नारायणस्मृतिः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search


नारायणस्मृतिः (Narayana Smriti) प्रमुखस्मृतिषु अन्यतमा ।

नैमिषारण्यं पुण्यक्षेत्रमित्येव प्रसिद्धं वर्तते । अत्र ब्रह्मवादिनः ऋषयः महर्षयश्च स्वाध्यायसत्सङ्गकथालापादिकं कुर्वन्ति स्म । अत एव इदं क्षेत्रं ’ज्ञानसत्रम् ’ इत्यपि प्रसिद्धं वर्तते ।

ग्रन्थस्वरूपम्[सम्पादयतु]

एकदा महायोगिनारायणः धर्मज्ञं दूर्वाससं धर्मोपदेशं कर्तुं प्रार्थयामास । तेन प्रतिपादितानां विषयाणां संग्रहः एव नारायणस्मृतिः इति कथ्यते । अस्मिन् ग्रन्थे नव अध्यायाः द्विशतश्लोकाश्च सन्ति ।

विषयाः[सम्पादयतु]

अस्मिन् ग्रन्थे पातक – उपपातक – महापातकानां स्वरूपं, तेषां प्रायश्चित्तविधीनां विवरणं च प्रतिपादितम् वर्तते ।
स्मृतेः प्रारम्भे महामुनिनारायणः महर्षि– दूर्वाससा सह जिज्ञासां करोति – ’भोः धर्मज्ञानां श्रेष्ठ ! कलियुगे भूमौ यदा धर्मः नष्टो भवति, तदा मानवः कथं पापैः विमुक्तिं प्राप्नुयात् ? कृपया तान् प्रायश्चित्तविधीन् विज्ञापयतु ’ इति ।
तदानीं महर्षिः इत्थम् उत्तरं दत्तवान् । 'भोः महायोगिन् ! सत्ययुगे धर्मरूपीवृषभः पादचतुष्टयमपि प्राप्य तिष्ठति। दिने दिने धर्मः अभिवर्धते । धर्मरूपी वृषभः सत्यं, शौचः, तपः, दानं नाम पादचतुष्टयं प्राप्य प्रतिष्ठितो भवति । तेन सर्वत्र सुखं शांतिश्च प्रसरति । सर्वे धर्ममार्गानुयायिनः भवन्ति ।
किन्तु त्रेतायुगे धर्मस्य पादमेकं नष्टं भविष्यति तदानीं पादत्रयं धर्मः पादमेकम् अधर्मः भविष्यति ।
द्वापरे धर्मस्य पादद्वयं नष्टं भविष्यति ।
अन्तिमे कलियुगे पादत्रयम् अधर्मः एव व्याप्नोति। पादमेकं धर्मः भवति (नायायण – १/६) । एतस्मिन् घोरे कलियुगे पापकार्यम् उच्चतमं बिन्दुं प्राप्य युगान्ते प्रलयः भविष्यति । तदनन्तरं पुनः कृतयुगस्य कार्याणि प्रारभ्यन्ते ।

पापविषयः[सम्पादयतु]

नारायणस्मृतौ नवकोटिविधपापानि विद्यन्ते इति उल्लिखितं वर्तते। तेषु नवविध पापानि विशेषतः प्रमुखानि विद्यन्ते । ब्रह्महत्या, सुरापानं, स्वर्णस्तेयं , गुरुतल्पगमनं तेन सह संसर्गः इत्येतानि महापातकानि, उपपातकानि, जातिभ्रंशकरणं, प्रकीर्णपापानि च परिगणितानि सन्ति । ( नारायण १(१०.१५))

तदनन्तरं प्रत्येकस्यापि पापस्य प्रायश्चित्तं निरूपितं वर्तते । तस्मात् सर्वदा सर्वैरपि पापेभ्यः दूरे एव स्थातव्यमिति उक्तं भवति । पापवशात् नरः नरकं प्राप्य तत्र कठिनतमानि दण्डनानि प्राप्नोति । तादृशदण्डनानि कानि इत्यपि अत्र विवृतं वर्तते । अतः नरकयातनात् विमोक्तुं पापकार्याणि न कर्तव्यानि इति, सर्वदा धर्ममेव अनुसरणीयमित्यपि एषा स्मृतिः अस्मान् बोधयति ।

महामुनिः नारायणः महर्षिदूर्वाससं पुनरपि एवम् अपृच्छत् - 'हे भगवन् ! दीर्घकालात् पापकर्मणि ये रताः, ते पापकर्माणि त्यक्तुम् अशक्ताः सन्ति । ते कथं पापकर्मेभ्यः मोक्षं प्राप्नुयुः इति कृपया कथयतु' इति ।

'पंचगव्य प्राशनं च सर्वं कृत्वा विशुद्ध्यति' (नारायण. ५/२९)

एवं रीत्या नारायणस्मृतौ सर्वविधपापानां परिहाराः के इति स्पष्टतया विवृतं वर्तते । नारायणस्मृतेः अन्ते कलिवर्ज्यप्रकरणमस्ति । एवमेव वर्जितकर्मणां प्रायश्चित्तमपि अत्र निरूपितम् ।

"https://sa.wikipedia.org/w/index.php?title=नारायणस्मृतिः&oldid=395503" इत्यस्माद् पुनः प्राप्तिः