सामग्री पर जाएँ

द्रोणपुष्पीसस्यम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


इदं द्रोणपुष्पीसस्यं भारते वर्धमानः कश्चन सस्यविशेषः । इदं भारतस्य सर्वेषु अपि प्रदेशेषु वर्धते । इदं वर्षावधि सस्यम् अपि । अस्य सस्यस्य काण्डस्य तथा च पर्णानाम् उपरि लघु रोमाणि भवन्ति । काण्डतः शाखाः उद्गताः भवन्ति । अस्य सस्यस्य पुष्पाणां वृन्तं न भवति । अस्य द्रोणपुष्पीसस्यस्य पुष्पाणि लघ्वाकारकाणि, श्वेतवर्णीयानि च भवन्ति । अस्य सस्यस्य पञ्चाङ्गानि अपि औषधत्वेन उपयुज्यन्ते । अस्य पुष्पे कश्चन विशिष्टः तैलांशः भवति तथैव कश्चन क्षारांशः अपि । शिवस्य द्रोणपुष्पं बहु प्रियम् इति पुराणप्रसिद्धिः । अतः शिवस्य पूजायां इदं पुष्पम् आधिक्येन उपयुज्यते । सामान्यतः वर्षाकाले भूमौ सर्वत्र वर्धते । इदं एकं लघु सस्यम् । चतुष्कोणाकृतिः रोमशः च भवति ।

आयुर्वेदस्य अनुसारम् अस्य द्रोणपुष्पीसस्यस्य प्रयोजनानि

[सम्पादयतु]

अस्य सम्पूर्णस्य द्रोणपुष्पीसस्यस्य रुचिः मधुरः, लवणाः, कटुः च । इदं सस्यं विपाके मधुरम् एव भवति । इदम् उष्णवीर्यं चापि । इदं लघु, तीक्ष्णं चापि ।

  1. इदं द्रोणपुष्पीसस्यं कफं वातं चापि शमयति ।
  2. इदं मलं द्रवीकरोति । पचनशक्तिं वर्धयति च ।
  3. अस्य द्रोणसस्यस्य उपयोगेन क्रिमिबाधा निवारिता भवति ।
  4. इदं द्रोणसस्यं विशेषतया कामलायां, शोथे, श्वासरोगे, कासे च उपयुज्यते ।
  5. अस्य द्रोणसस्यस्य रसः ३० मि.लीटर् मितः एव उपयोक्तव्यः ।
  6. अस्य सस्यस्य रसस्य लेपनेन पिटकाः, कण्डूयनम् इत्यादयः अपगच्छन्ति ।
  7. अस्य पुष्पैः निर्मितम् अञ्जनं प्रातः नेत्रे स्थाप्यते । (पुष्पस्य रसः मधुना सह योजयित्वा निर्मितम्) (कामलादिषु रोगेषु केवलम् उपयोक्तव्यं, तदपि वैद्यानां सूचनायाः अनुसारम्)
  8. कामारोगस्य द्रोणपुष्पी अत्युत्तमम् औषधमिति वृन्दमाधवग्रन्थे उक्तम् । कामालरोगिणः नेत्रयोः अस्य पर्णानाः रसः कज्जलवत् लेपनीयः ।
  9. स्रपविषं, क्रिमिरोगः पीनसः, कासः, श्वासरोगः (अस्तमा,)स्त्रीणां ऋतुकालवेदना, रक्तसम्बन्धीरोगाः इत्येतेषाम् अस्य सस्यस्य काण्डं निष्मीड्य् प्राप्तस्य रसस्य ५-१० मि.ग्रां परिमितं सेवनं परिणामकारि
  10. अस्य पुष्पाणि क्षीरेण सह पिष्ट्वा सपदि सेव्यते चेत् हिक्कःशान्तः भवति ।
  11. इदं सस्यं शीघ्रं स्वेदं जनयति । अतः विषमज्वरादिषु अनेन चिकित्सा लाभकारिणी ।
  12. चर्मरोगेषु अस्य पर्णानि उपयुज्यन्ते ।
  13. अस्य रसं बिन्दुद्वयपरिमितं नेत्रद्वये अपि स्थाप्यते चेत् सर्वविधाः उदरवेदनाः सकृत किञ्चित् शाम्यति ।
  14. नेत्रसम्बन्धिनां सामान्यव्रणानाम् अपि अनेन चिकित्सां कर्तुं शक्यते । किन्तु तज्ञवैद्यानां मार्गदर्शने एव अस्य प्रयोगः करणीयः
  15. दन्तसमस्यानिवारकी दन्तवेदनायां , दन्तेषु कम्पमानेषु अपि द्रोणपुष्प्याः उपयोगः कर्तुं शक्यते । अस्य मूलं एकलीटर् परिमिते जले संस्थाप्य क्वथनीयम् । क्वथनेन तद् अर्धलीटर् पारिमितं भवेत् । नस्मिन् कषायजले किञ्चित् लवणं संस्थाप्य गण्डूषः करणीयः । तेन दन्तवेदना शाम्यते दन्ताः दृढाः च भवन्ति । अपि च दन्तमांसे, दन्तमूले च शोथः, वेदना, टुर्गन्धः वर्तते चेदपि अपगच्छति ।
  16. सैनसैटिस् समस्यायां नासिका नालिषु (सेनसम्ध्ये) पूयः यदा पूरितः भवति तदा औषधप्रयोगेण तद् न शाम्यति चेत् अनिवार्यतया शस्त्रचिकित्सा करणीया भवति । असाध्यां शिरोवेदनां सोदुम् अशक्तः रोगी कामपि चिकित्सां कर्तुं सिद्धः भवति । तद् द्रोणपुष्पीसस्येन पूर्णतया शामयितुं शक्यते इति प्रसिद्धा आयुर्वेदतज्ञा डा. सावित्री दैतोटः वदति । सः क्रमः अधः निर्दिष्टः ।

सूर्योदयात् पूर्वं द्रोणपुष्पीसस्यस्य् पर्णानि, अङ्कुरान् (पुष्पमञ्जरीसहितं भवति चेत् उत्तमम् ) च आनीय सम्यक् पिष्ट्वा रसः निष्कासनीयः । रोगी उर्ध्वमुखः शयनं कुर्यात् । तस्य कण्ठस्य एकम् उपाधानं सांस्थाप्य चिबुकं किञ्चित् उन्नीय नासिकारन्ध्रौ यथा उर्ध्वमुखौ भवेतां तथा करणीयम् । ततः प्रत्येकस्मिन् रन्ध्रे अपि रसस्य षड् बिन्दवः स्थापनीयाः । द्वित्रान् निमेषान् यावत् तथैव शयन कुर्यात् । तदनन्तरम् उत्थाय शिरः किञ्चित् पुरतः नमयित्वा नासिकातः स्रावः सरलतया यथा भवेत् तथा उपवेष्टव्यम् । यदा सर्वं बहिः गच्छति तदा नासिका स्वच्छीकरणीया । एव त्रीणि वा चत्वारि दिनानि यावत् कुर्वन्ति चेत् सैनसैटिस् न्यूनं भवति ।

  1. द्रोणपुष्प्याः सस्येन जलम् अयोजयित्वा रसः निष्पीडनीयः १८-२० दिनपर्यन्तं प्रतिदिनं प्रतिनेत्रं बिन्दुद्वयं स्थापयन्ति चेत् नेत्रे दुर्मांसस्य अङ्कुरः विनश्यति ।
"https://sa.wikipedia.org/w/index.php?title=द्रोणपुष्पीसस्यम्&oldid=374019" इत्यस्माद् प्रतिप्राप्तम्