त्वमादिदेवः पुरुषः...
दिखावट
श्लोकः
[सम्पादयतु]अयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- त्वमादिदेवः पुरुषः पुराणस्त्वमस्य विश्वस्य परं निधानम् ।
- वेत्तासि वेद्यं च परं च धाम त्वया ततं विश्वमनन्तरूप ॥ ३८ ॥
अयं भगवद्गीतायाः एकादशोऽध्यायस्य विश्वरूपदर्शनयोगस्य अष्टात्रिंशत्तमः(३८) श्लोकः ।
पदच्छेदः
[सम्पादयतु]त्वम् आदिदेवः पुरुषः पुराणः त्वम् अस्य विश्वस्य परं निधानम् वेत्ता असि वेद्यं च परं च धाम त्वया ततं विश्वम् अनन्तरूप ॥ ३८ ॥
अन्वयः
[सम्पादयतु]अनन्तरूप ! त्वम् आदिदेवः पुराणः पुरुषः । त्वम् अस्य विश्वस्य परं निधानं वेत्ता असि । वेद्यं च परं धाम च । विश्वं त्वया ततम् ।
शब्दार्थः
[सम्पादयतु]- अनन्तरूप = अगण्यरूप !
- त्वम् आदिदेवः = त्वं प्रथमदेवः
- पुराणः पुरुषः = प्राचीनः पुरुषः
- अस्य = एतस्य
- विश्वस्य = जगतः
- परं निधानम् = प्रकृष्टम् अधिकरणम्
- वेत्ता = ज्ञाता
- असि = भवसि
- वेद्यं च = ज्ञेयम्
- परम् = प्रकृष्टम्
- धाम च = पदं च
- विश्वम् = जगत्
- त्वया = भवता
- ततम् = व्याप्तम् ।
अर्थः
[सम्पादयतु]अगण्यस्वरूप ! भवान् प्रथमदेवः, प्राचीनः पुरुषः । त्वम् एतस्य जगतः परमः आश्रयः । त्वं ज्ञाता असि । ज्ञेयं च असि । प्रकृष्टं पदम् अपि असि । जगत् भवता व्याप्तम् ।