धर्मसूत्रकाराः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

धर्मसूत्रकाराः धर्मशास्त्रस्य सूत्राणां रचयितारः भवन्ति। गौतमादयः अनेके धर्मसूत्रकाराः प्रसिद्धाः वर्तन्ते। धर्मसूत्रसाहित्यं वेदाङ्गभूतस्य कल्पसूत्रस्यांगविशेषः। धर्मसूत्राण्यपि वैदिकशाखावद् भिन्नशाखासु भिन्नानि वर्तन्ते । यद्यपि सर्वे धर्मसूत्रग्रन्थाः नोपलभ्यन्ते तथापि श्रौतसूत्रगृह्यसूत्रादिवद् धर्मसूत्राण्यपि निर्दिष्टान्यासन् । कुमारिलस्य तन्त्रवार्त्तिकानुसारं गौतम- गोभिलादीनां ग्रन्थान् सामवेदिनः, वसिष्ठस्य ऋग्वेदिन:, शंखलिखितादीनां वाजसनेयिनः , आपस्तम्बबौधायनादीनां तैत्तिरीयकाः, शौनकादीनामथर्ववेदिनोऽनुसरन्ति। कालक्रमेण धर्मसूत्राणि वेदैः सह संपृक्तत्वाद् वैदिकशाखासु प्रामाणिकतया व्यवह्रियन्ते स्म । धर्मसूत्राण्यपि बहूनि रचितानि सन्ति । तेषु गौतम - आपस्तम्ब - बौधायन - वसिष्ठ-विष्णु हारीत - शंखलिखित - वैखानस -हिरण्यकेशिप्रभृतीनां धर्मसूत्राणि प्रमुखानि ।

धर्मसूत्रेषु वर्णितसामाजिकस्थितिभ्यस्तेषां रचनाकाल: स्पष्टमनुमीयते। गौतम- आपस्तम्ब - बौधायनप्रणीतानां प्राचीनधर्मसूत्राणां काल: ५०० ई.पू. त: १०० ई. पू. मध्ये निश्चीयते। धर्मसूत्रस्य मुख्यप्रतिपाद्यविषयो भवति मनुष्यजीवनस्याचार-कर्त्तव्ययोर्वर्णनम् । धर्मसूत्रे मुख्यतः वर्णानामाश्रमाणाञ्च नियमाः, द्विजानां दैनिककृत्यं, गृह्ययज्ञः, पाकयज्ञः, गर्भाधान- पुंसवनादयः षोडशसंस्काराः, ब्रह्मचारि- स्नातकादीनां नियमाः, मधुपर्कः, श्राद्धकर्म, धर्मस्योपादेयता, वर्णधर्माः, वर्णानां जीवनवृत्तयः, आश्रमधर्माः, जाति- अनुलोम प्रतिलोम - वर्णसंकरधर्माः , सपिण्डसगोत्रादिनिरूपणं , पाप-प्रायश्चित्त- व्रत आशौचानि , प्रमाणानि, ऋणादानादीनि विवादपदानि, राजधर्मः, स्त्रीपुंधर्मः, पत्रभेदाः, उत्तराधिकारादयश्च विषयाः वर्णिताः।

धर्मसूत्रस्य वातावरणमधिकं सामाजिकं नैतिकञ्च । धर्मसूत्रं वर्णाश्रम धर्मान् व्यावहारिकधर्मांश्चानुशास्ति । एते धर्मशास्त्रग्रन्थाः धर्मचरित्रान्वेषिणां परमोपकारमाचरन्ति । धर्मसूत्रं सामयाचारिकान् धर्मान् प्रतिपादयति। धर्मसूत्र ग्रन्थसमुदायोऽयं भारतवर्षीयाणां लौकिकव्यवहारधर्माणां मूलभूतः।

धर्मसूत्राणां भाषाऽसंयता एव दृश्यते । न कमपि व्याकरणग्रन्थं व्याकरणनियमान् वाऽऽश्रित्य धर्मसूत्राणि रचितान्यासन् । धर्मसूत्रेषु प्राय:स्थलेषु अपाणिनीयशब्दा उद्धृताः सन्ति । अत: भाषाविज्ञानगतनियमास्तेषु न प्रयुज्यन्ते। यद्यपि सर्वाणि धर्मसूत्राणि एकस्मिन्नेव काले न रचितानि , तथापि केचन साधारणनियमाः सर्वेषु धर्मसूत्रेषु प्राप्तुं शक्यन्ते । बहुषु स्थलेषु धर्मसूत्राणां भाषा वैदिकसाहित्यस्य सरणीमनुसरति । वैदिकव्याकरणानुमोदितं मार्गमनुसृत्य धर्मसूत्राणि रचितानि दृश्यन्ते । अन्यानि कानिचन तथ्यानि धर्मसूत्रेषु उद्धृतानि सन्ति, यानि सामाजिकविकाशानन्तरमेवान्तर्भुक्तानि इव प्रतीयन्ते। अत: धर्मसूत्राणां प्रणयनविषये एते सिद्धान्ता: ग्रहीतुं शक्यन्ते ।

१. प्राय: सर्वाणि धर्मसूत्राणि पाणिनिकालात् पूर्वमेव विरचितान्यासन्।

२. धर्मसूत्राणां रचनासमये पाणिनि: व्याकरणग्रन्थस्य प्रणेतृरूपेण प्रसिद्ध: नासीत्।

३. लौकिकन्यायानां सूक्तानां पदानां च प्रभावस्तदानीं समाजेऽव्याहत आसीत् ।

भाषागतविभेदविषये गौतम -बौधायन - आपस्तम्ब - हिरण्यकेशि - वसिष्ठ - विष्णु - वैखानसानां धर्मसूत्राणि प्रमाणत्वेनोपन्यस्तानि सन्ति। कानिचन धर्मसूत्राणि पाणिनिनियमानुसारेण यद्यपि लिखितानि दृश्यन्ते, तथापि तेषां धर्मसूत्राणां प्रामाण्यमैतिहासिकैः न स्थिरीक्रियते , अथवा पाणिनि: धर्मसूत्राणां भाषां सम्यग विचार्य आलोच्य चाष्टाध्यायीं विरचितवानिति अनुमीयते। अथवा पाणिनीयव्याकरणं तदानीन्तनकाले प्रचलितं नासीदिति ।

यद्यपि धर्मसूत्रेषु स्मृतिवद् विषयाः क्रमबद्धाः न सन्ति तथापि स्मृतिप्रतिपादिताः सर्व एव विषया अत्रापि सन्निविष्टाः भवन्ति । चतुर्णा वर्णानां, चतुर्णामाश्रमिणां कर्त्तव्यानि च धर्मसूत्रेषु विस्तरश: वर्णितानि भवन्ति । समाजस्य सुस्थितिः, स्वस्वकर्तव्येषु संस्थापनं च धर्मसूत्रकाराणां मूललक्ष्यमासीत्। अतः सामयाचारिकं धर्मं ते विशेषत उपस्थापयन्ति । धर्मसूत्रकाराः यद्यपि राजधर्मं व्यवहारं च पुडानुपुङ्खन विवेचयन्ति तथापि राज्ञः कर्त्तव्यान्याश्रित्य किञ्चिद् विचारयन्ति । व्यवहारेषु ते केवलं पुत्रभेदान् , दायभागविषयं च कटाक्षपातं कुर्वन्ति ।

अशौच- प्रायश्चित्तविषययोः पुङ्खानुपुङ्ख विवेचने धर्मसूत्रकाराणां प्रयास: नितरां प्रशंसनीयः। पापसत्ता द्योतयितुं, पापक्षयकारणं च परिष्कर्तुं मनोहरां युक्तिं प्रमाणवचनं च धर्मसूत्रकार: गौतम: उपस्थापयति । धर्मसूत्रकारा: आचारकाण्डा न्तर्गतविषयान् विशेषरूपेण विवृण्वन्ति तथा श्राद्धान्तर्गतविषयान् सविधिकानुप स्थापयन्ति । द्रव्यशुद्धिं, शारीरशुद्धिं च धर्मसूत्रकारा: स्वस्वग्रन्थेषु यत्नत उपस्थापयन्ति ।

अन्ते अयमेव सिद्धान्तः गृह्यते यत् संस्कृतस्य क्रमिकविकाशार्थं धर्मसूत्रकाराणां महत्त्वं वैशिष्ट्यं चानवद्यमासीत् । वैदिककालस्याभिवृद्धि: धर्मसूत्रैरेव साधितेति नास्ति कश्चन संशयलेशः।

स्मृतिधर्मसूत्रयोः वैषम्यम्[सम्पादयतु]

१. धर्मसूत्राणि कल्पभागस्य अंशरूपेण चिह्नितानि भवन्ति , तथा गृह्यसूत्रैः साकं तेषां निविडसंपर्क: विद्यते।

२. धर्मसूत्रं कदाचित् स्वशाखां प्रति स्ववेदस्योद्धरणानि प्रति पक्षपातं प्रदर्शयति।

३. प्राचीनधर्मसूत्राणां प्रणेतारः आत्मानमृषित्वेनातिमानवत्वेन वा न प्रति पादयन्ति। परन्तु स्मृतिकारा: मनुयाज्ञवल्क्यादयः आत्मानं देवानां समकक्ष स्थापयन्ति ।

४. धर्मसूत्रं गद्यमयमथवा गद्यपद्यमिश्रितं दृश्यते । परन्तु स्मृतय: केवलं पद्यबद्धाः प्राप्यन्ते।

५. धर्मसूत्राणां भाषा स्मृतिग्रन्थेभ्यः प्राचीना मन्यते ।

६. धर्मसूत्राणां विषयाः अव्यवस्थिता: दृश्यन्ते। स्मृतेः विषयास्तु व्यवस्थितरूपेण प्रतिपादिताः भवन्ति ।

गौतमः[सम्पादयतु]

महर्षिगौतमः सामवेदस्य राणायनीयशाखाध्यायी आसीत् । छान्दोग्योपनिषदि[१] हारिद्रुमत-गौतमस्य नाम प्राप्यते । कठोपनिषदि[२] गौतमस्य नामोल्लिखितं वर्त्तते । प्रचलितमन्वन्तरस्य सप्तर्षिषु एकः गौतमः वर्तते । प्रवराध्यायानुसारमङ्गिरसः शिष्य: गौतमोऽपि अन्यतमः। एकविंशव्यासरूपेणापि एक: गौतम: प्रतिपादितः।[३] रामायणमहाभारतादिषु बहूनां गौतमानामुल्लेख: दृश्यते। गोदावरीसमीपे एकः गौतमः प्रतिवसति स्म, यस्य नामानुसारं गौतमीनदी तत्र प्रवहतीति रामायणे[४] वर्णितमस्ति। न्यायशास्त्रस्य प्रणेतृरूपेणाक्षपादनाम्ना कृष्णयजुर्वेदान्तर्गत एक: गौतमः वर्तते। वेणराजस्य सभायामेक: गौतम:[५] प्रतिवसति स्म । धुमत्सेनराजस्य सभायामपि एक: गौतम आसीत् । दीर्घतमर्षे: पुत्ररूपेण तथा बृहस्पते: भागिनेयरूपेणापि एक: गौतम:[६] प्रतिपादितः। भृगुप्रोक्त मनुस्मृतौ, बौधायनधर्मसूत्रे, वसिष्ठस्मृतौ च गौतम: उतथ्यतनयरूपेण प्रतिपादितः। अतोऽस्यैव गौतमस्य विषये न काचित् स्पष्टा सूचना प्राप्यते। तथापि प्राचीनधर्म शास्त्रसंयोजकरूपेण गौतमस्य प्रसिद्धिरङ्गीकर्त्तव्या। गौतमः त्रेतायुगे प्रामाणिक धर्मशास्त्रकाररूपेण प्रसिद्धिमाप्नोतीति पराशरेणोक्तमस्ति[७]

