धर्मसूत्रम्
धर्मसूत्रेषु धार्मिकनियमाः, प्रजानां राज्ञाश्च कर्त्तव्यचर्याः, चत्वारो वर्णाः, चत्वारः आश्रमाः, तेषां धर्माः पूर्णतया निरूपिताः । एतानि धर्मसूत्राण्येव स्मृतीनां जन्मनेऽकल्पन्त । धर्मसूत्रे चतुण्णां वर्णानाम् आश्रमाणाञ्च किञ्च राज्ञामपि कर्त्तव्यानि निर्दिष्टानि सन्ति । इमान्येव त्रीणि वस्तुतः प्रधानानि कल्पसूत्राणि मतानि ।
धर्मसूत्राणि कल्पस्य गौरवम् अयान्यङ्गानि सन्ति, परं न साम्प्रतं प्रत्येकशाखायाः धर्मसूत्राणि लभ्यन्ते । यन्मानवधर्मसूत्रमाधृत्य मनुस्मृतेः निर्माणं सञ्जातं, तदपि नाद्यपर्यन्तमुपलब्धं भवति । सुतरां बौधायनापस्तम्ब-हिरण्यकेशिकल्पसूत्राणामुपलब्धिः पूर्णतया भवति । अत एव तदीयानि धर्मसूत्राण्यपि प्राप्यन्ते । धर्मसूत्रेषु चतुर्वर्णकर्त्तव्यानि कर्माणि, व्यवहाराः, राजधर्मः, अाश्रमधर्मः, विवाहः, दायभागः, प्रायश्चित्तम्, नित्यनैमित्तिकं कर्म इत्येते अन्ये चानेके विषयाः सन्ति वर्णिताः । धर्मसूत्रेषु प्राचीनतमं गौतमधर्मसूत्रं विद्यते ।
गौतमधर्मसूत्रं निर्दिशन्तो याज्ञवल्क्यकुमारिल-शङ्कराचार्य-मेधातिथयः प्राप्यन्ते । बोधायनोऽपि धर्मसूत्रस्य प्राचीनतमः अाचार्यो मतः । वसिष्ठश्च प्रतिष्ठितेषु धर्मसूत्रकारेषु गण्यते । तदीयं धर्मशास्त्रं यद्यपि लघुकायं परं गुणविपुलत्वेन महनीयमस्ति। वसिष्ठस्य जीवनदर्शनम् अत्यन्तमुदात्तमाध्यात्मिकमस्ति । सः सदाचारमयं जीवनं यापयितुमुपदिशति । उपदिशति च दुर्बुद्धिप्रियां तृष्णां परिहर्तुम् । वसिष्ठस्य श्लोकबद्धाः स्मृतिः प्रकाशङ्गताऽस्ति । बहवो मनुस्मृतिश्लोकास्तत्र गद्यात्मकेषु सूत्रेषु दृष्टिगोचराः भवन्ति ।
महाभारते भगवान् वेदव्यासः शङ्खलिखित-गौतमापस्तम्बादीनां धर्मसूत्रकाराणां नामानि सादरं संस्मरन् समवाप्यते । स कस्यचन धर्मकारस्य मतमुद्धरन् ब्रवीति ー
'अनृताः स्त्रिय इत्येवं सूत्रकारो व्यवस्यति॥
यदाऽनृताः स्त्रियस्तात सहधर्मः कृतः स्मृतः॥'[१]
विस्तारः
[सम्पादयतु]धर्मसूत्रप्रतिपादिताः सर्वे धर्माः सूत्रकारैर्न स्वयं प्रकल्पिताः, अपि तु तैः प्राक्तनेभ्यः स्त्रोतोभ्यः सङ्गृह्य यथासमये व्याख्याताः । यथा चाह बौधायनः -
'उपदिष्टो धर्मः प्रतिवेदम, तस्यानुव्याख्यास्यामः ॥'
एतदेव मतमनुसरन् आपस्तम्बो बूते - 'अथातः सामयाचारिकान् धर्मान् व्याख्यास्यामः ।' इत्थं धर्मसूत्राणि प्राक्तनानामेव धर्माणां व्याख्यानरूपाणि सन्ति । सर्वे सूत्रकाराः स्मृतिकाराश्च वेदमेव धर्मस्यादिमं मूलं मन्यन्ते । परं ये धर्माः प्रत्यक्षरूपेण वेदेषु प्राप्यन्ते, तेषां मूलं वेदविदां स्मृतौ शीले च प्राप्यन्ते।
धर्मसूत्रे उद्धरणानि
[सम्पादयतु]ब्रह्मचारिधर्मोद्धरणानि
[सम्पादयतु]धर्मसूत्रकारैः मन्त्रब्राह्मणात्मको वेदः प्रमाणत्वेन स्वीकृतः । तस्मादेव कारणाद् बहुधा तैः मन्त्रैः सह ब्राह्मणवाक्यान्यपि श्रुतिवचनत्वेन उद्ध्रियन्ते । शतपथब्राह्मणे ब्रह्मचारिणो ये धर्माः प्रोक्ताः सन्ति, तान् धर्मान् उद्धरन्तः अनुसरन्ताश्च अनेके सूत्रकाराः आसाद्यन्ते। आपस्तम्बप्रणीतधर्मसूत्रे उद्धृतेभ्यो ब्राह्मणवाक्येभ्यो विदितं सञ्जायते यद्, ब्रह्मचारिधर्मा न केवलं शतपथब्राह्मणे निरूपिताः, परं तेषां निरूपणन्तु तद्भिन्नेष्वपि ब्राह्मणेषु समुपलब्धं भवति । वर्तमानानेहसि न तानि ब्राह्मणानि समवाप्तानि सञ्जायन्ते । यथा च आपस्तम्बोदधृते एते ब्राह्मणवचसी न सम्प्रति कस्मिन्नपि ब्राह्मणे समवाप्येते -
