दातव्यमिति यद्दानं...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


श्लोकः[सम्पादयतु]

गीतोपदेशः
दातव्यमिति यद्दानं दीयतेऽनुपकारिणे ।
देशे काले च पात्रे च तद्दानं सात्त्विकं स्मृतम् ॥ २० ॥

अयं भगवद्गीतायाः सप्तदशोध्यायस्य श्रद्धात्रयविभागयोगस्य विंशतितमः(२०) श्लोकः ।

पदच्छेदः[सम्पादयतु]

दातव्यम् इति यत् दानं दीयते अनुपकारिणे देशे काले च पात्रे च तत् दानं सात्त्विकं स्मृतम् ॥ २० ॥

अन्वयः[सम्पादयतु]

देशे काले च पात्रे च दातव्यम् इति अनुपकारिणे यत् दानं दीयते तत् दानं सात्त्विकं स्मृतम् ।

शब्दार्थः[सम्पादयतु]

देशे = योग्ये प्रदेशे
काले = योग्ये समये
पात्रे = शमादिगुणसम्पन्ने
दातव्यम् इति = देयम् इति
अनुपकारिणे = उपकारविहीनाय
स्मृतम् = प्रोक्तम् ।

अर्थः[सम्पादयतु]

योग्ये प्रदेशे योग्ये च काले उपकारम् अकृतवते च शमादिगुणसम्पन्नाय पुरुषाय दातव्यम् इति बुद्ध्या यत् दानं क्रियते तत् सात्त्विकम् इत्युच्यते ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=दातव्यमिति_यद्दानं...&oldid=418598" इत्यस्माद् प्रतिप्राप्तम्