महर्षिगौतमस्य निवासस्थानविषये द्विधा मतं दृश्यते । प्रथमं चासौ दक्षिणभारतीयः, विशेषत: गोदावरीतीरनिवासी आसीदिति। द्वितीयं च मिथिला निवासी आसीत्। प्रथमपक्षस्य प्रामाण्यं बहुभिरैतिहासिकैः स्वीकृतमस्ति। पुराणेषु तत्परकाणि प्रतिपादितानि बहूनि प्रमाणवचनानि दृष्टिपथमायान्ति। अत एव गौतमस्य मैथिलत्वं प्रायोऽनादृतमेव ।

महर्षिप्रणीतं धर्मसूत्रं बौधायन-आपस्तम्बादिभिरुद्धृतत्वात् तेभ्यः गौतमस्य प्राचीनत्वं स्वीक्रियते । धर्मसूत्रेषु गौतमधर्मसूत्रस्य प्राचीनत्वमपि सर्वेऽङ्गीकुर्वन्ति। धर्मसूत्रमिदं सम्पूर्ण सूत्रात्मकं दृश्यते। अस्मादपि तस्य प्राचीनत्वं स्पष्टीभवति । जाकोवि - श्यामशास्त्री - के. पि. ज्यायसवालादय ऐतिहासिकाः गौतमधर्मसूत्रस्य प्रणयनकालं ख्रीष्टात् पूर्वं तृतीयशतक एव स्थिरीकुर्वन्ति। डा. जुलियसजोली - विण्टरनिजमहोदयानां मतानुसारं चास्य काल: ख्रीष्टात् परं तृतीयशतकात् पूर्वमेव सम्भवेत् । डा. पि. भि.काणेमहोदयानां मतानुसारं ख्रीष्टात् पूर्वं षष्ठशतकादारभ्य ख्रीष्टात् पूर्वं चतुर्थशतकाभ्यन्तर एव भवेत्। नैयायिक:[८] धर्मकीर्तिः न्यायबिन्दुग्रन्थे गौतमः धर्मशास्त्रप्रणेतृषु मुख्य आसीदिति प्रतिपादयति।

महर्षिगौतमनाम्ना कृतिद्वयमुपलभ्यते । यथा - गौतमधर्मसूत्रम्, वृद्धगौतमसंहिता चेति। इदानीमनयोः ग्रन्थयो: परिचय: प्रदीयते।

गौतमधर्मसूत्रम्[सम्पादयतु]

अस्मिन् धर्मसूत्रे त्रयः प्रश्नाः, २८ अध्यायाश्च विद्यन्ते । कलिकतासंस्करणे कर्मविपाकनाम्ना एकोऽतिरिक्तोऽध्यायः वर्तते। धर्मसूत्रमिदं बहुवारं बहुत्र प्रकाशितमस्ति । तानि संस्करणानि यथा -

क) डा.प्टेञ्जलसंपादितं कलिकतासंस्करणं १८७६ ख्रीष्टाब्दे प्रकाशितम्।

ख) हरदत्तटीकासमेतमानन्दाश्रमसंस्करणं १९१० ख्रीष्टाब्दे प्रकाशितम् ।

ग) मस्करिभाष्यसमेतं मैसूरगवर्नमेण्टसंस्करणं, १९१७ ख्रीष्टाब्दे प्रकाशितम्।

घ) हरदत्तटीकासमेतं चौखम्बासंस्कृतसिरिज, वारणासीद्वारा १९६६ ख्रीष्टाब्दे प्रकाशितम् ।

ङ) सूक्ष्माटीकासमेतं पुरीसंस्करणं १९९१ ख्रीष्टाब्दे प्रकाशितम् ।

धर्मसूत्रस्य प्रतिपाद्यविषयाः[सम्पादयतु]

गौतमधर्मसूत्रेऽध्यायानुसारं प्रतिपादितविषयाः यथा -

प्रथमप्रश्ने प्रथमाध्याये - धर्मप्रमाणानि, उपनयनकालः , सदाचारश्च ।

द्वितीयाध्याये - प्रागुपनयनात् परं च ब्रह्मचारिणः कर्त्तव्यानि, समावर्त्तननियमाः।

तृतीयाध्याये - ब्रह्मचारिण: वानप्रस्थस्य संन्यासिनश्च कर्त्तव्यानि।

चतुर्थाध्याये - विवाहभेदाः, तेषां स्वरूपाणि च।

पञ्चमाध्यायतः सप्तमाध्यायान्तेषु - गृहस्थधर्माः, आपद्धर्माश्च।

अष्टमाध्याये - चत्वारिंशत् संस्काराः, अष्टौ आत्मगुणाश्च ।

नवमाध्याये - गृहस्थस्य कर्त्तव्यानि ।

द्वितीयप्रश्ने प्रथमाध्याये - वर्णानां साधारणकर्त्तव्यानि, विशेषकर्त्तव्यानि च ।

द्वितीयाध्याये - राजधर्मः।

तृतीयाध्याये - दण्डविधिः।

चतुर्थाध्याये - साक्षिण: कर्त्तव्यानि।

पञ्चमाध्याये - जननमरणाशौचम्।

षष्ठाध्याये - पितृपुरुषाणां कृते पिण्डदानविधिः, तर्पणञ्च ।

सप्तमाध्याये - वेदाध्ययनकालाः, वेदानामनध्ययनकालाश्च।

अष्टमाध्याये - भक्ष्याभक्ष्यनियमाः।

नवमाध्याये - स्त्रीधर्माः ।

तृतीयप्रश्ने प्रथमाध्याये - प्रायश्चित्तस्वरूपम्, तभेदाश्च।

द्वितीयाध्याये - पापानां परिणामः, परजन्मनि च तस्य प्रभावः।

तृतीयाध्याये - संसर्गनिमित्तमनुपयोगिनां नराणां व्यवहाराः।

चतुर्थाध्याये - पतनीयानि प्रायश्चित्तानि ।

पञ्चमाध्याये - ब्रह्महत्याप्रायश्चित्तानि ।

षष्ठाध्याये - सुरापानप्रायश्चित्तानि ।

सप्तमाध्याये - रहस्यप्रायश्चित्तानि।

अष्टमाध्याये - उपपातकप्रायश्चित्तानि।

नवमाध्याये - कृच्छ्रचान्द्रायणभेदाः, तेषां स्वरूपाणि च।

दशमाध्याये - उत्तराधिकारविधिश्चेति ।

गौतमधर्मसूत्रे आचारप्रायश्चित्तविषयाः प्रायः प्रतिपादिताः दृश्यन्ते । स्मृतिवदस्य विषयविन्यास: यथास्थाने न विद्यते । चतुराश्रमिणां विशेषाधिकाराः गौतमेन सम्यक् प्रतिपादिताः । गौतमप्रतिपादितेभ्यः विषयेभ्यः ज्ञायते यद् गौतमात् पूर्वमपि केचन धर्मशास्त्रकारा आसन् ।

गौतमः वेद - ब्राह्मण - उपनिषद् - वेदाङ्ग - वाकोवाक्य - पुराण - इतिहास - उपवेद - धर्मशास्त्राणि उद्धरति । गौतमः दत्तकपुत्रग्रहणविषयं पुत्रपरिग्रहत्वेन तथा विवाह[९] सहधर्मचारिणीसंयोगत्वेनोपस्थापयति ।

वैशिष्ट्यम्[सम्पादयतु]

१. चत्वारिंशत्संस्काराः, अष्टौ आत्मगुणाश्च गौतमेन प्रतिपादिताः।

२. वेदाविरुद्धाः देश - जाति - काल - वर्णधर्माः प्रतिपादिताः।

३. रजोदर्शनात्प्रागेव पिता कन्यां विवाहयेत्। धर्मकार्यानुष्ठानार्थं स्त्रियः न स्वतन्त्राः।

४. ब्राह्मणोऽपराधं कृत्वा शारीरं दण्डं न प्राप्नुयात् ।

५. गौतमः अपुत्रिकस्य मरणात् परं विधवाया: नियोगं स्वीकरोति।

गौतमधर्मसूत्रोपरि अनेके टीकाग्रन्था: विरचिता आसन् । तेषु असहायभर्तृयज्ञाभ्यां कृतं भाष्यमिदानीं यावद्दुर्लभं विद्यते। अपरे च टीकाग्रन्थाः यथा -

१.मस्कराचार्यकृता मस्करीटीका। मस्कराचार्यः वामनस्य पुत्र आसीत्। तस्य च काल: ख्रीष्टात् परं नवमशतकादेकादशशतकाभ्यन्तरे ऐतिहासिकैः स्वीक्रियते। मस्करिमतं लक्ष्मीधरस्य कृत्यकल्पतरौ, चण्डेश्वरस्य गृहस्थरत्नाकरे चोद्धृतं दृश्यते।

२. हरदत्तकृता मिताक्षराटीका । ख्रीष्टीयचतुर्दशशतकोत्पन्न: हरदत्तः दाक्षिणात्य आसीत् ।

३. पण्डितकुलमणिमिश्रकृता सूक्ष्माटीका । असौ टीकाकार: उत्कलीयः पुरी वास्तव्यश्च । स च १९१८ ख्रीष्टाब्दे जनि लब्ध्वा १९९० ख्रीष्टाब्दे देहत्यागमकरोत्। २)

वृद्धगौतमसंहिता[सम्पादयतु]

संहितेयं जीवानन्दसंग्रहे, नागप्रकाशनस्य स्मृतिसन्दर्भेऽपि वृद्धगौतमस्मृतिनाम्ना प्रकाशिताऽस्ति । अत्र द्वाविंशत्यध्यायाः, १६३९ श्लोकाश्च वर्तन्ते। अत्राध्यायानुसार प्रतिपादितविषयाः, श्लोकसंख्या च प्रतिपाद्यन्ते।

प्रथमाध्याये - ७२ श्लोकाः, केशवयुधिष्ठिरयोः सम्वादमाध्यमेन धर्मजिज्ञासा।

द्वितीयाध्याये -४२ श्लोकाः धर्मप्रशंसा , धर्मशास्त्रकाराणां नामपरिगणनम् , व धर्मशास्त्रप्रशंसा, वर्णधर्माश्च।

तृतीयाध्याये - ९३ श्लोकाः, दानप्रकरणम्।

चतुर्थाध्याये - ५८ श्लोकाः, विप्राणां गुणदोषनिर्णयः।

पञ्चमाध्याये - १२४ श्लोकाः, जीवस्य शुभाशुभकर्मणां फलवर्णनम् ।

षष्ठाध्याये - १७४ श्लोकाः, विविधदानानि।

सप्तमाध्याये - १३४ श्लोकाः , वृषदान - श्रौताग्निपूजन - प्रायोपवेशन - ब्रह्मज्ञानश्रवणादीनां फलानि ।

अष्टमाध्याये - १२१ श्लोकाः, पञ्चमहायज्ञवर्णनम् ।

नवमाध्याये - ८४ श्लोकाः, कपिलादानविधिः, प्रशंसा च।

दशमाध्याये - १२० श्लोकाः, श्राद्धकालाः, पाङ्क्तेयाः, अपाङ्क्तेयाश्च।

एकादशाध्याये - ३७ श्लोकाः, ब्रह्मघातकलक्षणं, भोज्याभोज्यानविधिवर्णनञ्च।

द्वादशाध्याये - ५२ श्लोकाः, संन्यासिनः कर्त्तव्यानि , सत्पात्रस्वरूपञ्च।

त्रयोदशाध्याये - ३४ श्लोकाः, भोजनविधिवर्णनं, तृण- तिल - इक्षुप्रभृतीनां दानफलानि ।