‘यदि स्मयेतापि गृह्य स्मयेतेति ब्राह्मणम्।
रजस्वलो रक्तदन्सत्यवादी स्यादिति ब्राह्मणम्॥'
शतपथब्राह्मणस्य ब्रह्मचारिधर्मविषयकं वाक्यं बौधायनधर्मसूत्रे उद्धृतं सद्वीक्ष्यते । आपस्तम्बे च उपनयनविधानविषयके ये द्वे वाक्ये समुपलभ्येते, तेऽपि वस्तुतः कस्यापि ब्राह्मणान्तरस्यैव स्तः, न तद् ब्राह्मणमधिगतं भवति । ते वाक्ये एते -
‘सर्वेभ्यो वेदेभ्यः सावित्र्यनूच्यत इति ह ब्राह्मणम्॥'
‘तमसो वा एषतमः प्रविशति यम विद्वानुपनयते यश्चाविद्वानिति हि ब्राह्मणम्।'
इत्थं ब्रह्मचारिधर्माः बहुभिः सूत्रकारैः उद्धृताः, ते च ब्राह्मणेषु सम्यक् प्रतिपादिताः।
स्नातकधर्मोद्धरणानि
[सम्पादयतु]स्नातकधर्मसम्बन्धीनि च श्रुतिवाक्यानि धर्मसूत्रेषु उद्धृतानि सन्ति । तथा हि शतपथब्राह्मणस्य समुपस्थापयन् वसिष्ठः प्राह -
‘भार्यया सह नाश्नीयादवीर्यवदपत्यं भवतीति वाजसनेयके विज्ञायते।'[२]
अपरञ्च स्नातकधर्ममधिकृत्य वसिष्ठः काठकश्रुतिं संस्मारयन् तं धर्मं विवृणोति। स्नातकः सत्रादन्यत्र शिखां न वापयेदिति धर्मं व्याख्यातुमापस्तम्बः श्रुतिमुद्धरति -
‘अथाऽपि ब्राह्मणम्॥ रिक्तो वा एषोऽनपिहितो यन्मुण्डस्तस्यैतदपि धानं यच्छिखेति । सत्रे तु वचनाद् वपनं शिखायाः॥'
वर्णाश्रमस्य उद्धरणानि
[सम्पादयतु]ब्राह्मणस्य कृते
[सम्पादयतु]वर्णाश्चत्वारः इत्येतदधिकृत्य ऋग्वेदोऽभिदधाति -
'ब्राह्मणोऽस्य मुखमासीद् बाहूराजन्यः कृतः॥
ऊरु तदस्य यद् वैश्यः पद्भ्यां शूद्रो अजायत॥'
अत्र वर्णशब्दो न जातिवाचकत्वेन गृहीतः। वर्णस्य उल्लेखो न केवलं श्रुतावन्यत्राऽपि दृश्यते। काठकसंहितायां 'वर्ण' इत्येतत्पदं जात्यर्थे च प्रयुक्तम्।
'आार्यवर्णमुज्जापयति' । ब्राह्मणेषु च वर्णशब्दो वणार्थे एव प्रयुक्तः प्राप्यते।
शतपथब्राह्मणं हि वर्णान् एव वर्णयति -
‘चत्वारो वै वर्णाः ॥ ब्राह्मणो राजन्यो वैश्यः शूद्रः॥'
ऐतरेयब्राह्मणेऽपि ‘शूद्रो वर्णः’ इति प्रयोगोऽधिगम्यते । तैत्तिरीयब्राह्मणमेतस्मिन् विषये निगदति — 'देव्यो वै वर्णो ब्राह्मणः॥' ‘अार्यवर्णमुज्जापयन्ति ॥' इत्येषः प्रयोगः पञ्चविंशब्राह्मणे विलोक्यते । एवंविधानि वेदवाक्यानि अालम्ब्य धर्मसूत्रकाराः वर्णधर्मान् व्याचक्षाणाः अासाद्यन्ते ।
वसिष्ठः साक्षादेव वर्णविषयकं मन्त्रमुद्धरन् दृश्यते -
'प्रकृतिविशिष्टं चातुर्वण्यं संस्कारविशेषाञ्च॥ ब्राह्मणोऽस्य मुखमासीद् बाहूराजन्यः कृतः ॥ ऊरु तदस्य यद् वैश्यः पद्भ्यां शूद्रोऽजायत' - इत्यपि निगमो भवति'।[३] अन्ये सूत्रकारा: शतपथब्राह्मणमनुसृत्य वर्णान् परिगणयन्ति । यथा धर्मसूत्रेषु वर्णानां कर्मणां वर्णनं विधीयते, तथा श्रुतौ एषां कर्मणां स्पष्टं विधानं न दृश्यते। परं चतुर्णां वर्णानां कर्मणां पृथक्त्वं वेदे अनेकविधतया वीक्षितं भवति । केषुचित् कर्मसु वर्णविषयस्य एव अधिकारो दृश्यते । यथा च ब्राह्मणवर्णस्य याजनाधिकारं प्रतिपादयच्छतपथब्राह्मणं ब्रवीति -
'य उ वैकश्च यजते ब्राह्मणीभूयैव यजते।'
ब्राह्मणानां याजनाधिकारो मैत्रायणीसंहितायामेवं वर्णितः -
‘द्वया वै देवा अहुतादो यद् ब्राह्मणाः॥'
ब्राह्मणेष्वपि ईदृशं वचनं विलोक्यते -
'एता वै प्रजा हुतादो यद् ब्राह्मणाः' (ऐतरेयब्राह्मणम् )॥
