सामग्री पर जाएँ

न द्वेष्ट्यकुशलं कर्म...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


श्लोकः

[सम्पादयतु]
गीतोपदेशः
न द्वेष्ट्यकुशलं कर्म कुशले नानुषज्जते ।
त्यागी सत्त्वसमाविष्टो मेधावी छिन्नसंशयः ॥ १० ॥

अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य दशमः(१०) श्लोकः ।

पदच्छेदः

[सम्पादयतु]

न द्वेष्ट्यकुशलं कर्म कुशले न अनुषज्जते त्यागी सत्त्वसमाविष्टः मेधावी छिन्नसंशयः ॥

अन्वयः

[सम्पादयतु]

सत्त्वसमाविष्टः छिन्नसंशयः मेधावी त्यागी अकुशलं कर्म न द्वेष्टि । कुशले न अनुषज्जते ।

शब्दार्थः

[सम्पादयतु]
सत्त्वसमाविष्टः = सत्त्वोद्रेकसम्पन्नः
छिन्नसंशयः = अपगतसन्देहः
मेधावी = बुद्धिमान्
अकुशलम् = अशोभनम्
कुशले = शोभने
अनुषज्जते = प्रीतिं करोति ।

सत्त्वगुणेन आविष्टः यः पुरुषः सः शैत्यकाले यत् प्रातःस्नानादि क्लेशकरं कर्म वर्तते तत्र न द्वेषं करोति, ग्रीष्मकाले तादृशमेव यत् सुखकरं कर्म वर्तते तत्र न प्रीतिं भजते । सः एव त्यागी, सः एव प्राज्ञः, स एव च सन्देहरहितः ।

सम्बद्धसम्पर्कतन्तुः

[सम्पादयतु]

सम्बद्धाः लेखाः

[सम्पादयतु]