चतुर्दशाध्याये - ६७ श्लोकाः, आपद्धर्मः, मनुस्मृतिसारः।

पञ्चदशाध्याये - ९९ श्लोकाः, धर्ममहत्त्ववर्णनम्, अग्निहोत्रवर्णनञ्च ।

षोडशाध्याये - ४८ श्लोकाः, चान्द्रायणविधिवर्णनम् ।

सप्तदशाध्याये - ५८ श्लोकाः, द्वादशमासेषु धर्मकृत्यवर्णनम् ।

अष्टादशाध्याये - ४९ श्लोकाः, एकभक्तोपवासादिफलवर्णनम्।

एकोनविंशाध्याये - ४५ श्लोकाः, दान-गायत्रीमन्त्रजपयोः फलवर्णनम् ।

विंशाध्याये - ४८ श्लोकाः, तीर्थलक्षणवर्णनं, रहस्यप्रायश्चित्तवर्णनश्च।

एकविंशाध्याये - ३२ श्लोकाः, सत्यप्रशंसा , भक्तप्रशंसा च ।

द्वाविंशाध्याये - ४८ श्लोकाः, शूद्रधर्मवर्णनं, देवपूजनप्रशंसा चेति ।

विज्ञानेश्वर- देवणभट्ट- हेमाद्रि- माधव - नन्दपण्डित - अपरार्क- प्रभृतिभिः वृद्धगौतमस्य श्लोकगौतमस्य च प्रमाणवचनानि स्वीकृतानि सन्ति। वृद्धगौतम - श्लोकगौतमयोश्च व्यवहारप्रायश्चित्तविषयक: न कश्चन श्लोक: दृश्यते ।

बौधायनः[सम्पादयतु]

महर्षिबौधायन: कृष्णयजुर्वेदानुयायी आसीत्। असौ काण्व-बौधायनस्य शिष्य आसीत् । बौधायनः कल्पसूत्रमेकं रचितवान्। बौधायनकल्पसूत्रे षट्

सूत्राणि सन्ति । तेषां सूत्राणां स्वरूपं डाँ वर्नलमतानुसारमित्थं भवति ।

१. बौधायनश्रौतसूत्रं (१९) एकोनविंशतिप्रश्नैः विभक्तम् ।

२. बौधायनकर्मान्तसूत्रं विंशत्यध्यायैः विरचितम् ।

३. बौधायनद्वैधसूत्रं चतुर्भिः प्रश्नैः लिखितम् ।

४. बौधायनगृह्यसूत्रं चतुर्भिः प्रश्नः विरचितम् ।

५. बौधायनधर्मसूत्रं चतुर्भिः प्रश्नः विभक्तम् ।

६. बौधायनशुल्वसूत्रं त्रिभिरध्यायैः लिखितम् ।

डा. कालाण्डमतानुसारं बौधायनकल्पसूत्रस्य विभागोऽन्यथा प्रतीयते। यथा -

१. बौधायनश्रौतसूत्रमेकविंशतिप्रश्नः (१-२१) विभक्तम् ।

२. बौधायनद्वैधसूत्रं चतुर्भिः (२२-२५) प्रश्नः विभक्तम् ।

३. बौधायनकर्मान्तसूत्रं त्रिभिः (२६-२८) प्रश्नः विभक्तम्।

४. बौधायनोक्तं श्रौतप्रायश्चित्तं त्रिभिः (२९-३१) प्रश्नः विभक्तम् ।

५. बौधायनशुल्वसूत्रमेकेन (३२) प्रश्नेन संकलितम् ।

६. बौधायनगृह्यसूत्रं त्रिभिः (३३-३५) प्रश्नैः विरचितम्।

७. बौधायनोक्तं गृह्यप्रायश्चित्तमेकेन (३६) प्रश्नेन लिखितम् ।

८. बौधायनोक्ता गृह्यपरिभाषा एकेन (३७) प्रश्नेन विरचिता।

९. बौधायनोक्तं गृह्यपरिशिष्टं चतुर्भिः (३८-४१) प्रश्नः विभक्तम् ।

१०. बौधायनोक्तं पितृमेधसूत्रं त्रिभिः (४२-४४) प्रश्नः संकलितम् ।

११. बौधायनोक्तं प्रवरसूत्रमेकेन (४५) प्रश्नेन लिखितम् ।

१२. बौधायनधर्मसूत्रं चतुर्भिः प्रश्नः (४६-४९) विभक्तमिति ।

बौधायनस्य श्रौत-कर्मान्त- द्वैधसूत्रेषु भवस्वामिनः कल्पविवरणनाम्नी व्याख्या प्राप्यते।

बौधायन: दाक्षिणात्य आसीदिति बूहलर-काणेमहोदयादयः प्रतिपाद यन्ति। बौधायनशाखानुयायिनः ब्राह्मणाः दक्षिणभारत एव निवसन्ति । बौधायनीयसूत्रग्रन्थाः दाक्षिणात्य एवोपलभ्यन्ते । दक्षिणभारते केचिद्राजानोऽपि बौधायनीयब्राह्मणानुद्दिश्य दानपत्राणि प्रदत्तवन्त इति अभिलेखेभ्य: ज्ञायते। माधवाचार्य- सायणौ च बौधायनीयौ, दाक्षिणात्यौ च। बौधायन: धर्मस दक्षिणभारतीयानामाचारं प्रतिपाद्योत्तरभारतीयानां समुद्रसंयानादिकं च निन्दति। अत एतेभ्यः प्रमाणेभ्यः बौधायनस्य दक्षिणभारतीयत्वं सिद्ध्यति।

बौधायनधर्मसूत्रं गौतमधर्मसूत्रस्य प्रणयनानन्तरमेव रचितमासीदिति बूहलर- काणे- रामगोपालादयः स्थिरीकुर्वन्ति । बौधायनधर्मसूत्रे गौतमस्य नारा वारद्वयमुल्लिखितमस्ति। बूहलरमहोदयः बौधायनमापस्तम्बात् प्राचीनं मनुते। तदनुसारं बौधायनधर्मसूत्रस्य काल: ख्रीष्टात् पूर्वं द्वितीयशतकादारभ्य ख्रीष्टीयपञ्चम शतकाभ्यन्तर एव निश्चीयते । रामगोपालस्तु अस्य कालं ख्रीष्टात् पूर्व पञ्चमशतकादारभ्य खीष्टात् पूर्वं द्वितीयशतकाभ्यन्तर एव स्थापयति। काणेमहोदयोऽपि रामगोपालप्रतिपादितं मतं स्वीकरोति।

बौधायनधर्मसूत्रस्य भाषा प्राचीना मन्यते । अस्य शैली सरला, धाराप्रवाहा च प्रतीयते। अत्र दीर्घगद्यभागाः, पद्यभागाश्च दृश्यन्ते। धर्मसूत्रमिदं बौधायनशिष्येण केनापि भृगुणा मनुस्मृतिवत् सङ्कलितमिति गोविन्दस्वामी प्रतिपादयति। बौधायन: स्वशिष्यानुपदेशमाध्यमेन धर्मशास्त्रनियमान् श्रावयामास। अनन्तरं च शिष्याः स्वगुरुकथितनियमानां सङ्कलनं कृत्वा धर्मसूत्रमिदं सर्वजनसमक्षमुपस्थापितवन्तः।

धर्मसूत्रस्य परिचय:[सम्पादयतु]

बौधायनधर्मसूत्रे चत्वारः प्रश्नाः, ३९ अध्यायाः ५७ खण्डाश्च विद्यन्ते। तत्र प्रतिपादिताः विषयाः प्रश्नक्रमेणाध्यायक्रमेण चोपस्थाप्यन्ते। भिटमा प्रथमप्रश्ने प्रथमाध्याये - धर्मस्योपादानानि, शिष्टस्वरूपं, परिषत्स्वरूपमुत्तरभारतीय- दक्षिणभारतीयानामाचरणं च।

प्रथमप्रश्ने द्वितीयाध्याये - ब्रह्मचारिधर्माः ।

प्रथमप्रश्ने तृतीयाध्याये - स्नातकधर्माः ।

प्रथमप्रश्ने चतुर्थाध्याये - कमण्डलुमहत्त्वम् ।

प्रथमप्रश्ने पञ्चमाध्याये - मानसाशौचम्, द्रव्यशुद्धिः, जननमरणाशौचम्, भक्ष्याभक्ष्यविचारश्च ।

प्रथमप्रश्ने षष्ठाध्याये - भूशुद्धिः, पात्रशुद्धिश्च।

शाम प्रथमप्रश्ने सप्तमाध्याये - यज्ञसम्बन्धिनियमाः।

प्रथमप्रश्नेऽष्टमाध्याये - स्त्रीधर्माः, पुत्रभेदाश्च।

प्रथमप्रश्ने नवमाध्याये - वर्णसङ्कराः।

प्रथमप्रश्ने दशमाध्याये - राजधर्माः, पञ्चमहापातकानि, दण्डविधिः,साक्षिप्रकरणञ्च।

प्रथमप्रश्ने एकादशाध्याये - विवाहभेदाः, अनध्यायाश्च।

द्वितीयप्रश्ने प्रथमाध्याये - पतनीयकर्माणि , तेषां प्रायश्चित्तानि , कृच्छ्रव्रतभेदाश्च ।

द्वितीयप्रश्ने द्वितीयाध्याये - दायविभागः, स्त्रीधर्माश्च।

द्वितीयप्रश्ने तृतीयाध्याये - गृहस्थधर्माः , स्नानाचमनवैश्वदेवविधानानि ।

द्वितीयप्रश्ने चतुर्थाध्याये - सन्ध्योपासन- गायत्री- प्राणायामाः।

द्वितीयप्रश्ने पञ्चमाध्याये - स्नानाचमन-सूर्योपस्थान- तर्पणानि, शारीरशुद्धिश्च ।

द्वितीयप्रश्ने षष्ठाध्याये - गृहस्थ - वानप्रस्थ - संन्यासिनां कर्त्तव्यानि।

द्वितीयप्रश्ने सप्तमाध्याये - आत्मज्ञानम् ।

द्वितीयप्रश्नेऽष्टमाध्याये - श्राद्धदानयोः विधिः।

द्वितीयप्रश्ने नवमाध्याये - पुत्रप्रंशसा, पुत्रद्वाराऽशेषफलप्रप्तिश्च ।

द्वितीयप्रश्ने दशमाध्याये - संन्यासः, आत्मयज्ञश्च ।

तृतीयप्रश्ने प्रथमाध्याये - परिव्राजकभेदाः।

तृतीयप्रश्ने द्वितीयाध्याये - षड्विधा जीवनवृत्तयः।

तृतीयप्रश्ने तृतीयाध्याये - वानप्रस्थधर्माः।

तृतीयप्रश्ने चतुर्थाध्याये - व्रतभङ्गप्रायश्चित्तम् ।

तृतीयप्रश्ने पञ्चमाध्याये - अघमर्षणपाठविधिः।

तृतीयप्रश्ने षष्ठाध्याये - प्रसृतयावकविधिः।

तृतीयप्रश्ने सप्तमाध्याये - कूष्माण्डहोमः ।

तृतीयप्रश्नेऽष्टमाध्याये - चान्द्रायणविधिः।

तृतीयप्रश्ने नवमाध्याये - पापक्षयोपायाः।

तृतीयप्रश्ने दशमाध्याये - प्रायश्चित्तविधिश्च।

चतुर्थप्रश्ने प्रथमाध्याये - प्रायश्चित्तं , प्राणायामः, ऋतुगमनकालश्च।

चतुर्थप्रश्ने द्वितीयाध्याये - ब्रह्महत्या - उपपातकादीनां प्रायश्चित्तानि।

चतुर्थप्रश्ने तृतीयाध्याये - रहस्यप्रायश्चित्तानि।

चतुर्थप्रश्ने चतुर्थाध्याये - पापक्षयनिमित्तानि वैदिकसूक्तानि।

चतुर्थप्रश्ने पञ्चमाध्याये - जपः , विविधव्रतानि च।

चतुर्थप्रश्ने षष्ठाध्याये - प्रायश्चित्तनियमाः।

चतुर्थप्रश्ने सप्तमाध्याये - गणहोमः। चतुर्थप्रश्नेऽष्टमाध्याये - धर्मशास्त्रप्रशंसा च ।