'एते वै देवाः अहुतादो यद् ब्राह्मणाः' ( गो० ब्राह्मणम् )॥
दानप्रतिग्रहे सोमपाने च ब्राह्मणानामधिकारं विदधानम् ऐतरेयब्राह्मणमाचष्टे -
'स यदि सोमं ब्राह्मणानां स भक्षो ब्राह्मणानांस्तेन भक्षेण जिन्विष्यसि ब्राह्मणकल्पस्ते प्रजाया मा जनिष्यत आदाय्यापाय्यावसायी यथा काम प्रयाप्यो यदा वै क्षत्रियाय पापं भवति ब्राह्मणकल्पोऽस्य प्रजायामजायत ईश्वरो ह्यस्माद् द्वितीयो वा तृतीयो वा ब्राह्मणतामभ्युपैतोः स ब्रह्मबन्धवेन जिज्यूषितः॥'
ऋत्विक्त्वेन ब्राह्मणवर्ण एव श्रुतौ प्रतिपादितः । तं विहाय न वर्णान्तरं हि ऋत्विक्तां परिग्रहीतुं प्रभवति । ब्राह्मणस्य अधिकाराः कर्त्तव्यानि च शतपथेन विधीयन्त एवम् -
'प्रज्ञा वर्धमाना चतुरो धर्मान् ब्राह्मणमभिनिष्पादयति - ब्राह्मण्यं प्रतिरूपचर्यां यशो लोकपत्तिम्, लोकः पच्यमानः चतुर्भिर्धर्मैर्ब्राह्मणो भुनक्ति - सर्वथा च दानेन चाज्येयतया चावध्यतया च ॥'
शतपथब्राह्मणस्यापरं वचनमपि बोधयति यत्, तस्मिन् काले अध्यापने ब्राह्मणस्यैवाधिकारः आसीत् -
'स होवाचाजातशत्रुः प्रतिलोमं वै तद्यद् ब्राह्मणः क्षत्रियमुपेयाद् ब्रह्ममेव वक्ष्यतीति।'
ईदृशानि वेदवचनानि आलम्भ्य ब्रा्मधर्मान्नेवं व्याचक्षते -
'द्विजातीनामध्ययनमिज्यादानम्। ब्राह्मणस्याधिकाराः प्रवचन-याजन-प्रतिग्रहाः'[४]
'ब्रह्म वै त्वं महिमानं ब्राह्मणेष्वदधादध्ययनाध्यापनयजनयाजनदानप्रतिग्रहांयुक्तं वेदानां गुप्त्यै'[५]
‘स्वकर्मब्राह्मणस्याध्ययनमध्यापनं यज्ञो यजनं दानं प्रतिग्रहणं दायाद्यं शिलोञ्छ:'।[६] 'षट्कर्माणि ब्राह्मणस्य स्वाध्यायाध्ययनमध्यापनं यज्ञो यजनं दानं प्रतिग्रहश्चेति।'[७]
श्रुतिविधानमनुसृत्यैव धर्मसूत्रकारैः ब्राह्मणस्यावध्यत्वमाम्नातम् -
‘अवध्यो वै ब्राह्मणः सर्वापराधेषु'॥
गौतमः प्राह — 'अवध्यश्चावन्ध्यश्चादण्ड्यश्चाबहिष्कार्यश्चापरिहार्यश्चेति।'
मनुः प्राह - 'न जातु ब्राह्मणं हन्यात् सर्वपापेष्वपि स्थितम्॥'
यद्यपि कतिपयेषु यज्ञेषु ब्राह्मणस्य विशेषाधिकारः श्रुतिभिः विधीयते परं प्रायेण सर्वेषां द्विजानां ब्राह्मणक्षत्रियवैश्यानाम् - अध्ययने यज्ञे च समानोऽधिकारः प्रतिपादितः । द्विजेषु 'आर्य' इति शब्दोऽपि श्रुतिषु प्रयुक्तः । सूत्रकारा अपि तत्कृते 'आर्य' इति शब्दं प्रयुञ्जाना दृश्यन्ते। ते इज्यायां दाने अध्ययने च तेषामधिकारं स्वीकुर्वन्ति।
क्षत्रियाणां कृते
[सम्पादयतु]क्षत्रियस्य मुख्यो धर्मः प्रजानां पालनमेव प्रोच्यते धर्मविद्भिः ।
वसिष्ठः प्रब्रवीति— 'शस्त्रेण च प्रजापालनं स्वधर्मस्तेन जीवेत् ॥'
गौतमश्चाभिदधाति - 'राज्ञोऽधिकं रक्षणं सर्वभूतानाम् ॥'
क्षत्रियधर्ममधिकृत्य ऐतरेयब्राह्मणं यद् वदति तदिदम् – 'क्षत्रियोऽजनि विश्वस्य भूतस्याधिपतिरजनि विशामत्ताऽजन्यमित्राणां हन्ताऽजनि ब्राह्मणानां गोप्ताऽजनीति ॥'
शतपथब्राह्मणमपि क्षत्रियस्य प्रमुखो धर्मः कः ? इत्यत्र निगदति—
'एष वै प्रजापतेः प्रत्यक्षतमां यद्राजन्यस्तस्मादेकः।
सन् बहूनामीष्टे यद्वेदेव चतुरक्षरः प्रजापतिश्चतुरक्षरो राजन्यः।।'
शतपथब्राह्मणोक्तमिदं मतं काठकश्रुतिमनुमन्यते - 'राजन्यो वै प्रजानामधिपतिः'
राजसम्मानमुद्दिश्य गौतम आचष्टे -
'तमुपर्यासीनमधस्ताहुपासीन्नन्ये ब्राह्मणेभ्यः तेऽप्येनं मन्येरन्'।
इदं हि सर्वं श्रुतिमाधृत्यैव प्रोक्तम् -
