = एतस्य
विश्वस्य = जगतः
परं निधानम् = प्रकृष्टम् अधिकरणम्
वेत्ता = ज्ञाता
असि = भवसि
वेद्यं च = ज्ञेयम्
परम् = प्रकृष्टम्
धाम च = पदं च
विश्वम् = जगत्
त्वया = भवता
ततम् = व्याप्तम् ।

अर्थः[सम्पादयतु]

अगण्यस्वरूप ! भवान् प्रथमदेवः, प्राचीनः पुरुषः । त्वम् एतस्य जगतः परमः आश्रयः । त्वं ज्ञाता असि । ज्ञेयं च असि । प्रकृष्टं पदम् अपि असि । जगत् भवता व्याप्तम् ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=त्वमादिदेवः_पुरुषः...&oldid=418594" इत्यस्माद् प्रतिप्राप्तम्