धर्मसूत्रस्य चतुर्थप्रश्नः पूर्णरूपेण श्लोकात्मकः। अयं च प्रक्षिप्तांश इति ऐतिहासिकैरुच्यते। विषयाश्चास्याव्यवस्थिताः । शबरस्वामी[१०] बौधायन धर्मसूत्रमुदाहरति । आपस्तम्बः सूत्रकारनाम्ना , बौधायनश्च प्रवचनकारनाम्ना प्रसिद्धौ । बौधायनः कश्यप - औपजवनि - गौतम - प्रजापति - हारीतानां मतानि उद्धरति ।

संस्करणानि[सम्पादयतु]

बौधायनधर्मसूत्रं बहुवारं बहुषु स्थलेषु प्रकाशितमस्ति। प्रकाशितानां प्रमुखसंस्करणानां विवरणमिदानी प्रदीयते ।

१. १८८४ ख्रीष्टाब्दे डा. हल्टस्कमहोदयेन लिजिग्नगरे मूलमात्रमस्या । प्रकाशितम्।

२. स्मृतिसङ्कलनमध्ये आनन्दाश्रममुद्रणालये तदनु मूलमा प्रकाशितम्।

३. १९०७ ख्रीष्टाब्दे मैसुर गवर्नमेण्ट ओरियण्टाल सिरिजमध्ये गोविन्दस्वामिकृतविवरणटीकया साकं प्रकाशितमिदं धर्मसूत्रम्।

४. गोविन्दस्वामिनः विवरणटीकया साकं काशीसंस्कृतसिरिजमध्ये धर्मसूत्रमिदं प्रकाशितम्।

५. विवरणटीकया हिन्दीभाषानुवादेन च साकं डा. उमेशचन्द्रपाण्डेयसम्पादितमिदं धर्मसूत्रं चौखम्बासंस्कृतसिरिजद्वारा १९३४ ख्रीष्टाब्दे प्रकाशितम्।

६. आंग्लानुवादेन साकं बूहलरमहोदयेन Sacred book of the East मध्ये चतुर्दशभागे धर्मसूत्रमिदं प्रकाशितम् । ७. नागप्रकाशनद्वारा स्मृतिसन्दर्भेऽपि धर्मसूत्रमिदं प्रकाशितमस्ति।

वैशिष्ट्यम्[सम्पादयतु]

१. बौधायनधर्मसूत्रे भौगोलिकतथ्यं दक्षिणभारतोत्तरभारतभेदेन प्रतिपादितम् ।

२. दक्षिणभारतस्य उत्तरभारतस्य च परिसीम आविष्कृतः।

३. शिष्टदेशस्य, आर्यावर्तस्य च परिसीमं बौधायनः प्रस्तौति।

४. असौ अवन्ति - अङ्ग - मगध - सुराष्ट्र - दक्षिणापथ - उपावृत् - सिन्धु-सौवीरादीनां देशानां विवरणं प्रस्तौति ।

बौधायनधर्मसूत्रोपरि विवरणनाम्नी एकैव टीकोपलभ्यते। इयं च टीका दक्षिणभारतोद्भवेन गोविन्दस्वामिना विरचिताऽऽसीत् ।

आपस्तम्बः[सम्पादयतु]

महर्षिरापस्तम्बः कृष्णयजुर्वेदानुयायी, तैत्तिरीयशाखाध्यायी, कश्यपस्य समसामयिकः भृगुशिष्यश्चासीत् । तैत्तिरीयशाखायाः उपशाखा भवति खाण्डिकेयशाखा। आपस्तम्बीयशाखा तत्रैवान्तर्भवति। आपस्तम्बस्य पत्न्या: नाम अक्षसूत्रा, पुत्रस्य च नाम कर्किः भवतीति ब्रह्मपुराणे गौतमीमाहात्म्ये लिखितमस्ति । आपस्तम्ब: दक्षिणभारतीय: विशेषत आन्ध्रनिवासी आसीत् । आपस्तम्बः स्वधर्मसूत्रे उत्तरभारतीयानामाचारमननुष्ठेयत्वेन प्रतिपाद्यात्मनः दाक्षिणात्यत्वं प्रकाशयति । चरणव्यूह- महार्णवयोः मतानुसारमापस्तम्बः आन्ध्रदेशीयश्चासीत् ।

याज्ञवल्क्योक्तधर्मप्रयोजकेषु आपस्तम्बोऽन्तर्भवति। गवेषक: रामगोपाल: आपस्तम्बस्योत्तरभारतीयत्वे प्रमाणचतुष्टयमुपस्थापयति। परन्तु पि. भि. काणेमहोदयः महता प्रयासेन रामगोपालस्य मतं खण्डयित्वाऽऽपस्तम्बस्य दाक्षिणात्यत्वं प्रमाणितवान्। आपस्तम्बधर्मसूत्रस्य प्रणयनं गौतमधर्मसूत्रात् परमेवाभवत् ।

शबराचार्य:[११] प्रामाणिकधर्मसूत्रकारत्वेनापस्तम्बं[१२] परिगणयति। बहुषु स्थलेषु असौ पाणिनीयव्याकरणमुल्लंघ्य सूत्राणि विरचयति। कुमारिल:[१३] तन्त्रवार्तिके, शंकराचार्यः ब्रह्मसूत्रभाष्ये'[१४] आपस्तम्बसूत्रं स्मरतः। विश्वरूपाचार्य मेधातिथि-विज्ञानेश्वरादयोऽपि आपस्तम्बसूत्रमुद्धरन्ति। असौ गौतम-बौधायनयोः परवर्ती आसीत्। भाषादृष्ट्याऽऽपस्तम्बः पाणिनिव्याकरणत: पूर्ववर्ती आसीत्। स च सर्वेषां वेदाङ्गानामुल्लेखं करोति। अत: वेदाङ्गानां रचनानन्तरमस्य काल: निश्चेतुं शक्यते । बहुभिः प्रमाणैरापस्तम्बस्य कालं रामगोपाल: ख्रीष्टात् पूर्वं ६७५ त: ५७५ मध्ये, जर्जबूहलरमहोदय: ख्रीष्टात् पूर्व ३०० तः २०० मध्ये, काणेमहोदय: ख्रीष्टात् पूर्वं ५०० तः ३०० मध्ये एव स्वीकुर्वन्ति ।

आपस्तम्बनाम्ना कृतिद्वयमुपलभ्यते । यथा - आपस्तम्बकल्पसूत्रम्, आपस्तम्बस्मृतिश्च। आपस्तम्बधर्मसूत्रमापस्तम्बकल्पसूत्रस्यांशविशेषः। आपस्तम्बकल्पसूत्रे त्रिशत् (३०) प्रश्ना: विद्यन्ते।

तत्र १-२४ प्रश्नेषु - श्रौतसूत्रविषया:

पञ्चविंशतितमप्रश्ने - परिभाषाखण्ड:(यत्र प्रवरवर्ग:, हौत्रकृतश्रौतस्तुतिः विद्यते),

२६-२७ तमप्रश्नयोः - आपस्तम्बगृह्यसूत्रस्य विषया:,

२८-२९ तमप्रश्नयो: - आपस्तम्बधर्मसूत्रस्य विषया:,

त्रिंशत्तमप्रश्ने - आपस्तम्बशुल्वसूत्रस्य विषया: सन्निहिताः सन्ति।

धर्मसूत्रस्य परिचय:[सम्पादयतु]

आपस्तम्बधर्मसूत्रे प्रश्नद्वयं, द्वाविंशतिपटला:, एकषष्टिकण्डिकाः, १३९१ सूत्राणि च विद्यन्ते । प्रथमप्रश्ने एकादशपटला: ३२ कण्डिकाः, द्वितीयप्रश्ने चैकादशपटला: २९ कण्डिकाश्च दृश्यन्ते । तत्र प्रतिपादिता: विषयाः प्रश्नमाध्यमेन पटलक्रमानुसारं प्रतिपाद्यन्ते।

प्रथमप्रश्ने प्रथमपटले - १५२ सूत्राणि, धर्मप्रमाणानि, ब्रह्मचारिधर्माश्च।

प्रथमप्रश्ने द्वितीयपटले - १२५ सूत्राणि , ब्रह्मचारिधर्माः।

प्रथमप्रश्ने तृतीयपटले - ९२ सूत्राणि , अनध्यायकालाः।

प्रथमप्रश्ने चतुर्थपटले - ६५ सूत्राणि, स्वाध्यायविधि:, पञ्चमहायज्ञाः, अभिवादनविधिश्च ।

प्रथमप्रश्ने पञ्चमपटले - ९५ सूत्राणि, आचमनविधिः , भोजनविधिः , अभोज्यान्नानि च।

प्रथमप्रश्ने षष्ठपटले - ४८ सूत्राणि , भक्ष्याभक्ष्यविचारः।

प्रथमप्रश्ने सप्तमपटले - ३६ सूत्राणि , अविक्रेयाणि , पतनीयानि , अशुचिकरकर्माणि च।

प्रथमप्रश्नेऽष्टमपटले - १४ सूत्राणि , अध्यात्मपटल: , आत्मज्ञानोपायाः ,आत्मस्वरूपञ्च ।

प्रथमप्रश्ने नवमपटले - ६६ सूत्राणि , पञ्चमहापातकानां प्रायश्चित्तानि, गार गोवधप्रायश्चित्तानि, अपतनीयप्रायश्चित्तानि च ।

प्रथमप्रश्ने दशमपटले - ३९ सूत्राणि , अपतनीयप्रायश्चित्तानि , भ्रूणहाप्रायश्चित्तं, पतितनियमाश्च ।

प्रथमप्रश्ने एकादशपटले - ८२ सूत्राणि , स्नातकनियमाः।

द्वितीयप्रश्ने प्रथमपटले - ३४ सूत्राणि, गृहस्थधर्माः।

द्वितीयप्रश्ने द्वितीयपटले - ६९ सूत्राणि , गृहस्थधर्माः , बलिवैश्वदेवविधिश्च ।

द्वितीयप्रश्ने तृतीयपटले - ३७ सूत्राणि , अतिथियज्ञः।

द्वितीयप्रश्ने चतुर्थपटले - २७ सूत्राणि , अतिथियज्ञः।

द्वितीयप्रश्ने पञ्चमपटले - ६० सूत्राणि , दण्डविधिः, अधिवेदननियमाः, नियतशी अभिनिर्मुक्तादिप्रायश्चित्तञ्च ।

द्वितीयप्रश्ने षष्ठपटले - ५७ सूत्राणि , स्त्रीधर्माः , दायविभागः , पुत्रभेदाः , उदकदानविधिश्च ।

द्वितीयप्रश्ने सप्तमपटले - ५१ सूत्राणि , श्राद्धकल्पः। जमाए यापनकाला।

द्वितीयप्रश्नेऽष्टमपटले - ५९ सूत्राणि , नित्यश्राद्धं , पुष्टिश्राद्धञ्च ।

द्वितीयप्रश्ने नवमपटले - ६९ सूत्राणि , वानप्रस्थधर्मः , संन्यासधर्मः , गृहस्थाश्रमस्य प्रशंसा च ।

