पक्षधरमिश्रः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search

श्रीपक्षधरमिश्रो नवीनशैलीतः प्रगतिशील एको महान् तावत्कालीनोद्भट विद्वानासीत् । श्रूयते यत् पक्षधरमिश्रस्यैवाऽपरं नाम जयदेवोऽप्यासीत्, अतः पक्षधरमिश्र, जयदेवमिति नामधेयद्वयमेकस्यैव व्यक्तिविशेषस्य प्रतीयते ( सुनिश्चीयते )।

श्रीमिश्रविषये चास्त्येका किंवदन्ती यत्-श्रीमिश्रस्य स्थितिर्यदा गर्भे एवाऽऽसीत् तदाऽस्य पितुः दक्षिणदेशवासिना वेदान्तशास्त्रस्याऽपूर्वेण विदुषा श्रीहंसभटटेन सह शास्त्रार्थो जातः, स च पूनादेशनरेशस्य राज्ये एव सम्पन्नो ऽभूदिति श्रूयते । तत्र च पक्षधरस्य पिता हंसभट्टेन जायमानशास्त्रार्थे परा जितोऽभूत् । तादृशपराजयेन महदुःखं समनुभवन्नस्य पिता मार्गे एव खलु गतासुर्जातः । मृत्योः कतिपयक्षणेभ्यः प्राक्कालावच्छेदेनैव श्रीमिश्र-पितृदेवः स्वसहाऽवस्थितं छात्रं प्रति प्रोवाच-यत्त्वं गृहं गत्वा स्वीयां 'गुरुपत्नीस्वरूपां मातरं प्रति सर्वमपीदं वृत्तं सम्यक निवेदय (श्रावयेत्यर्थ.) । तेन चान्तेवासिनापि सर्वं वृत्तं गृहं गत्वा श्रावितम् । तदनन्तरं समुत्पन्नोऽतीव परमवैदुष्यपूर्णो महो द्भट विद्वान् श्रीपक्षधरमिश्रः सकलं समाचारं श्रुत्वा महद् दुःखं समनुभूतवान् । प्रतिज्ञातवांश्च यद् यादृशं खल्वद्वैतवादमाश्रित्य मदीयं पितृचरणं पराजितवान् हंसभट्टः, अहमपि तमेव विषयं समाश्रित्य तत्रैव राज्ये पराजेष्यामि हंसभट्टम् इति।

पक्षधरमिश्रः स्वीयपितृव्यचरणयोः सन्तिष्ठमानो निजमखिलमध्ययनं समाप्त वान्, तथा लोकोत्तरमनुपममद्भुतं वैदुष्यञ्च समवाप्तवान् ।।

पूर्णवैदुष्यसमवाप्त्यनन्तरमेकस्मिन् दिने किं जातं यत्-श्रीपक्षधरमिश्र आवश्यक कार्यवशात् पूनाप्रदेशं गतवान् । अकस्मादेव तत्र हंसभट्टेन विदुषा शास्त्रार्थस्य कारणसामग्री समुपस्थिताऽभूत् । तदा हंसभट्टशिष्यो ब्रूते -

'पलायध्वं पलायध्वं रे रे बर्बरताकिकाः !

हंसभट्टः समायाति वेदान्तवनकेसरी ॥'

पक्षधरमिश्रोऽप्याह -

'भिनत्तु सिंहः करिराजमस्तकं करोतु वासं गिरिगह्वरेषु ।

तनोतु वेगं पवनातिरेकं तथापि सिंहः पशुरेव नान्यः ॥'

तदनन्तरं तत्रैव पूनाराज्ये द्वयोर्वाचा सङ्घर्षपूर्वकं वाचनिकं शास्त्रार्थ क्षणलक्षितं तुमुलं वाग्युद्धं समभूत् ।

हंसभट्टः-त्वयोक्तपूर्वश्लोकघटकीभूतः कोऽसौ ‘पशु'रित्युच्यताम् ।

पक्षधरमिश्रः-पशुत्वजात्यवच्छिन्नो व्यक्तिविशेष एव पशुः । लोमवल्ला गूलवानेव वा पशुरित्यपि व्याहतुं शक्यते ।

हंसभट्टः-का सा जातिः-यां जातिमाश्रित्य सर्वेषां पशूनां बोधो सुगमतया भवति, भवितुं वा शक्नोति ?

