नागार्जुनकोण्ड

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
नागार्जुनकोण्ड
—  city  —
नागार्जुनकोण्ड
Location of नागार्जुनकोण्ड
in आन्ध्रप्रदेशः
निर्देशाङ्काः

१६°३१′२०″उत्तरदिक् ७९°१४′२४″पूर्वदिक् / 16.522222°उत्तरदिक् 79.24°पूर्वदिक् / १६.५२२२२२; ७९.२४

देशः भारतम्
राज्यम् आन्ध्रप्रदेशः
मण्डलम् नलगोण्डा
समयवलयः IST (UTC+05:30)

नागार्जुनकोण्ड (०८६८०) एषः इदानीं कश्चन द्वीपः अस्ति । अस्मिन् स्थले क्रिस्तपूर्वत्रिसहस्रवर्षेभ्यः मानवानाम् आवासः आसीदिति इतिहासेन ज्ञातं भवति । श्रीपर्वतः इति अपि अस्य अपरं नाम अस्ति । कृष्णानद्याः जलाशयः ४००० चतुरस्र.मीमितः विस्तृतः अस्ति ।जलबन्धकारणात् एषः प्रदेशः निमज्जितः भवति इति यदा ज्ञातं तदा अत्रत्यान् प्राचीनावशेषान् उन्नते स्थले पुनः स्थापितवन्तः । जलबन्धकारणात् एषः द्वीपः अतीवसुन्दरः आकर्षकः च सञ्जातः अस्ति । अत्र संरक्षिताः अवशेषाः बौद्धमतसम्बद्धाः सन्ति । एतत्सदृशः द्वीपः ईजिप्तदेशे आस्वान् जलबन्धेन निर्मितः नुबिया द्वीपः अस्ति । एवमेव नागार्जुनकोण्डप्रदेशे चतुर्दशद्वीपाः सन्ति । अत्र चारित्रिकदृष्ट्या बौध्दवेदान्ती नागार्जुनः क्रिस्ताब्दे द्वितीये शतके आसीत् । विजयपुरी इति नगरस्य नाम आसीत् महान्पण्डितः श्रीनागार्जुनः उक्तमं कार्यं कृतवान् । अत्र आगताः बौद्धस्तूपानि, चैत्यानि, शिलासु बौद्धजातककथाः च दृष्टुं शक्नुवन्ति ।

मार्गः[सम्पादयतु]

हैदराबाद्तः १६० कि.मी । गुण्टूरतः २४७ कि.मी । धूमशकटनिस्थानं मञ्चेरला । ततः २४ कि.मी वाहनमार्गः ।

"https://sa.wikipedia.org/w/index.php?title=नागार्जुनकोण्ड&oldid=364383" इत्यस्माद् प्रतिप्राप्तम्