निश्चयं शृणु मे तत्र...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


श्लोकः[सम्पादयतु]

गीतोपदेशः
निश्चयं शृणु मे तत्र त्यागे भरतसत्तम ।
त्यागो हि पुरुषव्याघ्र त्रिविधः सम्प्रकीर्तितः ॥ ४ ॥

अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य चतुर्थः(४) श्लोकः ।

पदच्छेदः[सम्पादयतु]

निश्चयं शृणु मे तत्र त्यागे भरतसत्तम त्यागः हि पुरुषव्याघ्र त्रिविधः सम्प्रकीर्तितः ॥

अन्वयः[सम्पादयतु]

भरतसत्तम ! तत्र त्यागे मे निश्चयं शृणु, पुरुषव्याघ्र ! त्यागः हि त्रिविधः सम्प्रकीर्तितः ।

शब्दार्थः[सम्पादयतु]

भरतसत्तम = भरतश्रेष्ठ
निश्चयम् = निर्धारणम्
पुरुषव्याघ्र = पुरुषश्रे !
सम्प्रकीर्तितः = वर्णितः ।

अर्थः[सम्पादयतु]

भरतश्रे अर्जुन ! तत्र त्यागे तावत् मम निर्धारणं शृणु । अर्जुन ! त्यागः त्रिविधः वर्णितः ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=निश्चयं_शृणु_मे_तत्र...&oldid=418645" इत्यस्माद् प्रतिप्राप्तम्