न मे विदुः सुरगणाः...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


श्लोकः[सम्पादयतु]

गीतोपदेशः
न मे विदुः सुरगणाः प्रभवं न महर्षयः ।
अहमादिर्हि देवानां महर्षीणां च सर्वशः ॥ २ ॥

अयं भगवद्गीतायाः दशमोऽध्यायस्य विभूतियोगस्य द्वितीयः(२) श्लोकः ।

पदच्छेदः[सम्पादयतु]

न मे विदुः सुरगणाः प्रभवं न महर्षयः अहम् आदिः हि देवानां महर्षीणां च सर्वशः ॥ २ ॥

अन्वयः[सम्पादयतु]

सुरगणाः मे प्रभवं न विदुः, महर्षयः न । अहं हि सर्वशः देवानां महर्षीणां च आदिः ।

शब्दार्थः[सम्पादयतु]

सुरगणाः = देवसङ्घाः
मे = मम
प्रभवम् = उत्पत्तिस्थानम्
न विदुः = न जानन्ति
महर्षयः न = महामुनयः न जानन्ति
हि = यस्मात्
अहम् = अहम् एव
सर्वशः = सर्वेण प्रकारेण
देवानाम् = सुराणाम्
महर्षीणां च = महामुनीनां च
आदिः = मूलकारणम् ।

अर्थः[सम्पादयतु]

मम उत्पत्तिस्थानं देवसङ्घाः न जानन्ति । महामुनयः न जानन्ति । यतः अहं सर्वेण प्रकारेण देवानां महामुनीनां च आदिमः ।

रामानुजभाष्यम्[सम्पादयतु]

सुरगणा महर्षयश्चातीन्द्रियार्थदर्शिनोऽधिकतरज्ञाना अपि मे प्रभवं प्रभावं न विदुम्, मम नामकर्मस्वरूपस्वभावादिकं न जानन्ति । यतस्तेषां देवानां महर्षीणां च सर्वशोऽहमादिम्, तेषां स्वरूपस्य ज्ञानशक्त्यादेश्चाहमेवादिम् । तेषां देवत्वदेवऋषित्वादिहेतुभूतपुण्यानुगुणं मया दत्तं ज्ञानं परिमितम्, अतस्ते परिमितज्ञाना मत्स्वरूपकादिकं यथावन्न जानन्ति ॥१०.२॥

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=न_मे_विदुः_सुरगणाः...&oldid=418629" इत्यस्माद् प्रतिप्राप्तम्