द्वितीयप्रश्ने दशमपटले - ५९ सूत्राणि, राजधर्मः , नियोगविधिः, परस्त्रीगमनप्रायश्चित्तं च।

द्वितीयप्रश्ने एकादशपटले - ३० सूत्राणि, दण्डविधिः, साक्षिगुणाः, धर्मलक्षणञ्चेति ।

संस्करणानि[सम्पादयतु]

आपस्तम्बधर्मसूत्रं बहुवारं बहुत्र प्रकाशितं विद्यते। तत्र -

१) जर्जबूहलरेण उज्ज्वलाटीकासारेण सह बम्बेसंस्कृतसिरिजद्वारा प्रथमवारं प्रकाशितम् ।

२) भण्डारकरप्राच्यविद्यासंशोधनागार , पुना द्वारा जर्जबूहलरसंपादितमापस्तम्बधर्मसूत्रमुज्ज्वलाटीकासमेतं १९३२ खीष्टाब्दे प्रकाशितम् ।

३) चौखम्बा संस्कृत सिरिज, वाराणसीद्वारा १९६९ ख्रीष्टाब्दे उज्ज्वलाटीकया साकं डा. उमेशचन्द्रपाण्डेयमहोदयानां संपादनया प्रकाशितम्।।

४) हरदत्तकृतोज्ज्वलाटीकया साकमापस्तम्बधर्मसूत्रं कुम्भकोणं , तामिलनाडुप्रान्ते प्रकाशितम् ।

आपस्तम्बधर्मसूत्रस्य भाषा शैली चान्यधर्मसूत्रेभ्य: भिन्ना प्रतीयते। अत्र पाणिनीयव्याकरणस्योल्लंघनं दृश्यते । वाक्यसंरचनायामसंगतिः परिलक्ष्यते। आपस्तम्ब: बहूनामप्रचलितशब्दानां प्रयोगं करोति। शैलीदृष्ट्याऽऽपस्तम्बधर्मसूत्रं मुख्यतः गद्यमयम् । तथाप्यत्र विंशतिः पद्यात्मकाः प्रयोगा अपि प्राप्यन्ते ।

वैशिष्ट्यम्[सम्पादयतु]

१. आपस्तम्ब: सामयाचारिकधर्मस्य प्रतिपादनं करोति।

२. आपस्तम्बस्य विचारः आधुनिक: व्यावहारिकश्च प्रतीयते।

३. कर्मसिद्धान्तोऽनेन व्यक्तीकृत:।

४. धर्मसूत्रेऽस्मिन् आचारस्य प्राधान्यं प्रदर्शितम् ।

५. क्रोध - हर्षादीनि प्राणीनां नाशकारणानीति आपस्तम्बः वर्णयति।

६. आपस्तम्ब: एकस्मिन् पटलेऽध्यात्मविषयकं विचारमुपस्थापयति ।

७. आपस्तम्बः षड्विधविवाहं स्वीकरोति ।

८. आपस्तम्बः विकल्पस्वरूपं प्रतिपादयति ।

टीकाकारः[सम्पादयतु]

आपस्तम्बधर्मसूत्रस्य हरदत्तकृता उज्ज्वलानाम्नी एकैव टीकोपलभ्यते। हरदत्त: दाक्षिणात्य आसीत्। काणेमतानुसारमस्य काल: ११०० १३०० ख्रीष्टाब्दमध्ये स्वीक्रियते। बुहलरेण तु ख्रीष्टात् परं १४००-१५०० मध्य एव स्वीक्रि यते । लक्ष्मीधरस्य कृत्यकल्पतरुग्रन्थे ब्रह्मचारिकाण्डे[१५] नियतकालकाण्डे[१६] च आपस्तम्बधर्मसूत्रस्य कपर्दिस्वामिकृतं भाष्यमुद्धृतमस्ति। स्मृतिचन्द्रिकाकारमतानुसारं[१७] धूर्तस्वामी आपस्तम्बधर्मसूत्रोपरि भाष्यमेकं विरचितवानिति अवगम्यते ।

आपस्तम्बस्मृतिः[सम्पादयतु]

स्मृतिरियं जीवानन्दसंग्रहे, स्मृतिसन्दर्भे च प्रकाशिता विद्यते। तत्र दशाध्यायाः, २०७ अनुष्टुब्छन्दोबद्धाः श्लोकाश्च वर्तन्ते। स्मृतावस्यां शुद्धि-प्रायश्चित्तविषययो: वर्णनं विशेषत: दृश्यते । अत्राध्यायानुसारं वर्णितविषया: यथा -

प्रथमाध्याये - ३४ श्लोकाः , क्षतप्रायश्चित्तानि ।

द्वितीयाध्याये - १४ श्लोका:, शुद्धद्रव्याणि, अशुद्धानां शुद्धिनिमित्तानि च।

तृतीयाध्याये - १२ श्लोकाः, चण्डालगृहाश्रये प्रायश्चित्तम् ।

चतुर्थाध्याये - १२ श्लोकाः, चण्डालपात्राज्जलग्रहणे प्रायश्चित्तम् ।

पञ्चमाध्याये - १४ श्लोकाः , चण्डालस्पृष्टः सन् जलपाने प्रायश्चित्तम् ।

षष्ठाध्याये - १० श्लोकाः, नीलीवस्त्रधारणे प्रायश्चित्तम् ।

सप्तमाध्याये - ३१ श्लोकाः, रजस्वलानियमाः।

अष्टमाध्याये - २१ श्लोकाः, द्रव्यशुद्धिः, शूद्रसंसर्गे प्रायश्चित्तं च ।

नवमाध्याये - ४३ श्लोकाः, विविधप्रायश्चित्तानि, कन्याविक्रयप्रायश्चित्तं च।

दशमाध्याये - १६ श्लोकाः, सहनशीलतायै उपदेशप्रदानं तथा यमस्य । नरकाधीश्वररूपेण धर्मराजरूपेण च वर्णनं चेति ।

कृतिरियं धर्मशास्त्रस्यांशमेकमावहति तथाऽस्य समीक्षणाज्ज्ञायते यद् याज्ञवल्क्यादत्यन्तमर्वाचीनेयमापस्तम्बस्मृतिः। आपस्तम्बस्य कियन्त: श्लोकाः अङ्गिरसोद्धृतत्वादङ्गिरसापेक्षयाऽऽपस्तम्बस्य प्राचीनत्वं प्रमाणीभवति। स्मृतिरियं नापस्तम्बेन रचिता। परन्तु तदनुयायिना केनापि शिष्येण लिखितेति अनुमीयते।

वसिष्ठः[सम्पादयतु]

महर्षिवसिष्ठः ऋग्वेदस्य मन्त्रद्रष्टा तथाऽनुयायी आसीत् । ऋग्वेदस्य[१८] सप्तममण्डलस्य प्रसिद्धमहर्षित्वेन वसिष्ठः स्वीकृतः। याज्ञवल्क्यस्मृतौ परिगणितेष धर्मशास्त्रप्रयोजकेषु वसिष्ठोऽन्तर्भवति । असौ महर्षिपराशरस्य पिताऽऽसीत्। कुमारिलमतानुसारमृग्वेदानुयायिनः धर्मसूत्रमिदमनुसरन्ति। वेदस्मृतिपुराणेषु बहवः वसिष्ठसंज्ञका: दृश्यन्ते। ब्रह्मण:[१९] दशमानसपुत्रेषु एक: वसिष्ठ आसीत् । सप्तर्षिषु[२०] एक: वसिष्ठोऽन्तर्भवति। सूर्यवंशीयनृपतेरिक्ष्वाकुराजस्य धर्मगुरुः पुरोहितश्च वसिष्ठ आसीत्। मत्स्यपुराणानुसार[२१] वसिष्ठस्य पुत्रः शक्तिः, पौत्रश्च पराशर आसीत् । राज्ञः दशरथस्य रामचन्द्रस्य च धर्मगुरुरपि वसिष्ठ[२२] आसीदिति रामायणे वर्णितमस्ति। वसिष्ठोऽपि गोत्रप्रवरयोः प्रतिष्ठाता आसीत्। वसिष्ठनाम्ना वासिष्ठतन्त्र इति तन्त्रग्रन्थः, वासिष्ठलिंगपुराणं, योगवासिष्ठमिति योगशास्त्र, वासिष्ठसिद्धान्त इति ज्योति:शास्त्रीयग्रन्थोऽपि दृश्यते।

वसिष्ठधर्मसूत्रं नर्मदा- बिन्ध्ययोः मध्यभागे प्रसिद्धिं लभते। भाषाशैली दृष्ट्याऽस्यास्तित्वं बौधायनधर्मसूत्रापस्तम्बधर्मसूत्रयोरनन्तरमेवेति कथ्यते । वसिष्ठधर्मसूत्रे गौतम[२३]-यम[२४] -प्रजापति[२५]- मनुप्रभृतीनां[२६] नामान्युद्धृतानि वर्तन्ते। अत: वसिष्ठ एतेभ्योऽर्वाचीन आसीदिति तर्कयितुं शक्यते । धर्मशास्त्रेतिहासकार: पि. भि. काणेमहोदय: वसिष्ठधर्मसूत्रस्य प्रणयनकालं ख्रीष्टात् पूर्वं तृतीयशतकत: ख्रीष्टात् पूर्वं प्रथमशतकमध्य एव स्थापयति ।

धर्मसूत्रस्य प्रतिपाद्यविषया:[सम्पादयतु]

वसिष्ठधर्मसूत्रे त्रिंशदध्यायाः, १०३९ सूत्राणि च वर्तन्ते । वसिष्ठधर्म सूत्रस्य प्रतिपाद्यविषयाः अध्यायक्रमेणोपस्थाप्यन्ते।

प्रथमाध्याये - ४६ सूत्राणि - धर्मप्रमाणानि, आर्यावर्त्तस्य सीमा, पञ्चमहापातकानि च ।

द्वितीयाध्याये - ५० सूत्राणि - वर्णाश्रमधर्माः।

तृतीयाध्यायात् षष्ठाध्यायान्तेषु - (७१+३८+१०+४४ सूत्राणि) किन अध्ययनधर्माः, आह्निकाचाराः, स्त्रीधर्माश्च ।।

