नारङ्गफलरसः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
नारङ्गफलरसः
रक्तवर्णस्य नारङ्गस्य रसः
नारङ्गफलानि

नारङ्गफलस्य रसः एव नारङ्गफलरसः । एतत् नारङ्गफलम् आङ्ग्लभाषायां Orange इति उच्यते । अस्य रसः Orange Juice इति उच्यते । नारङ्गफलरसः आरोग्यार्थम् अपि बहु उत्तमम् । अस्य फलरसस्य निर्माणं कृत्वा कूपीषु, करण्डकेषु वा पूरयित्वा संरक्ष्यते । तादृशः फलरसः बहुकालं यावत् न नश्यति । यदा आवश्यकं तदा गृहे एव निर्माय पातुम् अपि शक्यते । आपणेषु उपहारमन्दिरेषु चापि अस्य नारङ्गफलरसस्य विक्रयणं क्रियते । कुत्रचित् मार्गपार्श्वे अपि नारङ्गफलरसं निर्माय विक्रयणं कुर्वन्ति अपि । भारते तु अयं नारङ्गफलरसः अत्यन्तं प्रसिद्धं पेयम् अस्ति । फलस्य वर्णस्य अनुगुणं फलरसस्य वर्णः अपि परिवर्तते । अतः अस्य नारङ्गफलरसः बहुश्हु वर्णेषु प्राप्यते ।

फलरसस्य निर्माणम्[सम्पादयतु]

अस्य नारङ्गफलरसस्य निर्माणम् अपि अत्यन्तं सुलभम् । प्रथमम् नारङ्गफलं प्रक्षाल्य त्वक् निष्कास्य बीजानि पृथक् करणीयानि । अनन्तरं तत्र शर्करां योजयित्वा सम्यक् पेषणं करणीयम् । अनन्तरं शोधनीयम् । तदनन्तरं तत्र जलं वा दुग्धं वा योजनीयम् । अपेक्षितं चेत् तत्र एलायाः चूर्णम् अपि योजयितुं शक्यते ।

"https://sa.wikipedia.org/w/index.php?title=नारङ्गफलरसः&oldid=345360" इत्यस्माद् प्रतिप्राप्तम्