सामग्री पर जाएँ

नान्तोऽस्ति मम दिव्यानां...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


श्लोकः

[सम्पादयतु]
गीतोपदेशः
नान्तोऽस्ति मम दिव्यानां विभूतीनां परन्तप ।
एष तूद्देशतः प्रोक्तो विभूतेर्विस्तरो मया ॥ ४० ॥

अयं भगवद्गीतायाः दशमोऽध्यायस्य विभूतियोगस्य चत्वारिंशत्तमः(४०) श्लोकः ।

पदच्छेदः

[सम्पादयतु]

न अन्तः अस्ति मम दिव्यानां विभूतीनां परन्तप एषः तु उद्देशतः प्रोक्तः विभूतेः विस्तरः मया ॥ ४० ॥

अन्वयः

[सम्पादयतु]

परन्तप ! मम दिव्यानां विभूतीनाम् अन्तः न अस्ति । मया एषः विभूतेः विस्तरः तु उद्देशतः प्रोक्तः ।

शब्दार्थः

[सम्पादयतु]
परन्त = शत्रुतापन !
मम दिव्यानाम् = मे दिव्यानाम्
विभूतीनाम् = ऐश्वर्याणाम्
अन्तः न अस्ति =अवधिः नास्ति
एषः तु = अयं च
विभूतेः = ऐश्वर्यस्य
विस्तरः = प्रपञ्चः
उद्देशतः = एकदेशतः
प्रोक्तः = कथितः ।

अर्जुन ! मम दिव्याः विभूतयः अनन्ताः सन्ति । ताः सर्वाः अत्र नैव उक्ताः । अधुना यदुक्तं तत्तु केवलं मम विभूतीनाम् एकदेशमात्रम् अस्ति ।

सम्बद्धसम्पर्कतन्तुः

[सम्पादयतु]

सम्बद्धाः लेखाः

[सम्पादयतु]