सप्तमाध्याये - १७ सूत्राणि - ब्रह्मचारिधर्माः।

अष्टमाध्याये - १७ सूत्राणि - गृहस्थधर्माः।

नवमाध्याये - १२ सूत्राणि - वानप्रस्थधर्माः।

दशमाध्याये - ३१ सूत्राणि - यतिधर्माः।

एकादशाध्याये - ७९ सूत्राणि - आतिथ्यं , श्राद्धोपकरणानि च।

द्वादशाध्याये - ४७ सूत्राणि - स्नातकधर्माः ।

त्रयोदशाध्याये - ६१ सूत्राणि - आचार्यलक्षणम् , आचार्यप्रशंसा च।

चतुर्दशाध्याये - ४८ सूत्राणि - भोजनविधिनिषेधाः।

पञ्चदशाध्याये - २१ सूत्राणि - दत्तकपुत्रनिर्णयः ।

षोडशाध्याये - ३७ सूत्राणि - अष्टादशव्यवहारपदेषु दण्डविधानानि ।

सप्तदशाध्याये - ८७ सूत्राणि - दायविभागः।

अष्टादशाध्याये - १८ सूत्राणि - विविधवर्णजातिवर्णनम् ।

एकोनविंशाध्याये - ४८ सूत्राणि - राजधर्मः।

विंशाध्याये - ४७ सूत्राणि - कृच्छ्रव्रतानि ।

एकविंशाध्याये - ३३ सूत्राणि - चान्द्रायणस्वरूपम्

द्वाविशाध्याये - १६ सूत्राणि - ब्रह्महत्याप्रायश्चित्तम् ।

त्रयोविंशाध्याये - ४७ सूत्राणि - सुरापानप्रायश्चित्तम् ।

चतुर्विंशाध्याये - ०७ सूत्राणि - सुवर्णस्तेयप्रायश्चित्तम् ।

पञ्चविंशाध्याये - १३ सूत्राणि - संसर्गप्रायश्चित्तम् ।

षड्विंशाध्याये - १९ सूत्राणि - रहस्यप्रायश्चित्तम् ।

सप्तविंशाध्याये - २१ सूत्राणि - चान्द्रायणविधिः।

अष्टाविंशाध्याये - २२ सूत्राणि - प्रकीर्णकदानानि।

एकोनत्रिंशाध्याये - २१ सूत्राणि - कूपारामतडागादिदानानि ।

त्रिंशाध्याये - ११ सूत्राणि - एतच्छास्त्राध्ययनफलञ्चेति।

कृतिरियं प्रतिभासंपन्ना तथा गौतमधर्मसूत्रवत् प्राचीना च मन्यते। वसिष्ठः भृगुसंकलित-मनुस्मृतावुद्धृत:[२७]। तत्र विहितवृद्धिविषये भृगुः वसिष्ठमतमुट्टय स्वीकरोति। परन्तु स्वयं मनुः वसिष्ठधर्मसूत्रे बहुवारमुद्धृतः। वसिष्ठधर्मसूत्रे एकषष्टि(६१)स्थलेषु मनुमतान्युद्धृतानि सन्ति । वसिष्ठः ऋग्वेद ऐतरेयब्राह्मण- शतपथब्राह्मण- काठकसंहिता- तैत्तिरीयारण्यक- वाजसनेयसंहिताः उद्धरति । वसिष्ठः धर्मसूत्रं धर्मशास्त्रत्वेन परिचिनोति ।

विश्वरूप:[२८] वृद्धवसिष्ठस्य मतमुद्धरति। मिताक्षराकार:[२९] जयपत्रप्रदानविषये वृद्धवसिष्ठवचनमुद्धरति । कल्पतरुकार: वसिष्ठमतं गृहस्थकाण्डे एकचत्वारिंशद्वार, व्यवहारकाण्डे सप्तत्रिंशद्वार(३७), ब्रह्मचारिकाण्डे पञ्चदश (१५)वारमुद्धरति। स्मृतिचन्द्रिकाकारोऽपि वृद्धवसिष्ठस्य विंशतिःश्लोकानुद्धरति । चतुर्विंशतिमतेऽपि वृद्धवसिष्ठमतं दृश्यते। मिताक्षराकार: याज्ञवल्क्यटीकायां[३०] बृहद्वसिष्ठस्य मतमुद्धरति। स्मृतिचन्द्रिकाकार:[३१] ज्योतिर्वसिष्ठस्य कतिपयान् श्लोकानुद्धरति ।

धर्मसूत्रस्य संस्करणानि[सम्पादयतु]

धर्मसूत्रमिदं बहुत्र प्रकाशितं वर्तते। तेषु प्रमुखसंस्करणानां विवरणं प्रदीयते। यथा -

१. जीवानन्दसंग्रहे विंशत्यध्यायात्मकमिदं धर्मसूत्रं द्वितीयखण्डे (पृ. ४५६-४९६) प्रकाशितमस्ति।

२. मन्मथनाथदत्तसंपादिते कलिकतायां १९०८ ख्रीष्टाब्दे प्रकाशिते वसिष्ठधर्मसूत्रे विंशत्यध्यायाः सन्ति ।

३. आनन्दाश्रममुद्रणालयसंस्करणे स्मृतिसमुच्चयमध्ये (पृ. १८७-२३१) १९०५ ख्रीष्टाब्दे प्रकाशिते वसिष्ठधर्मसूत्रे त्रिंशदध्याया: विद्यन्ते ।

४. डाँ. फूहरसंपादिते भण्डारकरप्राच्यविद्यासंशोधनागार, पुना द्वारा १९३० ख्रीष्टाब्दे प्रकाशिते वसिष्ठधर्मसूत्रे त्रिंशदध्याया: विद्यन्ते।

५. नागप्रकाशन, दिल्लीद्वारा प्रकाशिते स्मृतिसन्दर्भान्तर्गते वसिष्ठधर्मसूत्रे त्रिंशदध्यायाः दृश्यन्ते ।

६. कृष्णपण्डितधर्माधिकारिकृतं विद्वन्मोदिनीटीकासहितं त्रिंशदध्यायात्मकं वसिष्ठधर्मसूत्रं काश्यां मुद्रितमासीत् ।

७. पण्डितकुलमणिमिश्रकृतं तत्त्वप्रकाशिकाटीकासमेतं त्रिंशदध्यायात्मकं वसिष्ठधर्मसूत्रं पुर्यां २००५ ख्रीष्टाब्दे प्रकाशितमस्ति ।

वैशिष्ट्यम्[सम्पादयतु]

वसिष्ठः ब्राह्म - दैव - आर्ष - गान्धर्व - क्षात्र - मानुषभेदेन षड्विधान् विवाहान् स्वीकरोति । क्षात्रविवाहः राक्षसविवाहेन सह आसुरश्च मानुषेन सह साम्यं विदधाति। प्राजापत्यपैशाचयोरन्तर्भाव: वसिष्ठेन न कृतः। उपनयनकालविचारे वसिष्ठः गर्भाष्टमवर्षं स्वीकरोति। न तु जन्मनः परम् ।

धर्मसूत्रस्यास्य कृष्णपण्डितधर्माधिकारिकृता विद्वन्मोदिनीटीका काश्यां मुद्रिताऽऽसीत् । परन्तु सेदानी दुर्लभा । सोऽयं कृष्णपण्डितः दत्तकमीमांसाकर्तुः नन्दपण्डितस्य पितृव्य आसीदिति तस्य वंशवृक्षविवरणाज्ज्ञायते। द्वितीया च पण्डितकुलमणिमिश्रकृता तत्त्वप्रकाशिकाटीका २००५ ख्रीष्टाब्दे पुर्यामेव प्रकाशिता वर्त्तते। एतदतिरिक्ता यज्ञस्वामिना वसिष्ठधर्मसूत्रोपरि एका टीका विरचितेति बौधायनधर्मसूत्रस्य विवरणटीकायां गोविन्दस्वामी[३२] प्रतिपादयति। साऽपि नेदानीं यावत् लोकलोचनमागता ।

विष्णुः[सम्पादयतु]

कि महर्षिविष्णुः यजुर्वेदस्य कठशाखानुयायी आसीत् । क ठशाखानुयायिनः विष्णुधर्मसूत्रमनुसरन्ति । विष्णुः दक्षिणभारतीय आसीदिति केषाञ्चनैतिहासि कानां मतम्। विष्णुधर्मसूत्रस्य भाषाशैलीविषयाणामाधुनिकत्वदृष्ट्या डा.जुलियस जोलिमहोदयः ख्रीष्टात् परं तृतीयशतकमेवास्य काल इति निश्चिनोति । काणेमहोदयस्तु ख्रीष्टात् पूर्वं तृतीयशतकादारभ्य ख्रीष्टात् परं प्रथमशतकमध्ये एवास्य कालं स्थापयति। अस्य बहवः श्लोकाः मनु -याज्ञवल्क्यस्मृत्योः प्राप्यन्ते । विषयविन्यासदृष्ट्या मनुस्मृतितोऽस्यात्यन्तार्वाचीनत्वं प्रकटीभवति ।

विष्णुनाम्ना द्विविधा कृतिरुपलभ्यते । यथा -

१) विष्णुधर्मसूत्रम्,

२) लघुविष्णुस्मृतिश्च ।

इदानीमनयोः ग्रन्थयोः संक्षिप्तपरिचय उपस्थाप्यते।

१) विष्णुधर्मसूत्रम्-[सम्पादयतु]

