नान्यं गुणेभ्यः कर्तारं...
पठन सेटिंग्स
श्लोकः
[सम्पादयतु]अयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- नान्यं गुणेभ्यः कर्तारं यदा द्रष्टानुपश्यति ।
- गुणेभ्यश्च परं वेत्ति मद्भावं सोऽधिगच्छति ॥ १९ ॥
अयं भगवद्गीतायाः चतुर्दशोऽध्यायस्य गुणत्रयविभागयोगस्य नवदशः(१९) श्लोकः ।
पदच्छेदः
[सम्पादयतु]न अन्यं गुणेभ्यः कर्तारं यदा द्रष्टा अनुपश्यति गुणेभ्यः च परं वेत्ति मद्भावं सः अधिगच्छति ॥ १९ ॥
अन्वयः
[सम्पादयतु]द्रष्टा यदा गुणेभ्यः अन्यं कर्तारं न अनुपश्यति (आत्मानम्) गुणेभ्यः च परं वेत्ति सः मद्भाम् अधिगच्छति ।
शब्दार्थः
[सम्पादयतु]- द्रष्टा = समीक्षकः विद्वान्
- गुणेभ्यः = सत्त्वादिभ्यः
- अन्यम् = इतरम्
- अनुपश्यति = अवलोकते
- परम् = व्यतिरिक्तम्
- वेत्ति = जानाति
- मद्भावम् = मत्स्वरूपम्
- अधिगच्छति = लभते ।
अर्थः
[सम्पादयतु]अत्र यावन्ति कर्माणि भवन्ति तानि सर्वाणि गुणाः एव कुर्वन्ति, न तु आत्मा । स च गुणेभ्यो व्यतिरिक्तः केवलं कर्मणां साक्षिभूतः इति पुरुषः यदा जानाति तदा मोक्षं प्राप्नोति ।