दिवि सूर्यसहस्रस्य...
श्लोकः[सम्पादयतु]
![]() | अयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- दिवि सूर्यसहस्रस्य भवेद्युगपदुत्थिता ।
- यदि भाः सदृशी सा स्यात्भासस्तस्य महात्मनः ॥ १२ ॥
अयं भगवद्गीतायाः एकादशोऽध्यायस्य विश्वरूपदर्शनयोगस्य द्वादशः(१२) श्लोकः ।
पदच्छेदः[सम्पादयतु]
दिवि सूर्यसहस्रस्य भवेत् युगपत् उत्थिता यदि भाः सदृशी सा स्यात् भासः तस्य महात्मनः ॥ १२ ॥
अन्वयः[सम्पादयतु]
यदि दिवि सूर्यसहस्रस्य भाः युगपत् उत्थिता भवेत् सा महात्मनः तस्य भासः सदृशी स्यात् ।
शब्दार्थः[सम्पादयतु]
- यदि = चेत्
- दिवि = आकाशे
- सूर्यसहस्रस्य = आदित्यसहस्रस्य
- भाः = कान्तिः
- युगपत्= सद्यः
- उत्थिता भवेत् = उद्गता स्यात्
- सा = कान्तिः
- महात्मनः = महानुभावस्य
- तस्य = नारायणस्य
- भासः = कान्तेः
- सदृशी = तुल्या
- स्यात् = भवेत् ।
अर्थः[सम्पादयतु]
आकाशे यदि युगपदेव सहस्रं सूर्याः उत्थिताः स्युः तर्हि तेषां या कान्तिः स्यात् सा कान्तिः महानुभावस्य तस्य नारायणस्य कान्तेः तुल्या भवेत् ।