पक्षधरमिश्रः-नित्या सती पशोरितरव्यक्त्यवृत्तित्वमापन्ना च सती सकल पशुमात्रनिरूपितवृत्तितावती जातिः ( पशुत्वरूपा )।

हंसभट्टः- 'एकमेवाऽद्वितीयं नेह ना नास्ति किञ्चन' इत्यादिश्रुत्यनुरोधेन ब्रह्मणोऽतिरिक्तस्य सर्वस्यापि प्रपञ्चस्य मिथ्यात्वेन अनित्यत्वं सिद्धयति । तथा 'सत्यं ज्ञानमनन्तं ब्रह्म', 'नित्यं विज्ञानमानन्दं ब्रह्म' इत्यादिश्रुतयश्च ब्रह्मणो नित्यत्वं कथयन्ति ।

पक्षधरमिश्रः—'एकमेवाऽद्वितीयम्' इत्याद्यद्वैतबोधिकाश्च श्रुतयः भेदं, भेद व्याप्यद्वैतपक्षमेव समर्थयन्ति । यतोऽस्माकं बाबाविश्वनाथोऽप्येक एव तथा तत् सजातीयद्वितीयरहितत्वेन चाऽद्वितीयोऽपीति मन्तव्यम् । अपि च

प्रत्यक्षादिप्रमाणसिद्धविरुद्धार्थप्रबोधकः

वेदान्तो यदि शास्त्रं स्याद् बौद्धैः किमपराध्यते ॥

भवता प्रतिपादितं जगतो मिथ्यात्वमपि नैव साधु सङ्गच्छते । यतः -

'तस्माद् यन्नास्ति नास्त्येव यत्त्वस्ति परमार्थतः ।'

श्रुतयोऽपि सर्वा एव द्वैतपरा भेदपराश्च बोध्याः ।।

इत्थञ्च ब्रह्मणो व्यतिरिक्तं किमपि नास्ति यच्चास्ति तत् सर्वं मिथ्या भूतमेवेति यदस्ति ते कथनं तत् सर्वं धूल्याक्षेपायितमेवेति विभाव्यताम् ।

एवं वदता महाविदुषा श्रीपक्षधरमिश्रेण वेदान्तवनकेसरी हंसभट्टः सर्वथा समाधानशून्यो व्यधायीति तत्र पूनाराज्ये विदुषां समुदाये च श्रीमिश्रो महतीं प्रतिष्ठां लब्धवान् ।

श्रीमिश्रश्चिन्तामणेरुपरि 'आलोक'-टीकाविधानेन सकलविश्वतः समस्त मपि न्यायशास्त्रीयमन्धकारं दूरीकृतवान् । नैतावन्मानं पर्याप्तं न्यायशास्त्रीय ग्रन्थेषु स्वीयस्वतन्त्रविचारधारावत्त्वेऽपि शास्त्रार्थेऽपि विलक्षणपाण्डित्यपरि पूर्णत्वेन महानेवाऽलौकिकोऽद्भुत विद्वानासीत् । तथा चोक्तम्

'शङ्करवाचस्पत्योः सदृशौ शङ्करवाचस्पती।

पक्षधरप्रतिपक्षी लक्ष्यीभूतो न च क्वापि' ।

श्रीपक्षधरमिश्री मिथिलादेशस्थानीय आसीत् । अधुनातनकालावच्छेदेनापि श्रीपक्षधरस्य विषयेऽस्त्येकेदृशी किंवदन्ती यदिमे श्रीमिश्रमहोदया वारमेकमे कस्मिन् जायमाने शास्त्रार्थे ( शास्त्रीये विचारे ) वक्तुं प्रेरिताः । श्रूयते यदस्य श्रीमिश्रमहोदयस्यैकपक्षपर्यन्तमेकमेव विषयं समवलम्ब्य वक्तृत्वेन 'पक्षधरे'ति नामकरणं जातम् । यथा पलायनकूर्दनेत्यादि कर्मकर्तुः कस्यचिद् व्यक्तिविशेषस्य 'कुद्' इति नामधेयम् उपनामधेयं वा भवति । तत्त्वतो विचार्यमाणे 'पक्षधर' इति भवत्युपनामधेयम् । तद्वदेव हि 'कुत्' इत्यपि उपनामधेयमस्तीति विज्ञेयम् ।

अतएवेदानीमिदमपि सत्यं प्रतीयते यत अस्य श्रीमिश्रस्य पर्वकालीनं नामधेयं 'श्रीजयदेव' एवाऽऽसीत् न तु ‘पक्षधरे'ति ।

केषाञ्चिद् विदुषामिदमप्यस्ति कथनं यत्—'चन्द्रालोक'-ग्रन्थनिर्मातुर्जयदेव स्यैव नामधेयं 'पक्षधरे'त्यासीत्, नत्वेतदतिरिक्तोऽन्यः कश्चन प्रतीयते पक्षधरः ।

अन्येषाञ्च विद्वन्मतल्लिकानां विदुषामिदमस्ति निगदनं यच्छरीरद्वयाव च्छिन्नौ 'प्रत्युच्चारणं शब्दो भिद्यते' इति नियमात्-नामद्वयधारिणौ व्यक्ति विशेषाविमौ भिन्न भिन्नावेव स्तः ।

