दिवि सूर्यसहस्रस्य...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(दिवि सूर्यसहस्रस्य -11.12 इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः[सम्पादयतु]

गीतोपदेशः
दिवि सूर्यसहस्रस्य भवेद्युगपदुत्थिता ।
यदि भाः सदृशी सा स्यात्भासस्तस्य महात्मनः ॥ १२ ॥

अयं भगवद्गीतायाः एकादशोऽध्यायस्य विश्वरूपदर्शनयोगस्य द्वादशः(१२) श्लोकः ।

पदच्छेदः[सम्पादयतु]

दिवि सूर्यसहस्रस्य भवेत् युगपत् उत्थिता यदि भाः सदृशी सा स्यात् भासः तस्य महात्मनः ॥ १२ ॥

अन्वयः[सम्पादयतु]

यदि दिवि सूर्यसहस्रस्य भाः युगपत् उत्थिता भवेत् सा महात्मनः तस्य भासः सदृशी स्यात् ।

शब्दार्थः[सम्पादयतु]

यदि = चेत्
दिवि = आकाशे
सूर्यसहस्रस्य = आदित्यसहस्रस्य
भाः = कान्तिः
युगपत्= सद्यः
उत्थिता भवेत् = उद्गता स्यात्
सा = कान्तिः
महात्मनः = महानुभावस्य
तस्य = नारायणस्य
भासः = कान्तेः
सदृशी = तुल्या
स्यात् = भवेत् ।

अर्थः[सम्पादयतु]

आकाशे यदि युगपदेव सहस्रं सूर्याः उत्थिताः स्युः तर्हि तेषां या कान्तिः स्यात् सा कान्तिः महानुभावस्य तस्य नारायणस्य कान्तेः तुल्या भवेत् ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=दिवि_सूर्यसहस्रस्य...&oldid=418599" इत्यस्माद् प्रतिप्राप्तम्