'तस्मादुपर्यासीनं क्षत्रियमधस्तादिमाः प्रजा उपासते'।
वैश्यानां कृते
[सम्पादयतु]पशवो वैश्यस्य धनत्वेन श्रुतौ मतम्। अस्मिन् विषये पञ्चविंशब्राह्मणं कथयति
(क) ‘एतद् वै वैश्यस्य समृद्धं यत् पशवः।'
(ख) तस्मादु बहुपशुर्वैश्वदेवो हि जागतो वर्षा ह्यस्य वैश्यस्य ऋतुस्तस्माद् ब्राह्मणस्य च राजन्यस्य चाद्योघरो हि सृष्टः ॥'
पशुशब्दोऽत्र कृषेरप्युपलक्षणमस्ति । अत एव सूत्रकाराः पशुपालनं कृषिश्च वैश्यस्य प्रधानो धर्म इति कथयन्ति । तस्मादेव सम्बन्धाद् वाणिज्यमपि वैश्यस्य धर्मत्वेन स्वीकृतम् ।
शूद्राणां कृते
[सम्पादयतु]ऋग्वेदे शूद्र इति पदं सकृत्प्रयुक्तम् । न तत्र शूद्रस्य धर्ममुद्दिश्य किमपि प्रोक्तम् । तस्य जन्म पद्भयां जातमित्येव निगदितम् । ऋग्वेदाद् व्यतिरिच्य अन्येषु वेदेषु ब्राह्मणेषु च शूद्रशब्दस्य प्रयोगोऽसकृत्कृतः । तेषु तस्य कर्म किमित्येतदपि निरूपितम् । पञ्चविंशब्राह्मणे कथितं यत् पादप्रक्षालनं शूद्रस्य कर्म विद्यते, यज्ञे च तस्याधिकारो नास्ति -
'स यत्तस्य एष प्रतिष्ठाया एकविंशमसृज्यतं । तमनुष्टुप्छन्दोऽन्वसृज्यत न कश्चन देवता शूद्रो मनुष्यस्तमाच्छूद्रे उत बहु पशुरयज्ञियो विदेवो हि, न हि तं काचन देवताऽन्वसृज्यत, तस्मात्पादावनेजयन्नातिवर्द्धते पत्तो हि सृष्टः॥'
यदुपरिष्टे पञ्चविंशब्राह्मणे प्रोक्तं तदनु मन्यमानम् ऐतरेयब्राह्मणमपि दृष्टं भवति -
'अथ यद्यपः शूद्राणां स भक्षः शूद्रांस्तेन भक्षेण जिन्विष्यसि शूद्रकल्पस्ते प्रजायमाजनिष्यतेऽन्यस्य प्रेष्यः कामोत्थाप्यो यथा कामवध्यः ॥'
इमानि वचनान्यवलम्ब्य धर्मसूत्राणि च सेवामेव शूद्रस्य प्रधानं धर्म मन्यन्ते । तथाहि —
'शुद्रेषु पूर्वेषां परिचर्या'।[८]
'परिचर्या चोत्तरेषाम्।[९]
ब्रह्मचारिणां धर्माणां विषये शतपथब्राह्मणे विशदतयाऽऽम्नातम् । उद्वाहविषये च तत्र प्रचुरं प्रोक्तम् । ऋग्वेदस्य दशममण्डलस्थं पञ्चाशीतितमं सूक्तम् -
'रैभ्यासीदनुदेयी नाराशंसी न्योचनी । सूर्याया भद्रभिद् चासोगाथयैति परिष्कृतम्....'
विवाहसम्बद्धानि
[सम्पादयतु]अथर्ववेदे च विवाहविषयः प्रतिपादितः । गृह्यसूत्राणां विवाहवर्णने एतेषां मन्त्राणां विनियोगः क्रियते । उद्वाहसम्बन्धिनो वेदमन्त्रा एव अाचार्येर्गृहस्थाश्रमविषये प्रमाणत्वेन गृहीताः सन्ति ।
श्रुतिषु ऋणत्रयविधानं यत्कृतं तद्ब्रह्मचर्यं गार्हस्थ्यञ्च लक्ष्यीकृत्य कृतमिति सूत्रकाराणां स्मृतिकाराणाञ्च मतमस्ति । ब्रूते चात्र बौधायनः —
'जायमानो वै ब्राह्मणस्त्रिभिर्ऋणवान् जायते ब्रह्मचर्योण ऋषिभ्यो यज्ञेन देवेभ्यः प्रजया पितृभ्य इति॥'
एवम् ऋणसंयोगादीन्यसंख्येयानि भवन्ति । श्रुतिवचांस्याश्रित्यैव धर्मसूत्रकारैर्गार्हस्थ्यं प्रतिपादितं, तद्धर्माश्र्च निरूपिताः। तैत्तिरीयसंहितायां हि ऋतुमतीधर्मा ये विहितास्ते च सूत्रकारैः स्वसूत्रग्रन्थेषु व्याख्यतः।
वानप्रस्थस्य संन्यासस्य च वर्णनं धर्मसूत्रेषु प्राप्यते । परं केचन सूत्रकाराः तत्र विप्रतिपत्तिमुपस्थापयन्तोऽपि दृश्यन्ते। केचन आचार्या नैष्ठिकं ब्रह्मचर्यं, वानप्रस्थं संन्यासञ्च नानुमन्यन्ते। बौधायनोऽत आह -
‘ऐकाश्रम्यं त्वाचार्या अप्रजनत्वादितरेषाम्। प्राह्लादिर्ह वै कपिलो नामासुर आस । स एतान् भेदांश्चकार देवैस्सह स्पर्धमानस्तान् मनीषी माऽद्रियेत ॥'
