न च मत्स्थानि भूतानि...
दिखावट
श्लोकः
[सम्पादयतु]अयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- न च मत्स्थानि भूतानि पश्य मे योगमैश्वरम् ।
- भूतभृन्न च भूतस्थो ममात्मा भूतभावनः ॥ ५ ॥
अयं भगवद्गीतायाः नवमोध्यायस्य राजविद्याराजगुह्ययोगस्य पञ्चमः(५) श्लोकः ।
पदच्छेदः
[सम्पादयतु]न च मत्स्थानि भूतानि पश्य मे योगम् ऐश्वरम् भूतभृत् न च भूतस्थः मम आत्मा भूतभावनः ॥ ५ ॥
अन्वयः
[सम्पादयतु](वस्तुतः) भूतानि मत्स्थानि न । भूतभृत् च भूतभावनः च मम आत्मा भूतस्थः न । ऐश्वरं मे योगं पश्य ।
शब्दार्थः
[सम्पादयतु]- भूतानि = सकलवस्तूनि
- न च = न अपि
- मत्स्थानि = मयि स्थितानि
- भूतभृत् = भूतधृत्
- भूतस्थः = भूतस्थितः
- न च = न अपि
- मम = मे
- आत्मा = स्वरूपम्
- भूतभावनः = भूतोवकरः
- मे = मम
- ऐश्वरम् = असाधारणम्
- योगम् = अघटितघटनाचातुर्यम्
- पश्य = अवलोकय ।
अर्थः
[सम्पादयतु]यद्यपि अहं भूतानि सृजामि, तानि धारयामि तथा पालयामि इति तानि भूतानि मयि सन्ति इति सर्वे निर्णयन्ति, तथापि सरहितत्वात् भूतानि मयि न सन्ति इति वस्तुस्थितिः । इदमेव मम अघटित - घटनाचातुर्यरूपम् ऐश्वर्यम् । तदेव मम मायावैभवम् ।