दौसामण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
दौसामण्डलम्
मण्डलम्
राजस्थानराज्ये दौसामण्डलम्
राजस्थानराज्ये दौसामण्डलम्
Country भारतम्
States and territories of India राजस्थान
Area
 • Total २,९५० km
Population
 (२००१)
 • Total १६,३७,२२६
Website http://dausa.nic.in

दौसामण्डलं (हिन्दी: दौसा जिला, आङ्ग्ल: Dausa district) राजस्थानराज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रमस्ति दौसा इतीदं नगरम् ।

भौगोलिकम्[सम्पादयतु]

दौसामण्डलस्य विस्तारः २९५० चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे करौलीमण्डलं, भरतपुरमण्डलं च, पश्चिमे जयपुरमण्डलम्, उत्तरे अलवरमण्डलं, दक्षिणे सवाई माधोपुरमण्डलम् अस्ति । अस्मिन् मण्डले सवा, बाणगङ्गा इत्येते द्वे नद्यौ प्रवहतः ।

जनसङ्ख्या[सम्पादयतु]

२०११ जनगणनानुगुणं दौसामण्डलस्य जनसङ्ख्या १६३७२२६ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ४७६ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ४७६ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २४.३१% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९०४ अस्ति । अत्र साक्षरता ६९.१७ % अस्ति ।

उपमण्डलानि[सम्पादयतु]

अस्मिन् मण्डले पञ्च उपमण्डलानि सन्ति । तानि-

  • बासवा
  • दौसा
  • लालसोट
  • माहवा
  • सिकरै

वीक्षणीयस्थलानि[सम्पादयतु]

अस्मिन् मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -

  • मेहन्दीपुर बालाजीमन्दिरम्
  • अभनेरी
  • बण्डारेज
  • खवारावजी
  • झाजी रामपुर
  • नीलकण्ठमन्दिरम्

इत्यादीनि ।

बाह्यानुबन्धाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=दौसामण्डलम्&oldid=464745" इत्यस्माद् प्रतिप्राप्तम्