केचन आचार्या एतदपि अाश्रमद्वयमनुमन्यमानाः प्राप्यन्ते । तैत्तिरीयसंहितायामिह विषये ‘ये चत्वारः' इति वचोऽवाप्यते यत्तद्धर्मस्य चतुविधत्वं करोतीति तेषां मतम् । परं मतमिदं प्रतिवदन् बौधायन आाचष्टे यत् - ‘ये चत्वारः' इत्येष कर्मवाद एवास्ति — ऐष्टिकपाशुकसौमिकदार्वीहोमाणाम् । ज्ञानमेव मुक्तेः कारणमिति मत्वा केचन अाचार्याः संन्यासं परिपुष्णन्ति, किञ्च ज्ञानप्रशंसात्मिकानि श्रुतिवचनानि प्रमाणत्वेन प्रस्तुवन्ति । शतपथब्राह्मणस्य अधःस्थितं वचनं संन्यासपरिपोषकाणां मतं द्रढयति -
'तमेवं वेदानुवचनेन विविदिषन्ति। ब्रह्मचर्येण तपसा श्रद्धया यज्ञेनानाशकेन चैतमेव विदित्वा मुनिर्भवत्येतमेव प्रव्राजिनो लोकमीप्सन्तः प्रव्रजन्ति॥ एतद्ध स्म वै तत्पूर्वे ब्राह्मणा अनूचाना विद्वांसः प्रजान्न कामयन्ते किम्प्रजया करिष्यामो येषान्नोऽयमात्मा यल्लोक इति ते ह स्म पुत्रैषणायाश्च वित्तैषणायाश्च लोकैषणायाश्च व्युत्थापयाथ भिक्षाचर्यं चरन्ति या ह्येव पुत्रैषणा सा वित्तैषणा या वित्तैषणा सा लोकैषणोभे ह्येते एषणे एव भवतः॥'
अापस्तम्बधर्मसूत्रन्तु पक्षद्वयमप्युपन्यस्यति । यद्यपि श्रुतिकाराः स्मृतिकाराश्च कालधर्ममवेक्षमाणाः संन्यासं न सर्वथा प्रत्याचक्षते संन्यासधर्माश्चापि प्रतिपादयन्ति तथापि ते वेदविरुद्धतां न कदाऽपि सहन्ते । तेषां वेदाज्ञा सर्वथा माननीयाऽस्ति । तेभ्यः परं न किमप्यस्ति तेषां दृष्टौ । अत एव आपस्तम्बधर्मसूत्रे प्रोक्तम् -
'त्रैविधवृद्धानां तु वेदाः प्रमाणमिति निष्ठा तत्र यानि श्रूयन्ते व्रीहियवपश्वान्यपयः कपालपत्नीसम्बन्धान्युच्चैर्नीचैः कार्यमिति ते विरुद्ध अाचारोऽप्रमाणमिति मन्यन्ते।'
एवमेव वसिष्ठो ब्रवीति -
'संन्यसेत् सर्वकर्माणि वेदमेकं न संन्यसेत्॥
तेषां संन्यसनाच्छूद्रस्तस्माद् वेदं न संन्यसेत् ॥'
तामेव प्रव्रज्यां, वस्तुतः धर्मसूत्राण्यनुमन्यन्ते या वैदिकधर्ममर्यादासंरक्षिणी भवति । तैत्तिरीयसंहितोक्तं - ‘मनुपुत्रेभ्यो दायं व्यभजत्' इति क्व उद्धरन्तो धर्मसूत्रकारा दायस्य वेदसमतत्त्वमुपपादयन्तीति। सूत्रव्याख्यातृृणां कथनमिदं यत्पिता पुत्रेभ्य एव दायं विभजेन्न तु दुहितृभ्यः। बौधायनधर्मसूत्रदर्शनात् पुत्रस्यैव दायभागाधिकारिता सिद्ध्यति । बौधायनः स्पष्टमेव आानमति यत्, पितरि जीवति पितुरनुज्ञयैव दाय-विभजनं भवेत् । केषाञ्चन आचार्याणामिदमपि मतं यज्ज्येष्ठः पुत्रोऽधिकस्य दायभागस्याधिकारी अस्ति । एते अाचार्याः स्वं मतं परिपोषयितुं बौधायनं प्रमाणत्वेनाऽपि उपन्यस्यन्ति । केषाञ्चन आचार्याणामिदमपि मतं यज्ज्येष्ठपुत्रः समस्तमपि दायभागं लभेत । परमापस्तम्बो मतमिदं प्रत्याचष्टे । स इह आह यदेतादृशो विभागो न शास्त्रानुकूलः। सर्वेऽपि पुत्राः समदायसंलब्ध्यधिकारिणः सन्ति । श्रुतिः समदायविभागपक्ष एव वर्त्तते । समदायविभागस्य वेदमूलत्वं प्रमाणयितुमापस्तम्बस्तदेव श्रुतिकथनमुद्धरति, यद्बौधायनेन प्रयोजनान्तरमुदाहृतम् । बौधायनोदाहृतस्य, श्रुतिवचनस्य विधित्वमस्वीकुर्वाणः आपस्तम्बो न्यायविदां मतमुपस्थापयति - 'अथापि नित्यानुवादमविधिमाहुन्यायविदः'॥ एतस्य हि व्याख्यानस्य उद्देश्यमिदं यदेवंविधानि वेदवाक्यानि दृष्टार्थमात्रमनुवदन्ति । एतेन विवेचनेनेदमपि स्फुटीभवति यद्धर्मसूत्रकाराः श्रुतिवाक्यानि व्याख्याय धर्म प्रतिपादयन्ति । धर्मसूत्राणां सर्वेषां चेत् सम्यगध्ययनं विधीयेत, तदेवं निश्चीयते यच्छ्रुतिव्याख्याभेदादेव दायविभागपरो भेदः सञ्जातः । ‘दुहिता वा' इत्येतद् आपस्तम्बीयं वचो निशम्य विदितं जायते यद्, दुहिताऽपि विकल्पेन दायं लभते। गौतममते पत्नी सपिण्डादिभिः सह रिक्थं भजते ।
