सामग्री पर जाएँ

नीलेश डि ठाकरे

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः



सङ्केतः

[सम्पादयतु]

नीलेशः .डि. ठाकरे

जनकः डि . ठाकरे
वासः- कालेज् मार्गः, विद्यानगरविस्तरणम्, ब्रह्मपुरी
मण्डलम् -चन्द्रपुरम्
राज्यम्-महाराष्ट्रम्

महाराष्ट्रराज्ये चन्द्रपुरम् इति एकं मण्डलम् अस्ति । ब्रह्मपुरी अस्मिन् मण्डले अस्ति । अस्मिन् पत्तने विद्यानगरे एकः महाविद्यालयः अस्ति । तस्य महाविद्यालयस्य क्रीडाङ्गणे, तस्य एव महाविद्यालयस्य द्वौ छात्रौ सागर रोडे तथा तस्य वयस्यः द्विचक्रिकायानेन अभ्यासं कुरुतः स्म। एकमासस्य शिक्षणं तेषाम् । २०-१२-१९८६ तमे दिनाङ्के , सागररोडे तथा तस्य वयस्यः विद्यालयस्य क्रीडाङ्गणे यथेष्टं द्विचक्रिकायानं चालितवन्तौ । तयोः उत्साहस्य मितिः एव नासीत् । तद्दिने मध्याह्ने अधिका वृष्टिः आसीत् । क्रीडाङ्गणे सर्वत्र जलम् । क्रीडाङ्गणस्य एकस्मिन् पार्श्वे एकः गभीरः तथा विशालः गर्तः आसीत्। सः च गर्तः वृष्टिजलेन पूर्णः आसीत्। परन्तु तौ एतत् न ज्ञातवन्तौ।

मित्रप्रेम

[सम्पादयतु]

जलं स्वसमतलं रक्षति । कोऽपि मनुष्यः स्वकार्येण यदि उत्तमं फलं प्राप्नोति तर्हि तदेव कार्यं कर्तुं पुनः पुनः उत्सहते। तौ द्वौ अपि बालकौ क्रीडाक्षेत्रे , मार्गे , पादाचरिमार्गे च स्वयानं चालयन्तौ,उपरि आगतेन जलेन सन्तोषम् अनुभवन्तौ गच्छतः स्म। तौ निश्चितवन्तौ यत् वेगेन क्रीडाक्षेत्रे यानेन गत्वा तस्य अपरपार्श्वं प्राप्नुमः इति । अन्यद् कारणं नाम चालनसमये उपरि यद् जलम् आगच्छति तस्य सेचनेन आनन्दः भवति इति। एवम् निश्चित्य एकस्मात् भागात् अन्यं भागं वेगेन स्वद्विचक्रिकया गन्तुं सज्जौ । तौ न ज्ञातवन्तौ यत् मार्गस्य सम्यक् परिचयः यदि न भवति तर्हि अपायः भवत्येव इति। अग्रे सागररोडे आसीत् । वेगेन वाहनचालनावसरे सः गर्ते पतितः, जले निमग्नः च । तस्य वयस्यः अनुक्षणं स्वद्विचक्रिकाम् अवरुद्ध्य अवतीर्य किङ्कर्तव्यविमूढः अभवत् । तस्य गर्तस्य अनतिदूरे क्रीडन् आसीत् नीलेश .डि. ठाकरे (तस्य जननम्८-८-१९७४ तमे दिनाङ्के) । एतां घटनां दृष्ट्वा सः गर्तस्य समीपं गत्वा आक्रोशनं कृतवान् । "आगच्छन्तु, प्रधाव्य आगच्छन्तु, बालकः गर्ते पतितः, रक्षन्तु” इति। जले पतितः प्रायः द्वित्रवारं किञ्चित् उपरि आगच्छति, अनन्तरमेव निमज्जति । परन्तु सागर् रोडे तावत् उपरि नागतवान् । तस्य उपरि द्विचक्रिका पतिता आसीत् अतः सः एकवारमपि उपरि नागतवान्।

श्वासकोशे जलं पूरितम् अतः सः जले निमग्नः आसीत् । सागरः उपरि आगच्छति इति मत्त्वा नीलेशः जलं प्रविष्टवान् । जले तरन् सह सागरस्य निरीक्षायां कञ्चित् कालं यापितवान्। परन्तु सागरः उपरि नागतवान् । नीलेशः जले अवगाहनं न जानाति स्म । सागरः जले कुत्र अस्ति इति न ज्ञातवान् सः । जलस्य तले कुत्र निमग्नः इति प्रश्नः आसीत् । तरन् सः अन्विष्टवान् । परन्तु वृष्टिकारणतः जलस्य वर्णः अपि परिवर्तितः आसीत् । एतेन तं द्रष्टुं सः कष्टम् अनुभूतवान् । नीलेशः कुत्र अस्ति इति ज्ञातुं पादेन एव इतः ततः अन्वेषणं कर्तुं प्रयत्तवान् । परन्तु जलस्य आधिक्येन सः कुत्र पतितः इति नावगतवान्।

तावता नीलेशस्य आक्रोशनं श्रुत्वा जनाः प्रधाव्य तत्र आगतवन्तः। येषां जले निमज्जनज्ञानम् आसीत् ते तत्र गत्वा सागरम् उन्नीतवन्तः। प्रथमचिकित्सां कृत्वा देहस्य अन्तः प्रविष्टं जलं बहिः निष्कासितवन्तः। परन्तु श्वसनं नारब्धम्। केचन वैद्यम् आनेतुं धावितवन्तः। द्वौ वैद्यौ आगत्य तस्य चिकित्सां कृतवन्तौ। तथापि सागरः न उज्जीवितः। नीलेशः सागरस्य प्राणान् रक्षितुं समर्थः नाभवत् । तथापि यथाशक्ति स प्रयत्तवान् । आक्रोशनं कृतवान् । सागरः उपरि आगच्छेत् इति निरीक्षां कृतवान् । यदा सः दृष्टवान् सः स्वपादेन एव जले इतः ततः चालयन् अन्वेषणं कर्तुं प्रयत्नं कृतवान् । तस्य आक्रोशनेन जनाः तत्र आगत्य तम् उपरि आनेतुं साहाय्यं कृतवन्तः। नीलेशस्य गुणं सर्वे प्रशंसितवन्तः। सागरस्य प्राणरक्षणे तेन कृतान् प्रयत्नान् प्रशंस्य भारतस्य बालकल्याणमण्डली १९८७ तमे वर्षे एतं साहसप्रशस्त्यर्थम् एतं चितवती। २५-१-१९८८ तमे दिने एषः अस्माकं प्रधानमन्त्रिणः हस्ततः प्रशस्तिं पदकं इन्दिराविकासपत्रं च स्वीकृतवान्। ""

"https://sa.wikipedia.org/w/index.php?title=नीलेश_डि_ठाकरे&oldid=406470" इत्यस्माद् प्रतिप्राप्तम्