दैवी सम्पद्विमोक्षाय...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


श्लोकः[सम्पादयतु]

गीतोपदेशः
दैवी सम्पद्विमोक्षाय निबन्धायासुरी मता ।
मा शुचः सम्पदं दैवीमभिजातोऽसि पाण्डव ॥ ५ ॥

अयं भगवद्गीतायाः षोडशोध्यायस्य दैवासुरसम्पद्विभागयोगस्य पञ्चमः(५) श्लोकः ।

पदच्छेदः[सम्पादयतु]

दैवी सम्पत् विमोक्षाय निबन्धाय आसुरी मता मा शुचः सम्पदं दैवीम् अभिजातः असि पाण्डव ॥

अन्वयः[सम्पादयतु]

पाण्डव ! दैवी सम्पत् विमोक्षाय आसुरी निबन्धाय मता । मा शुचः । दैवीं सम्पदम् अभिजातः असि ।

शब्दार्थः[सम्पादयतु]

विमोक्षाय = बन्धनाशाय
निबन्धाय = संसाराय
मता = अभीष्टा
मा शुचः = शोकं मा कार्षीः
दैवीम् = दिव्याम्
सम्पदम् = सम्पत्तिम्
अभिजातः = अभिमुखीभूय समुत्पन्नः ।

अर्थः[सम्पादयतु]

दैवी सम्पत् संसाररूपं बन्धनं नाशयति, आसुरी तु तदेव बन्धनं जनयति । त्वं शोकं मा कार्षीः । अभयसत्त्वसंशुद्धिप्रभृतयः गुणाः यथा सम्भवन्ति तथा उत्पन्नोऽसि ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]