केषाञ्चन धर्माणां मूलन्तु सूत्रकाराः स्मृतिकाराश्च वेदविदां स्मृतिं शीलञ्च मन्यन्ते । यदा कोऽप्येतादृशस्य शीलस्य एतादृश्याः स्मृतेर्या प्रमाणत्वम् आक्षिपति, तदा धर्मविदस्तत् समादधानं ब्रुवन्ति यद्, याभ्यः शाखाभ्यो वेदविदां स्मृतिः शीलं वा प्रावर्तत, ताः शाखास्तदा प्रावर्तन्त परं ता गच्छता कालेन व्यनश्यन् । गोविन्दस्वामी वक्ति च यद्, बौधायनेन प्रोक्त: शिष्टागमः सम्प्रति प्रलीनशाखामूलो वर्तते ।
धर्मविभागाः
[सम्पादयतु]धर्मसूत्रग्रन्थालोचनेन, विदितं सञ्जायते यद्, धर्मसूत्रकाराणाम् अभिमतमिदं यत्, कस्मिन्नपि विषये ‘धर्मोऽयम्' इत्येतत्कथनं न तावत् सम्भवं यावच्छ्रुतिः नानुसन्धीयते । धर्मसूत्रकारास्तत् सर्वमपि प्रतिवदन्ति यदस्ति श्रुतिविरुद्धम् । धर्मविदो धर्मं चतुर्षु भागेषु विभजन्ते —
(१) साधारणधर्मः
[सम्पादयतु]साधारणधर्मो दान-तपो-यज्ञ-भेदेन त्रिविधः स्मृतः। अर्थदान-ब्रह्मदानअभयदान-भेदेन दानमपि तत्र त्रिविधम्। तपोऽपि शरीरतपो, मानसतपो वाक्तपो भेदेन त्रिधाऽस्ति । यज्ञस्य सन्ति अष्टादश भेदाः। तत्र नित्य-नैमित्तिक-काम्य-आध्यात्म-आधिदैव-आधिभूतभेदैः कर्मयज्ञः षड्वधः प्रोक्तः । उपासनायज्ञश्च नवविध उक्तः
(१) निर्गुणोपासना, (२) सगुणोपासना, (३) अवतारोपासना, (४) ऋषिपितृदेवतोपासना, (५) भूतप्रेतासुराद्युपासना, (६) मन्त्रयोगः, (७) हठयोगः, ( ८ ) लययोगः, (९) राजयोगश्च।
श्रवण-मनन-निदिध्यासनभेदेन ज्ञानयज्ञस्त्रिप्रकारकः प्रतिपादितः।
इत्थं हि अष्टादशविधा यज्ञाः भवन्ति । दानतपोयज्ञानां संख्यायाः सङ्कलनेन चतुर्विंशतिभेदाः सञ्जायन्ते । एषां हि संख्या सात्त्विकत्वादिगुणत्रयत्वात् त्रिगुणीकरणेन द्विसप्ततित्वं याति ।
(२) विशेषधर्मः
[सम्पादयतु]विशेषधर्मो भवति अधिकारिविशेषाणां कृते । तथा हि पुरुषस्य कृते पुरुषधर्मो नार्याः कृते नारीधर्मः । गार्हस्थस्य कृते प्रवृत्तिधर्मः । संन्यासिनां कृते निवृत्तिधर्मः । एवमेव ब्राह्मण-क्षत्रिय-वैश्यादीनां कृते पृथक् पृथग् धर्मो य उक्तः सो विशेषधर्म इत्युच्यते ।
(३) असाधारणधर्मः
[सम्पादयतु]असाधारणधर्मस्य विलक्षणताऽन्यैवास्ति । असाधारणधर्मार्थं विशेषयोगशक्तिरात्मबलश्चापेक्ष्यते । न साधारणा मनुष्यास्तदधिकारिणो भवितुमर्हन्ति । विश्वामित्र-द्रौपदी-प्रभृतयो हि विरला जनास्तदधिकारिणः पुरा अजनिषत ।
(४) आपद्धर्मः
[सम्पादयतु]आपद्धर्मस्यापि चमत्कारोऽन्य एव । स धर्मो भावप्रधानः । विपदि निपत्य धर्मस्य लक्षणं मनुः एवञ्चचकार -
'धृतिक्षमादमोऽस्तेयं शौचमिन्द्रियनिग्रहः॥
धीर्विद्या सत्यमक्रोधो दशकं धर्मलक्षणम्॥'
यद्यपि धर्मजिज्ञास्यमानानां प्रमाणं परमं श्रुतिस्तथापि मनुः एवमप्याह -
'वेदः स्मृतिः सदाचारः स्वस्य च प्रियं आत्मनः।
एतच्चतुर्विधं प्राहुः साक्षाद्धर्मस्य लक्षणम्।।'[१०]
श्रुतिमूलो हि धर्मो न कश्चिद्द्वेष्टि । अत एव धर्माचार्याः प्राहुः -
'श्रूयतां धर्मसर्वस्वं श्रुत्वा चैवावधार्यताम्॥
अात्मनः प्रतिकूलानि परेषां न समाचरेत्॥'