धर्मसूत्रमिदं विष्णुस्मृतिनाम्ना, विष्णुधर्मशास्त्रनाम्ना वा उच्यते । गद्यपद्यमिश्रितमिदं धर्मसूत्रम् । अस्य धर्मसूत्रस्य शैली सरला, परिष्कृता च । THI धर्मसूत्रमिदं शताध्यायात्मकं, २८४७ सूत्रात्मकञ्च । धर्मसूत्रस्यास्य प्रतिपादितविषयाः अध्यायक्रमेणोपस्थाप्यन्ते । प्रथमाध्याये ६५ सूत्राणि, वराहावतारे विष्णोः पृथिवीरक्षणं, विष्णुना धर्मशास्त्रपठनञ्च, द्वितीये १७ सूत्राणि, वर्णाश्रमधर्माः, तृतीये ९८ सूत्राणि, राजधर्माः ,चतुर्थे १४ सूत्राणि, दण्डशुल्कस्य परिमाणानि, पञ्चमे १९६ सूत्राणि,अष्टादशव्यवहारपदेषु दण्डाः , षष्ठे ४३ सूत्राणि, ऋणादानम्, सप्तमे १३ सूत्राणि, लेख्यविधिः, अष्टमे ४० सूत्राणि, साक्षिनियमाः, नवमे ३३ सूत्राणि, समयक्रिया, दशमे १३ सूत्राणि, धटदिव्यम्, एकादशे १२ सूत्राणि, अग्निदिव्यम्, द्वादशे ०८ सूत्राणि, उदकदिव्यम्, त्रयोदशे ०७ सूत्राणि, विषदिव्यम्, चतुर्दशे ०५ सूत्राणि, देवोदकदिव्यम्, पञ्चदशे ४७ सूत्राणि, पुत्रभेदाः, षोडशे १८ सूत्राणि, वर्णसङ्करजातयश्च, सप्तदशे २३ सूत्राणि, दायविभागनियमाः, अष्टादशे ४४ सूत्राणि, दायविभागनियमाः, एकोनविंशे २४ सूत्राणि, अन्त्येष्टि क्रियाः, विशे ५३ सूत्राणि, शोकापनोदकवाक्यानि , एकविंशे २३ सूत्राणि, अन्त्येष्टिसंस्कारनियमाः, द्वाविंशे ९३ सूत्राणि, शावाशौचावधिनियमाः, त्रयोविंशे ६१ सूत्राणि, द्रव्यशुद्धिः, चतुर्विंशे ४१ सूत्राणि, विवाहभेदाः, पञ्चविंशे १७ सूत्राणि, स्त्रीधर्माः, षड्विंशे ०७ सूत्राणि, सवर्णासवर्णस्त्रीधर्माः, सप्तविंशे २९ सूत्राणि, गर्भाधानादिसंस्काराः, अष्टाविंशे ५३ सूत्राणि, ब्रह्मचारिधर्माः, एकोनत्रिंशे १० सूत्राणि, आचार्यलक्षणम्, त्रिंशे ४७ सूत्राणि,अध्ययनधर्माः, एकत्रिंशे १० सूत्राणि, अतिगुरुलक्षणम्, द्वात्रिंशे १८ सूत्राणि, गुरुधर्मातिदेशविषयाः,त्रयस्त्रिंशे ०६ सूत्राणि, पापभेदाः, चतुस्त्रिंशे ०२ सूत्राणि, अतिपातकानि, पञ्चत्रिंशे ०६ सूत्राणि, महापातकानि, षट्त्रिंशे ०८ सूत्राणि, अनुपातकानि, सप्तत्रिंशे ३५ सूत्राणि, उपपातकानि, अष्टात्रिंशे ०७ सूत्राणि,जातिभ्रंशकरपापं, एकोनचत्वारिंशे ०२ सूत्राणि, संकरीकरणपापं, चत्वारिंशे ०२ सूत्राणि, अपात्रीकरणपापं, एकचत्वारिंशे ०५ सूत्राणि, मलावहपापं, द्विचत्वारिंशे ०२ सूत्राणि, प्रकीर्णकप्रायश्चित्तम्, त्रिचत्वारिंशे ४५ सूत्राणि, नरकवर्णनं, चतुश्चत्वारिंशे ४५ सूत्राणि, पापानां परजन्मनि प्रभावः, पञ्चचत्वारिंशे ३३ सूत्राणि, रोगविशेषकथनम्, षट्चत्वारिंशे २५ सूत्राणि,कृच्छ्रव्रतानि, सप्तचत्वारिंशे १० सूत्राणि, चान्द्रायणलक्षणम्, अष्टचत्वारिंशे २२ सूत्राणि, यावकव्रतम्, एकोनपञ्चाशत्तमे १० सूत्राणि, वैष्णवव्रतानि, पञ्चाशत्तमे ५० सूत्राणि, ब्रह्महत्याप्रायश्चित्तम्, एकपञ्चाशत्तमे ७८ सूत्राणि, सुरापानप्रायश्चित्तम्, द्विपञ्चाशत्तमे १७ सूत्राणि, सुवर्णस्तेयप्रायश्चित्तम्, त्रिपञ्चाशत्तमे ०९ सूत्राणि, गुरुतल्पप्रायश्चित्तम्, चतुःपञ्चाशत्तमे ३४ सूत्राणि, संसर्गप्रायश्चित्तम्, पञ्चपञ्चाशत्तमे २१ सूत्राणि, रहस्यप्रायश्चित्तम्, षट्पञ्चाशत्तमे २७ सूत्राणि, पापक्षयकराणि वैदिकसूक्तादीनि, सप्तपञ्चाशत्तमे १६ सूत्राणि, अननुतापित्यागः, अष्टपञ्चाशत्तमे १२ सूत्राणि, अर्थविवेकः, एकोनषष्टितमे ३० सूत्राणि, गृहाश्रमधर्माः, षष्टितमे २६ सूत्राणि, आह्निकम्, एकषष्टितमे १७ सूत्राणि, दन्तधावनम्, द्विषष्टितमे ०९ सूत्राणि, आचमनम्, त्रिषष्टितमे ५१ सूत्राणि, अध्वकालकार्याणि, चतुःषष्टितमे ४२ सूत्राणि, स्नानविधिः, पञ्चषष्टितमे १५ सूत्राणि, विष्णुपूजनम्, षट्षष्टितमे १५ सूत्राणि, विष्णूपचारद्रव्यविवेचनम्, सप्तषष्टितमे ४६ सूत्राणि, वैश्वदेवम्, अष्टषष्टितमे ४९ सूत्राणि, भोजनविधिनिषेधः, एकोनसप्ततितमे १७ सूत्राणि, स्त्रीसङ्गमे निषेधकाला:, सप्ततितमे १७ सूत्राणि, शयननिषेधः, एकसप्ततितमे ९२ सूत्राणि, स्नातकधर्माः, द्विसप्ततितमे ०७ सूत्राणि, दमयमौ, त्रिसप्ततितमे ३२ सूत्राणि, श्राद्धप्रस्ताव:, चतुःसप्ततितमे ०८ सूत्राणि, अष्टकाश्राद्धम्, पञ्चसप्ततितमे ०७ सूत्राणि, देवतानिर्णयः, षट्सप्ततितमे ०२ सूत्राणि, नित्यश्राद्धकाला:, सप्तसप्ततितमे ०९ सूत्राणि, नैमित्तिकश्राद्धकालाः, अष्टासप्ततितमे ५३ सूत्राणि, काम्यश्राद्धकालाः, एकोनाशीतितमे २४ सूत्राणि, श्राद्धोपकरणानि, अशीतितमे १४ सूत्राणि, द्रव्यविशेषेण तृप्तिविशेषः, एकाशीतितमे २३ सूत्राणि, श्राद्धभोजनधर्माः, द्व्यशीतितमे ३० सूत्राणि, श्राद्धानर्हाः, त्र्यशीतितमे २१ सूत्राणि, पङ्क्तिपावनाः, चतुरशीतितमे ०४ सूत्राणि, श्राद्धे वय॑देशाः, पञ्चाशीतितमे ६७ सूत्राणि, श्राद्धार्हदेशाः, षडशीतितमे २० सूत्राणि, वृषोत्सर्गः, सप्ताशीतितमे १० सूत्राणि, कृष्णाजिनदानम्, अष्टाशीतितमे ०४ सूत्राणि, उभयतोमुखीदानम्, एकोननवतितमे ०४ सूत्राणि, कार्तिकस्नानम्, नवतितमे २९ सूत्राणि, प्रकीर्णकदानानि, एकनवतितमे १९ सूत्राणि, कूपारामतडागादिदानम्, द्विनवतितमे ३२ सूत्राणि, अभयादिदानम्, त्रिनवतितमे १४ सूत्राणि, पात्रविशेषेण फलविशेष:, चतुर्नवतितमे १३ सूत्राणि, वानप्रस्थधर्माः, पञ्चनवतितमे १७ सूत्राणि, वानप्रस्थधर्माः, षण्णवतितमे ९८ सूत्राणि, संन्यासिधर्माः, सप्तनवतितमे २१ सूत्राणि, ज्ञानोपायाः, अष्टनवतितमे १०२ सूत्राणि, विष्णुस्तुतिः, नवनवतितमे २३ सूत्राणि, लक्ष्मीस्तुतिः, शततमाध्याये धर्मशास्त्रस्यास्य पठनफलञ्चेति।

विष्णुधर्मसूत्रं मनुस्मृतेः प्राय: षष्ट्युत्तरैकशतं श्लोकानुद्धरति । अन्येऽपि केचन श्लोकाः सामान्यपरिवर्त्तनेन सह प्रतिपादिता: दृश्यन्ते । विश्वरूप:[३३] मेधातिथिश्च[३४] विष्णुवचनमुद्धरतः। मिताक्षराकारः विष्णुधर्मसूत्रं त्रिंशद्वार, स्मृतिचन्द्रिकाकारश्च पञ्चविंशत्युत्तरद्विशतवारं स्वीकुरुतः। कृत्यकल्पतरुकार: विष्णुवचनं व्यवहारकाण्डे १३२ वारं , श्राद्धकाण्डे ३९ वारं, नियतकालकाण्डे ३८ वारं, गृहस्थकाण्डे ३५ वारं , ब्रह्मचारिकाण्डे ३० वारं , राजधर्मकाण्डे १० वारं , दानकाण्डे च १५ वारमुद्धरति ।

संस्करणानि[सम्पादयतु]

धर्मसूत्रमिदं बहुषु स्थलेषु प्रकाशितमस्ति । तेषु प्रमुखसंस्करणानि यथा -

१. १८७६ ख्रीष्टाब्दे जीवानन्दस्य धर्मशास्त्रसंग्रहे धर्मसूत्रमिदं प्रकाशितमस्ति।

२. १८८१ ख्रीष्टाब्दे जुलियसजोलीसंपादितमिदं धर्मसूत्रम् एसियाटिक सोसाइटि, कलिकताद्वारा प्रकाशितम् ।

३. १९०९ ख्रीष्टाब्दे मन्मथनाथदत्तमहोदयेन सम्पादितमिदं धर्मसूत्रं कलिकतायाञ्च प्रकाशितम् ।

४. १९६२ ख्रीष्टाब्दे चौखम्बा संस्कृत सिरिज, वनारसमध्ये धर्मसूत्रमिदं प्रकाशितम्।

५. १९६४ ख्रीष्टाब्दे वि. कृष्णमाचार्यमहोदयेन संपादितमाड्यार लाईब्रेरी सिरिजमध्ये केशववैजयन्तीटीकासमेतमिदं धर्मसूत्रं प्रकाशितम् ।

६. नागप्रकाशनप्रकाशिते स्मृतिसन्दर्भे धर्मसूत्रमिदं प्रकाशितम् ।

वैशिष्ट्यम्[सम्पादयतु]

१. विष्णु: म्लेच्छदेशगमने प्रायश्चित्तं प्रतिपादयति ।

२. याज्ञवल्क्योक्तमेकविंशतिनरकानुपस्थापयति।

३. श्वेतद्वीपनिवासिनः वासुदेवस्य विशेषपूजनमुपदिशति ।

४. विष्णो: चतुर्दूहमेकशतनामानि, वराहावतारस्य च परिचयं प्रस्तौति ।

५. पवित्रतीर्थस्थानानां परिगणनं करोति ।

विष्णुधर्मसूत्रे केशववैजयन्तीनाम्नी एका विस्तृता टीका रामपण्डित धर्माधिकारिणः पुत्रेण नन्दपण्डितेन १६२२-२३ ख्रीष्टाब्दे प्रणीताऽऽसीत् ।

लघुविष्णुस्मृतिः[सम्पादयतु]

आनन्दाश्रममुद्रणालय, पुना प्रकाशिते स्मृतिसमुच्चये पञ्चाध्यायात्मिका, ११४ अनुष्टप्रश्लोकात्मिका चैका लघुविष्णुस्मृतिरुपलभ्यते । अस्मिन् ग्रन्थे चतुर्वर्णानां चतुराश्रमिणां च कर्त्तव्यानि वर्णितानि सन्ति । कलापग्राम वासिनामनुरोधेन स्वयं विष्णुः धर्मशास्त्रमिदं व्याख्यातवानिति सूचितमस्ति। असौ कलापग्राम: महाभारतानुसारमुत्तरभारतस्य हिमालयसमीपवर्तीति ज्ञायते ।

अस्मिन् धर्मशास्त्रे केवलब्राह्मणाय संन्यासाश्रमः उपदिष्टः। मिताक्षराकार: बृहद्विष्णुवचनं[३५], वृद्ध-विष्णुवचनं चोद्धरति [३६]। स्मृतिचन्द्रिकाकारश्च[३७] केवलं बृहविष्णुवचनं स्वग्रन्थे स्वीकरोति ।।

देवलः[सम्पादयतु]

महर्षिदेवल: प्राचीनधर्मसूत्रकाररूपेण परिचितः । शङ्कराचार्य:[३८] देवलं धर्मसूत्रकाररूपेण प्रतिपादयति । महाभारतानुसारं देवल: शिवस्यानुग्रहेण एकपर्णा असितयोः पुत्र आसीत् । अत: स बहुषु स्थलेषु असितदेवलनाम्नाऽपि उच्यते । ब्रह्माण्डपुराणे[३९], विष्णुपुराणे[४०] च देवल: प्रत्युषस्य पुत्र आसीदिति वर्णितमस्ति। देवल: शाण्डिल्यशाखानुयायी, काश्यपगोत्रियश्चासीदिति श्रौतसूत्रे मत्स्यपुराणे च प्रतिपादितः। ब्रह्माण्डपुराण[४१] - वायुपुराण[४२] योरनुसार देवल: कौशिकगोत्रोत्पन्न आसीत् । देवल: राज्ञः सुयज्ञस्य कन्यां रत्नमालावतीं परिणीतवान्[४३] । महाभारत[४४] स्यादिपर्वानुसारं पाण्डवानां पुरोहितः धौम्य: देवलस्य कनिष्ठ भ्राताऽऽसीत् । देवीभागवतानुसार देवल: वेदव्यासस्य शिष्य आसीत् । देवल: कर्मनिष्ठः, शुद्धः, आत्मसंयमी, सर्वशास्त्रधुरन्धरः विशेषतः ब्रह्मविद्या ज्योतिर्विद्या-शिलाशास्त्र-आयुर्वेद-योगशास्त्रेषु च निपुण आसीत् ।

काल:[सम्पादयतु]

