नवोदयविद्यालयाः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
जवहर् नवोदयविद्यालयाः
Location
भारते सर्वत्र
Information
Type Public
Motto Pragyanam Brahma
Established 1985
Grades Class 6 - 12
Number of students 1,80,391 on 31 march 2007[१]
Campus type ग्रामीणसंस्था
Affiliation केन्द्रियपाठ्यक्रमः
Information ६०० शाखाः
Website

नवोदयविद्यालयाः (Navodaya Vidyalaya) शिक्षणसम्बद्धाः संस्थाः भवन्ति । भारतीय शालाशिक्षणक्रमे नवोदयविद्यालयपद्धतिकल्पना नूतना अस्ति । एतेषाम् आशयः अस्ति अत्र ग्रामीणबालाः ये धीमन्तः भवन्ति तान् चित्वा तेभ्यः शिक्षणदानम् इति । शिक्षणे गुणवत्ताम् अपि परिगणय्य एते विद्यालयाः स्थापिताः सन्ति । एते आवसीयविद्यालयाः सन्ति । एतावत्पर्यन्तं गुणवत्ताशिक्षणं केवलं धनिकपुत्राणाम् कृते लभ्यते स्म । राष्ट्रियशिक्षानियमस्य (१९८६) अनुगुणं जवाहरलालनवोदयविद्यलयाः स्थापिताः ।

उद्देशाः[सम्पादयतु]

*शिक्षणे उत्कृष्टता तेन सह मत-सामाजिकन्यायः च
*राष्ट्रिय-भावैक्यं, धीमतां ग्रामीणच्छात्राणाम् अवसरः, देशस्य विभिन्नप्रदेशतः अगत्य पठनेन तेषां सर्वतोमुखाभिवृद्धिः ।
*अधुनिकशिक्षणपद्धत्या शिक्षणप्रदानम् । तेन सह सांस्कृतिकशिक्षणं, नैतिकशिक्षणं, परिसरविषये प्रज्ञा, साहसकार्यं च
*नवोदयविद्यालयस्य छात्राः भाषात्रयेऽपि निरीक्षितस्तरं प्राप्नुयुः ।
*देशस्य प्रत्येकमण्डले एकः नवोदयविद्यालयः स्थापितः भवेत्।

प्रवेशपरीक्षा[सम्पादयतु]

प्रतिवर्षं प्रवेशार्थं परीक्षा प्रचाल्यते । परिशिष्टजातीयस्य परिशिष्टवर्गस्य बालानां कृते आरक्षणं भवति । स्थानेषु १/३ भागः बालिकानां कृते आरक्षितः भवति । विकलाङ्गानां कृते अपि ३ प्रतिशतम् आरक्षितः भवति । षष्टकक्ष्यातः आरभ्य द्वादशकक्ष्यापर्यन्तम् अत्र केन्द्रीयमाध्यमिकशिक्षामण्डल्याः पाठ्यक्रमः अनुस्रियते । बालकाः बालिकाः च एकत्र पठन्ति । नवमीतः आरभ्य मासे २०० रूप्यकाणि शुल्करूपेण स्वीक्रियते । परन्तु परिशिष्टजातीयानां, परिशिष्टवर्गस्य, बालिकानां, विकलाङ्गीयच्छात्राणां च शुल्कं न भवति । दारिद्र्यरेखातः अधः ये भवन्ति ते अपि शुल्कदानेन विमुक्ताः भवन्ति । नवोदयविद्यालयाः ग्रामीणभागेषु एव स्थापिताः सन्ति । राज्यसर्वकाराः एतदर्थं विना शुल्कं भूमिं दद्युः । तात्कालिकरूपेण भवनं दद्युः यावत् पर्यन्तं नूतनभवनस्य निर्माणं न भवेत् ।

नवोदयगीतम्[सम्पादयतु]

[[:Image:|Navodaya Song]][[Image:|180px|noicon]]
सञ्चिकायाः श्रवणे समस्या भवति वा? ? पश्यतु माध्यम-साहाय्यम्
हम नवयुग की नई भारती, नई आरती !
हम स्वराज्य की रिचा नवल, भारत की नवलय हों
नव सूर्योदय, नव चंद्रोदय, हमी नवोदय हों !!
रंग जाति पद भेद रहित, हम सब का एक भगवान हो
संतान हैं धरती माँ की हम, धरती पूजा स्थान हो !
पूजा के खिल रहे कमल दल, हम भव जल में हो
सर्वोदय के नव बसंत के, हमी नवोदय हो !!


मानव हैं हम हलचल हम, प्रकृति के पावन वेश में
खिलें फलें हम में संस्कृति इस, अपने भारत देश की!
हम हिमगिरि हम नदियाँ हम, सागर की लहरें हो
जीवन की मंगलमाटी के, हमी नवोदय हो !!


हरी दूधिया क्रांति शांति के, श्रम के वंदनवार हो
भागीरथ हम धरती माँ के, सूरम पहरेदार हो !
सत शिव सुन्दर की पहचान, बनाए जग में हम
अंतरिक्ष के यान ग्यान के, हमी नवोदय हो...


बाह्यानुबन्धाः[सम्पादयतु]

उल्लेखनीय पूर्व छात्र[सम्पादयतु]

  • सुरेन्द्रपूनिया, अन्तर्राष्ट्रीय पुरस्कार विजेता, क्रीडकः लिम्का पुस्तक विक्रमधारकः
  • बशरत पीर, कश्मीरी अमेरिकन पत्रकार
  • पवनदीप राजन, संगीतकार
  • अक्षय माकडिया, उद्यमी तथा गूगल सफलता कथा विजेता
  • उम्मर फयाज पररे, भारतीय सेना पदाधिकारी
  1. उद्धरणे दोषः : अमान्या <ref> शृङ्खला; school overview इत्यस्य आधारः अज्ञातः
"https://sa.wikipedia.org/w/index.php?title=नवोदयविद्यालयाः&oldid=483666" इत्यस्माद् प्रतिप्राप्तम्