धर्मस्योपादेयत्वं महनीयत्वञ्चेत्थं गीतं धर्मज्ञैः -
'धर्मो विश्वस्य जगतः प्रतिष्ठा लोके धर्मिष्ठं प्रजा उपसर्पन्ति।
धर्मेण पापमपनुदति धर्मे सर्वं प्रतिष्ठितं तस्माद्धर्मं परमं वदन्ति।।'
व्यासो धर्मस्याहेयत्वे प्राह -
'न जातु कामान्न भयान्न लोभाद् धर्मं त्यजेज्जीवितस्यापि हेतोः।
नित्यो धर्मः सुखदुःखे त्वनित्ये जीवो नित्यो हेतुरस्य त्वनित्यः॥'
धर्मस्य निषेवणीयत्वं कियदुपकारकृदित्यत्र व्यास एवमभिदधाति —
'ऊर्ध्वबाहुविरौम्येष न कोऽपीहि शृणोति माम्।
धर्मादर्थञ्च कामश्च तं धर्म किल सेवसे।'
धर्मं संरक्ष्य न कोऽपि कदाऽप्यवसीदति, तस्मादेव कारणाद् वेदम् अनूच्य अाचार्योऽन्तेवासिनमनुशास्ति –
‘धर्म चर, धर्मान्न प्रमदितव्यम्।'
धर्मसूत्राणि
[सम्पादयतु]गौतमधर्मसूत्रम्
[सम्पादयतु]धर्मसूत्रेषु प्राचीनतमोऽयं ग्रन्थोऽस्ति । अस्योल्लेखो गोभिलेन स्वकीये गृह्यसूत्रे कृतोऽस्ति । बौधायनधर्मसूत्रे अस्माद्धर्मसूत्रात् प्रायश्चित्तविषयकं विचारमपि सङ्कलितम् । ग्रन्थेऽस्मिन् २८ अध्यायाः सन्ति । अत्र वर्णधर्म-राजधर्म-नित्यकर्मप्रायश्चित्तादीनां विशिष्टं प्रतिपादनमस्ति । शङ्कराचार्य-कुमारिल-मेधातिथिप्रभृतयो विद्वांसः अस्य ग्रन्थस्य निर्देशं कृतवन्तः । अस्य आविर्भावकालः ६०० वि० पूर्वत: ४०० वि० पर्यन्तं मन्यते। हरदत्तेन स्वव्याख्यया सूत्रमिदं सरलं कृतम्। आचार्य-मस्करी-महोदयस्त्वस्य ग्रन्थस्य बोधगम्यं भाष्यं लिलेख।
बौधायनधर्मसूत्रम्
[सम्पादयतु]बौधायनकल्पसूत्रस्यांशमात्रम् एवायं ग्रन्थोऽस्ति । अस्य धर्मसूत्रस्य चत्वारः प्रश्नाः सन्ति । प्रथमप्रश्ने ब्रह्मचर्य-शुद्धाशुद्धविचार-राजकीयविधि-अष्टविधविवाहादीनां विषयाणां वर्णनमस्ति। द्वितीयप्रश्ने-प्रायश्चित्त-उत्तराधिकार-अाश्रमव्यवस्था-गार्हस्थ्यधर्म-श्राद्धादीनां विषयाणां विवरणमस्ति । तृतीयप्रश्ने संन्यासधर्म-चान्द्रायणप्रभृतीनां व्रतानां वर्णनं प्राप्यते। चतुर्थप्रश्ने काम्यसिद्ध्यादीनां वर्णनमस्ति ।तैत्तिरीयशाखायाः बौधायनकल्पसूत्रं कल्पसाहित्यस्य इतिहासेषु प्राचीनतममस्ति। तैतिरीयसंहितायाः टीकाकृता भास्करमिश्रेण स्वीयां टीकायामस्य बौधायनस्य नाम्नोल्लेखः कृतोऽस्ति।
'प्रणम्य शिरसाऽऽचार्यान् बौधायनपुरःसरान्।
व्याख्यैषाऽध्वर्युवेदस्य यथाबुद्धि विधीयते।।'
डॉ० व्यूलर-मतेनायं विद्वान् दक्षिणभारतीयः आसीत्। किञ्च केचन तम् उत्तरभारतीयत्वेन अपि अङ्गीकुर्वन्ति। अस्य मतानुसारेण आर्यावर्त्तस्य सीमानिर्देशो द्रष्टव्यः -
'प्राग्दर्शनात् प्रत्यक्कालिकवनाद् दक्षिणेन हिमवन्तमुदक् पारियात्रमेतावद् अार्यावर्त्तम्। तस्मिन् य आाचारः प्रमाणम्॥'[११]
हिरण्यकेशीगृह्यसूत्रेऽपि सीमन्तोन्नयनप्रसङ्गे गङ्गायारुल्लेखः इति तर्कः -
'सोम एव नो राजेत्याहुः ब्राह्मणीः प्रजाः॥
विवृतचक्रा अासीनास्तीरे तुभ्यं गङ्गे॥'[१२]
आपस्तम्बधर्मसूत्रम्
[सम्पादयतु]कल्पसूत्रमिदम् आपस्तम्बकल्पसूत्रनाम्ना अपि ख्यातमस्ति। डा० ब्यूलर-महोदयमतानुसारेण आपस्तम्बोऽयं दाक्षिणात्य आसीत् । कथनमिदं प्रमाणयितुमनेन धर्मसूत्रस्य अन्तरङ्गप्रमाणम् उद्धृतम् – 'उदीच्यवृत्तिश्चेदासनगतेषूदपात्रानयनम्'।[१३] किञ्च अन्ये तस्य समर्थनं न कुर्वन्ति। अापस्तम्बगृह्यसूत्रे वीणावादनकाले मन्त्रद्वयस्य गानस्य विधानमस्ति -
'योगन्धरिरेवं नो राजेति साल्वीरवादिषुः।