देवलधर्मशास्त्रस्य कालः ख्रीष्टात् पूर्वं द्वितीयशतक एव सम्भवेदिति ऐतिहासिका: कथयन्ति । देवल: महाभारते ख्यातत्वात् महाभारतस्य कालानुसारं देवलस्य कालः ४०० B.C. त: ४०० A.D. मध्ये भवेदिति विण्टरनिज महोदयानां मतम् ।

कृतयः[सम्पादयतु]

देवल उत्तरभारतीय आसीत् । महाभारते अनुशासनपर्वणि[४५] उत्तरभारते निवसतामृषीणां नामपरिगणनावसरे देवलस्य नामान्तर्भावितम् । महाभारतस्य शल्यपर्वानुसार [४६]देवल: सरस्वत्याः आदित्यतीर्थे न्यवसत्। स चोत्तरभारतीय तीर्थानां विस्तृत विवरणमुपस्थापयति । पूर्णिमान्तमासस्य प्राशस्त्यं परिकीर्त्तयति। अत एव पि. भि. काणे-अल्टेकरमहोदयादयः देवलस्योत्तरभारतीयत्वं प्रमाणीकुर्वन्ति।

देवलधर्मशास्त्रं प्रो.मु.ला. वाडेकरमहोदयानां संपादनया कोशल वुक् डिपोट, दिल्लीद्वारा १९९७ ख्रीष्टाब्दे प्रकाशितमस्ति । ते चात्र ग्रन्थममुं देवलस्मृतिनाम्ना कथयन्ति । तत्र विषया: मुख्यतः त्रिभिरध्यायैरेव विभक्ता: सन्ति । तत्राचाराध्याये द्वादशप्रकरणानि १५३० सूत्राणि, व्यवहाराध्याये चत्वारि प्रकरणानि, ८३ सूत्राणि, प्रायश्चित्ताध्याये षट् प्रकरणानि ८६२ सूत्राणि च विद्यन्ते। आहत्य सम्पूर्णेऽस्मिन् धर्मशास्त्रे २४७५ सूत्राणि विद्यन्ते । देवलधर्मशास्त्रं गद्यपद्यमिश्रितं वर्तते।

देवल: बृहस्पति-कात्यायनयो: समकालीन आसीत् । अपरार्क: देवलधर्मशास्त्रस्य १३० वचनानि, लक्ष्मीधरः कल्पतरौ श्राद्धकाण्डे ४० वचनानि, व्यवहारकाण्डे २१ वचनानि, ब्रह्मचारिकाण्डे २२ वचनानि, मोक्षकाण्डे ३२ वचनानि, नियतकालकाण्डे २७ वचनानि, देवणभट्टः स्मृतिचन्द्रिकाया माह्निककाण्डे ८६ वचनानि, श्राद्धकाण्डे ७१ वचनानि, व्यवहारकाण्डे २६ वचनानि उद्धरन्ति ।

वैखानसः[सम्पादयतु]

वैखानसधर्मसूत्रं कृष्णयजुर्वेदेन सह सम्बद्धम् । कृष्णयजुर्वेदीयश्रौत सूत्रेषु षट्सु वैखानसश्रौतसूत्रमन्यतमं भवति। धर्मसूत्रमिदं भाषाशैलीदृष्ट्या तुलनात्मकदृष्ट्या चार्वाचीनमिति कथ्यते । कालाण्डमहाभागः मनुस्मृति - वैखानसधर्मसूत्रयोः किञ्चित् साम्यं प्रदर्शयति । ऐतिहासिका अस्य कालं ख्रीष्टात् परं चतुर्थशतक एव स्थिरीकुर्वन्ति। डा.कालाण्डमहाभागः धर्मसूत्रस्यास्य भाषासमीक्षणेन दाक्षिणात्यत्वमालोचयति । धर्मसूत्रमिदं गौतम - बौधायनयो: परवर्तिकाल एव प्रणीतमासीत् ।

वैखानसधर्मसूत्रं वैखानसधर्मप्रश्ननाम्नाऽपि प्रसिद्धम्। वैखानसधर्मसूत्रं त्रिभिः प्रश्नैः, एकचत्वारिंशत्खण्डैश्च विभक्तम् । तत्र प्रथमप्रश्ने - वर्णधर्माः , आश्रमधर्माः, ब्रह्मचारिकर्त्तव्यानि, ब्रह्मचारिभेदाः, गृहस्थधर्माः, गृहस्थभेदाः, वानप्रस्थधर्माः, वानप्रस्थभेदाः, भिक्षुभेदाः, कर्मभेदाश्चेति । मामा द्वितीयप्रश्ने - संन्यासग्रहणकालः, नैत्यककर्तव्यानि, सन्ध्याचमनानि, अभिवा दनविधिः, अनध्यायाः, स्नानं , ब्रह्मयज्ञः, भोजननियमाः, भक्ष्याभक्ष्यं चेति । तृतीयप्रश्ने - गृहस्थधर्माः , भूमिशुद्धिः , मार्गशुद्धिः , द्रव्यशुद्धिः, संन्यासिनः के अन्त्येष्टिविधिः , नारायणबलिः, अनुलोम- प्रतिलोमजातयः, व्रात्याश्चेति।

वैखानसधर्मसूत्रं वारत्रयं प्रकाशितम् । यथा -

१) १९१३ ख्रीष्टाब्दे टि. गणपतिशास्त्रिद्वारा त्रिवेन्द्रम् सिरिजमध्ये प्रकाशितम्।

२) १९२७ ख्रीष्टाब्दे डा.कालाण्डमहाभागेन वि.आइ. सिरिजमध्ये प्रकाशितम्।

३) १९२९ ख्रीष्टाब्दे के. रङ्गाचारी, माड्रासद्वाराऽपि प्रकाशितमस्ति ।

धर्मसूत्रस्यास्य कश्चन टीकाकारः आसीन्न वेति नाद्यावधि ज्ञातुं शक्यते ।

हिरण्यकेशी[सम्पादयतु]

हिरण्यकेशिधर्मसूत्रं हिरण्यकेशिकल्पस्य षड्विंशति - सप्तविंशतिप्रश्न द्वयात्मकम् । इदं तैत्तिरीयशाखायाः खाण्डिकेयसम्प्रदायमनुसरति। हिरण्यकेशि धर्मसूत्रं स्वातन्त्र्यमातनोति। परन्त्वत्र शताधिकानि सूत्राण्यापस्तम्बधर्मसूत्रादुद्ध तानि सन्ति। इदञ्चापस्तम्बधर्मसूत्रप्रणयनात्परमेव लिखितमासीत्। एतन्मतानुयायिनः दक्षिणपश्चिमभारते सह्याद्रिपार्श्वे कोङ्कणोपकूलवर्त्तिनि स्थाने निवसन्ति । धर्मसूत्रस्यास्य प्रणयनकाल: ख्रीष्टात् परं तृतीयशतकात्पूर्वमेव सम्भवेदिति ऐतिहासिकानां मतम् ।

हिरण्यकेशिधर्मसूत्रस्य प्रथमप्रश्नेऽष्टौ पटलाः, एकत्रिंशत्कण्डिका:,क द्वितीयप्रश्ने चाष्टौ पटला:, विंशतिः कण्डिकाश्च विद्यन्ते । अत्रापस्तम्बधर्मसूत्रोक्त विषयाः प्राय आलोचिताः सन्ति । डेकनकालेजपाण्डुलेखसंग्रहानुसारं हिरण्यकेशिधर्मसूत्रोपरि महादेवदीक्षितकृता उज्ज्वलाटीका वर्त्तते ।

सुमन्तुः[सम्पादयतु]

महर्षिसुमन्तुः आचार-प्रायश्चित्तविषयोपेतं धर्मसूत्रमेकं रचितवान् । याज्ञवल्क्य-पराशराभ्यां परिगणितेषु धर्मवक्तृषु सुमन्तु: नान्तर्भावितः। भागवतमहापुराणानुसारं सुमन्तु: महर्षिजैमिने: शिष्योऽथर्ववेदस्योद्घोषक श्वासीत् । महाभारतस्य शान्तिपर्वणि तु सुमन्तुः व्यासशिष्यरूपेण परिचितः। सुमन्तुधर्मसूत्रस्य प्रमाणवचनानि विश्वरूप-हरदत्त- अपरार्क- सरस्वतीविलासकार देवणभट्ट-विज्ञानेश्वरादिभिरुद्धृतानि सन्ति।

केषाञ्चन धर्मसूत्रकाराणां विषये सूचना न लभ्यते। तेषां ग्रन्थानां विषये न किञ्चित्तथ्यमुपलभ्यते । अतस्तेषां नामोद्धरणं केवलं वरं भवति । ते भवन्ति यथा - कण्व - काण्व - काश्यप गार्ग्य- च्यवन- जातुकर्ण्य- देवल- पैठीनसि- बुध - बृहस्पति- भारद्वाज - शातातपप्रभृतयः।

सम्बद्धाः लेखाः[सम्पादयतु]

सन्दर्भाः[सम्पादयतु]

  1. छान्दो . उप - ४//३. सांध्याकामा
  2. कठ . उप - २/४/१५.
  3. देवी. भाग. - स्क. १. अध्या. ४.
  4. रामा. ३/५/४७.
  5. महा. वन. १८५ अध्याये ।
  6. महा. वन. २९८ अध्याये ।
  7. परा. स्मृ. १-२३.
  8. न्यायबिन्दुः - तृ. परि. पृ.१२७ ( काशीसंस्कृतसिरिजसंस्करणम् )
  9. गौ . धर्म . - १/८/१६
  10. शाबरभाष्ये - जै.सू.१-३-३
  11. शबराचार्यः, (जै . सू . ६/८/१८)
  12. आप. ध. सू . (२/५/११/१२-१३)
  13. तन्त्रवार्त्तिके - पृ. १३८
  14. शांकरभाष्ये - (ब्र . सू . ४-२-१४)
  15. कृत्य. कल्प., ब्रह्म. पृ-१५.
  16. कृत्य. कल्प., नियत. पृ-२३९, ३०६.
  17. स्मृतिच., भा. २/पृ - ४१९.
  18. ऋग् . ७-३३-११.
  19. भाग., स्क. ३. अ. १२.
  20. भाग., स्क. ८. अ. १३.
  21. मत्स्यपु., अ. २००.
  22. भाग., स्क. ९. अ.६. श्लो.४.
  23. वसि . धर्म . ४/३५, ३७.
  24. वसि . धर्म . ११/२०, १४/३० , १८/१३.
  25. वसि . धर्म. १४/१६ , २४, ३०.
  26. वसि . धर्म. १/१७, ३/२.
  27. मन .८/१४०.
  28. याज्ञ. स्मृ. १/१९.
  29. याज्ञ. स्मृ. २/९.
  30. याज्ञ . स्मृ . ३/२८७.
  31. स्मृतिच. भा. ३/ पृ. ३००.
  32. बौ. धर्म. २.२.५१.
  33. याज्ञ . स्मृ . ३/६६.
  34. मनु . ३/२४८.
  35. याज्ञ . स्मृ . ३/२४२ , २६१.
  36. याज्ञ . स्मृ . ३/२६७.
  37. स्मृतिच . भा . २. प - २९८.
  38. ब्रह्मसू.भा. -१/४/२.
  39. ब्रह्माण्डपु.-३/३/२७.
  40. विष्णुपु.-१/१५/११७.
  41. ब्रह्माण्डपु.-२/३/६६/७२-७३.
  42. वायुपु.-९१/१००
  43. ब्रह्मवैवर्त.पु.-४/३०/६१.
  44. महाभा.आदि.-१८२/२.
  45. महाभा. अनुशासन.-१६३/४३-४५.
  46. महाभा.शल्य.-४९/२१,५०/१.
"https://sa.wikipedia.org/w/index.php?title=धर्मसूत्रकाराः&oldid=458472" इत्यस्माद् प्रतिप्राप्तम्