दैवी ह्येषा गुणमयी...
दिखावट
श्लोकः
[सम्पादयतु]- दैवी ह्येषा गुणमयी मम माया दुरत्यया ।
- मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते ॥ १४ ॥
अयं भगवद्गीतायाः सप्तमोध्यायस्य ज्ञानविज्ञानयोगस्य चतुर्दशः(१४) श्लोकः ।
पदच्छेदः
[सम्पादयतु]दैवी हि एषा गुणमयी मम माया दुरत्यया माम् एव ये प्रपद्यन्ते मायाम् एतां तरन्ति ते ॥ १४ ॥
अन्वयः
[सम्पादयतु]दैवी गुणमयी एषा मम माया दुरत्यया । ये माम् एव प्रपद्यन्ते ते एतां मायां तरन्ति ।
शब्दार्थः
[सम्पादयतु]- दैवी = वैष्णवी
- गुणमयी = त्रिगुणात्मिका
- एषा = असौ
- मम माया = मम मायाशक्तिः
- दुरत्यया हि = लङ्घयितुम् अशक्या खलु
- ये = ये जनाः
- माम् एव = माम् एव
- प्रपद्यन्ते = शरणं गच्छन्ति
- ते = ते
- एताम् = इमाम्
- मायाम् = मायाशक्तिम्
- तरन्ति = अतिक्राम्यन्ति ।
अर्थः
[सम्पादयतु]एषा लोकोत्तरा गुणत्रयस्वरूपा मम माया केनापि न लङ्घयितुं शक्यते । ये तावत् भक्ताः सन्तः माम् एव शरणम् आगच्छन्ति ते अवश्यम् इमां मायां लङ्घयितुं शक्नुवन्ति ।