विवृतचक्रा आसीनास्तीरेण यमुने तव॥
सोम एव नो राजेत्याहुर्ब्राह्मणीः प्रजाः।
विवृतचका आसीनास्तीरेणासौ तव॥'
अस्य प्रथमे मन्त्रे यमुनातटवासिनां साल्वदेशीयप्रजानामुल्लेखः ऐतिहासिकमहत्त्वं रक्षति इथि तर्कः। आधुनिक-पञ्जाब-प्रदेशे एव तदा साल्वदेशः आसीत्। पाणिनिः साल्वदेशस्योल्लेखं राजशासितजनपदस्वरूपे एव कृतवानस्ति । 'साल्वावयव-प्रत्यग्रथकलकूटाश्मकादिञ्’।[१४] कतिपयानाम् एतादृशानाम् अवयवानामुल्लेखो नामोल्लेखपूर्वकं काशिकायां कृतवान् -
'उदुम्बरास्तिलखला भद्रकारा युगन्धराः।
भूलिङ्गाः शरदण्डाश्च साल्वावयवसंज्ञिताः॥'
एभिः प्रमाणैः आपस्तम्बस्य जन्मस्थानमुत्तरभारतम् अनुमीयते।
हिरण्यकेशीधर्मसूत्रम्
[सम्पादयतु]अस्याः शाखायाः कल्पसूत्रस्य द्वावेव प्रश्नौ स्तः । ग्रन्थोऽयं स्वतन्त्र इत्यपि वक्तुं नोचितमस्ति । ग्रन्थोऽयम् आपस्तम्बधर्मसूत्रस्यैव संक्षिप्तं प्रवचनमस्ति । अयं हि विद्वान् आपस्तम्बधर्मसूत्रादेव शताधिकमन्त्राणामवतरणं स्वग्रन्थे कृतवान् । अस्य सूत्राणां पाठः पाणिनिकृते विशेषोऽनुकूलोऽस्ति । अस्य टीकाकारो महादेवः स्वभाष्ये अनेकावश्यकविषयाणां वर्णनमकरोत् । तेन हि भाष्यमिदमत्युपादेयं सङ्ग्राह्यश्चाभवदिति ।
वसिष्ठधर्मसूत्रम्
[सम्पादयतु]धर्मसूत्रकारेषु महर्षिवसिष्ठस्य स्थानमत्युच्चं प्रतिष्ठितञ्चास्ति । आकारेण स्वल्पकायः सन्नपि गुणे विपुलकायोऽस्ति ग्रन्थोऽयम् । ग्रन्थेऽस्मिन् त्रिंशदध्यायाः सन्ति । ग्रन्थेऽस्मिन् स्त्रीधर्म-श्राद्ध-अशौच-विष्णुमूर्त्तिप्रतिष्ठा-विष्णुपूजनादीनां विषयाणां विशिष्टं वर्णनमस्ति ।
वैखानसधर्मसूत्रम्
[सम्पादयतु]अस्मिन् धर्मसूत्रे वैखानसस्मृतिसूत्रस्य अष्टम-नवम-दशमप्रश्नाः सन्ति । त्रयः प्रश्नाः मिलित्वैवेमं ग्रन्थं निष्पन्नं कुर्वन्ति । अाश्रमाणां वर्णानाञ्च विशदं विवेचनमेवास्य ग्रन्थस्य महती विशिष्टताऽस्ति । वानप्रस्थ-संन्यास-गृहस्थाद्याश्रमाणाम् अवान्तरप्रकारकस्य एतादृशं विशदं वर्णनम् अत्रोपलब्धं भवति यद्, अन्यत्र धर्मशास्त्रान्तरे दुर्लभमस्ति । सङ्करजातीनामप्यत्र विशिष्टप्रकारकं वर्णनम् उपलब्धं भवति, किञ्च राज्ञः कर्त्तव्यं, न्यायस्य विधानं, श्राद्धस्यानुष्ठानञ्चादीनां धर्मशास्त्रेषु नियमतः प्राप्तविषयाणामत्र वर्णनस्य सर्वथाऽभावोऽस्ति । अस्याङ्ग्लानुवादः सम्पादनञ्च डाँ० कैलेण्डेन कृतम् ।
विष्णुधर्मसूत्रम्
[सम्पादयतु]इदमेवैकं धर्मसूत्रमस्ति यत् कस्यापि मानवग्रन्थकारस्य रचना न भूत्वा व्योत्पत्तौ श्रद्धां सन्दधाति । अस्मिन् गद्यात्मकसूत्राणां तथा पद्यानामेकत्र सन्निवेशोऽस्ति । अस्य स्वरूपस्य विषये पर्याप्तमतभेदोऽस्ति । मनुस्मृत्या सहास्य सूत्रस्य सम्बन्धः तथा पौर्वापर्यविप्रतिपत्तेविषयश्चास्ति । अस्य धर्मसूत्रस्य १६० श्लोकाः मनुस्मृतौ अक्षरशो लभन्ते। विष्णुधर्मसूत्रगताः श्लोकाः मनुस्मृतेः श्लोकानां छायामनुहरन्ति। एतादृश्या तुलनया धर्मसूत्रमिदं मनुपूर्ववर्तिनं मन्यन्ते । परमियतैव सादृश्येन परवर्त्तिता नियमस्यैव पूर्ववर्त्तिता नियमस्यापि कत्तुं शक्यत्वेन निश्चयस्य कस्यापि कर्त्तुमशक्यत्वात् । एतेषां धर्मसूत्राणामतिरिक्तं शङ्खलिखितस्य धर्मसूत्रमप्युपलब्धमस्ति । विष्णुधर्मसूत्रस्य आङ्ग्लानुवादेन सहास्य सम्पादनं प्रकाशनञ्च कोलकाता-नगरीतः १८८० ईश्वीये जाली-महोदयेन कृतम् ।