नियतं सङ्गरहितम्...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


श्लोकः[सम्पादयतु]

गीतोपदेशः
नियतं सङ्गरहितमरागद्वेषतः कृतम् ।
अफलप्रेप्सुना कर्म यत्तत्सात्त्विकमुच्यते ॥ २३ ॥

अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य त्रयोविंसतितमः(२३) श्लोकः ।

पदच्छेदः[सम्पादयतु]

नियतं सङ्गरहितम् अरागद्वेषतः कृतम् अफलप्रेप्सुना कर्म यत् तत् सात्त्विकम् उच्यते ॥ २३ ॥

अन्वयः[सम्पादयतु]

अफलप्रेप्सुना अरागद्वेषतः नियतं सङ्गरहितं यत् कृतं कर्म तत् सात्त्विकम् उच्यते ।

शब्दार्थः[सम्पादयतु]

नियतम् = नित्यम्
सरहितम् = आसक्तिवर्जितम्
अरागद्वेषतः = रागद्वेषराहित्येन
अफलप्रेप्सुना = अफलाकाङ्क्षिणा ।

अर्थः[सम्पादयतु]

नित्यत्वेन विहितम्, अहम् अस्य कर्ता इत्यभिनिवेशशून्यम्, रागद्वेषराहित्येन च फलनिरपेक्षेण पुरुषेण कृतं यत् कर्म तत् सात्त्विकम् इति उच्यते ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=नियतं_सङ्गरहितम्...&oldid=418642" इत्यस्माद् प्रतिप्राप्तम्