निष्कुलानन्दस्वामी
स्वामिनारायणभक्तः निष्कुलानन्दः स्वामी | |
---|---|
सञ्चिका:Nishkulanandkavya .jpg निष्कुलानन्दः स्वामी | |
जन्मस्थानम् | जामनगरमण्डलम् गुजरातराज्यम् |
मृत्युस्थानम् | धोलेराग्रामः गुजरातराज्यम् भारतम् |
तत्त्वचिन्तनम् | भक्तिगीतानि |
उक्तिः | "त्याग न टके वैराग्य विना करिए कोटि उपायजी " |
निष्कुलानन्दः स्वामी गुजरातीभाषायाः भक्तिमार्गस्य कविः आसीत् । सः स्वामिनारायणसम्प्रदायस्य अनुयायी आसीत् । तस्य ‘त्याग न टके वैराग्य विना करिए कोटि उपायजी ’ गीतम् आश्रमभजनावलीषु अस्ति । मन्दिरेषु भक्ताः एतत् गीतं भावेन गायन्ति ।
एतस्य स्वामिनारायणसम्प्रदाये महत्त्वपूर्णं स्थानं अस्ति । स्वामिनः वैराग्यप्रधानं जीवनं तस्य कृतिषु अपि प्रतिम्बितं भवति । वैराग्यप्रधाने जीवने सत्यपि ‘स्नेहगीता’ इत्यादिभिः श्रृङ्गाररसस्य विशिष्टं मिश्रणं दृश्यते तस्य गीतेषु । तस्य २४ कृतयः ‘निष्कुलानन्दकाव्यकीर्तन’ नाम्ना स्वामिनारयणमन्दिरतः वडताल-भूज-अहमदाबाद्-वडोदरा-सूरतादिषु मन्दिरेषु प्रकाशिताः अभूवन् । स्वामिनारायणसम्प्रदायस्य एनं कविं प्रति प्रेमप्रकटनाय तस्य जीनवोपरि शोधग्रन्थः अपि लिखितः वर्तते ।
जन्म जीवनञ्च
[सम्पादयतु]निष्कुलानन्दस्वामिनः जन्म जामनगरमण्डलस्य शेखपाटग्रामे अभवत् । तस्य जन्म वि.सं. १८२२ तमे वर्षे, माघमासस्य पञ्चम्यां तिथौ (वसन्तपञ्चम्याम्) रथकारस्य कुले अभवत् । तस्य पितुः नाम रामजी, मातुश्च नाम अमृताबा आसीत् । पूर्वाश्रमे तस्य नाम 'लालाजी' आसीत् । निष्कुलानन्दस्वामिनः मेलनं कविना दलपतरामेण सह धोलेराग्रामे अभवत् । एतस्य मेलनस्य उल्लेखः दलपतरामस्य बुद्धिप्रकाशः इत्याख्यग्रन्थे प्राप्यते । स्वामिनारायणसम्प्रदायस्य सर्वेषु कविषु निष्कुलानन्दस्वामी विशिष्टं स्थानं धरते । यतो हि अक्षरज्ञानेन विनापि सः विपुलं साहित्यं सम्प्रदायाय दत्तवान् ।
साहित्यरचना
[सम्पादयतु]दीक्षायाः अनन्तरं सद्यः एव भगवान् स्वामिनारायणः "साहित्यरचनां कुरु" इति आदिशत् । तदा कविवरः कथयति- ‘कृष्णमुखानि अक्षराणि छिन्नानि ।’ तदा भगवान् कथयति- ‘प्रारभ्यतां, तव कलमं प्रविश्य अहं लिखामि ।’ अनेन सह निष्कुलानन्दः लेखनं प्रारभत । यमदण्डः इत्याख्या कृतिः तस्य प्रथमा रचना अस्ति । सर्वश्रेष्ठा कृतिः ‘भक्तचिन्तामणिः’ ‘पुरुषोत्तमप्रकाशः’ च वर्तते । आजीवनं ग्रन्थप्रीतिं धारयन् सः काष्ठकलाक्षत्रेऽपि सम्प्रदायस्य अमूल्यां सेवां चकार । तेन कृता शिल्पकला धोलेराग्रामस्य स्वामिनारायणमन्दिरे दृश्यते । तत्र अद्यापि स्वामिना रचितानि तोरणानि वर्तन्ते । अस्मिन्नेव मन्दिरे सेवारतः सः वि.स. १९०९ तमे वर्षे देहत्यागम् अकरोम् ।
प्रसिद्धाः कृतयः
[सम्पादयतु]१. पुरुषोत्तमप्रकाशः २. भक्तिनिधिः ३. हरिबलगीता ४. वचनविधः ५. यमदण्डः ६. लग्नशुकनावलिः ७. चोसठपदी ८. मनगञ्जन ९. भक्तचिन्तामणिः १०. वृत्तिविवाहः ११. हरिस्मृतिः १२. सारसिद्धिः १३. स्नेहगीता १४. धीरज-आख्यानम् १५. दयप्रकाशः १६. हरिविचरणम् १७. गुणग्राहकः १८. कल्याणनिर्णयः १९. अरजीविनयः २०. विह्नविन्तामणिः २१. पुष्पचिन्तामणिः २२. शिक्षापत्री पद्यरूपा २३. अवतारचिन्तामणिः इत्यादयः ।