इदञ्चास्ति सर्वथा प्रमात्मकं ज्ञानं यदयं श्रीपक्षधरमिश्रश्वासीत् न्याय शास्त्रस्य लोकोत्तरप्रतिभा, विद्वत्ता परिपूर्णश्चाऽसाधारणो महान् विद्वान् इति । अयञ्च न्यायशास्त्रविषयकोऽलौकिकप्रतिभाससम्पत्तिरूपो गुणस्तथाऽसाधारणञ्च न्यायशास्त्रविषयकं वैदुष्यं स्वभावसिद्धं जन्मजातञ्चासीदिति सर्वेऽपि विदाङकुर्वन्ति दर्शनशास्त्रवेत्तारो विशेषतश्च न्यायशास्त्रवेत्तार इति ।

इतोऽतिरिक्तं साहित्यशास्त्रेऽप्यस्य श्रीपक्षधरमिश्रस्याऽलौकिकं महत्त्वपूर्ण वैदुष्यमासीदित्यपि न तिरोहितमस्ति केषामपि विदुषाम् । अयञ्च श्रीमिश्रमहा नुभावः साहित्यशास्त्रेऽपि 'प्रसन्नराघव'-नामक ग्रन्थं लिखितवान् ।

अपि च 'स्वर्णे सुगन्धः' इति न्यायेन नैयायिकशिरोमणिः कल्पनाधिनाथो रघुनाथोऽप्यस्य श्रीमिश्रस्य न्यायशास्त्रे यशोवर्धन, तत्परिवर्धनपरो भूत्वा चाऽस्याऽसाधारणप्रतिभायां महत्त्वपूर्णे च वैदुष्ये नूतनमाविष्कारं दर्शितवान्, संस्थापितवांश्च ।

अस्य श्रीमिश्रस्य विषयेऽयमप्यस्त्येको महत्त्वपूर्णो विषयः-यत् सार्वभौम श्रीवासुदेवस्य पार्वेऽध्ययनशीलस्याऽस्य श्रीरघुनाथशिरोमणेः समस्तन्याय शास्त्राऽध्ययनसम्पादनानन्तरमपि पूर्णसन्तुष्टेरजायमानत्वेन पुनरध्ययनकामोऽयं श्रीशिरोमणिः श्रीमिश्रस्य पार्वे मिथिलां गतवान् । महदेव काठिन्यं समनुभवन् खल्वयं श्रीशिरोमणिः श्रीमिश्रस्य सान्निध्यं समवाप्तवान् । श्रीमिश्रनिरूपित सान्निध्यसमवाप्त्यनन्तरं श्रीपक्षधरमिश्रोऽपि तनिष्ठमंधिकारित्वञ्च विज्ञाय न्यायशास्त्रीयपदार्थविषयेऽस्य सर्वा अपि हृदयग्रन्थीनिराकुर्वन् तत्रत्यान् सर्व संशयांश्च छेदनभेदनतां नयमानस्तदीयं न्यायशास्त्रसम्बन्ध्यलौकिकं पाण्डित्यं सम्पादितवान् ।

अतस्तात्त्विकदृष्ट्या विचार्यमाणे श्रीपक्षधरमिश्रस्य कृते महानैयायिक शब्दप्रयोगो नातिशयोक्ति धत्तेऽतस्तदस्ति सर्वथा भूषणं न तु दूषणम्, यतस्तस्य प्रयोगस्य वास्तविकताद्योतकत्तात् ।

अस्य महानैयायिकत्वद्योतकं प्रमाणान्तरमप्यस्ति यत्- 'अत्र मिश्रानुया यिनः' इत्यादि गादाधरी-प्रामाण्यवादग्रन्थमाश्रित्य दीयमानायाः संशयपद व्यावृत्तेर्जटिलतायाः कठिनतायाश्चाऽनुभवेनापि सुस्पष्टमिदं विज्ञायते यत् श्रीपक्षधरमिश्रोऽवश्यमेव महानैयायिक आसीत् इत्यस्य तत्प्रयोगः साधुः सङ्गच्छते ।

एवं पक्षताग्रन्थस्य 'संशय' एवं 'संशययोग्यता' घटितकल्पोऽपि श्रीमिश्रस्य पाण्डित्यनिष्ठं महत्त्वं महानैयायिकत्वञ्च सूचयति द्योतयति च ।

बारमेकं श्रीपक्षधरमिश्रस्य श्रीशङ्करमिश्रेण सह वाक्सङ्घर्षो जातः । श्रीमिश्रो हस्तिनमारुह्य यदा स्वीयं कमपि सम्बन्धिनं साक्षात्कर्तुं ग्रामान्तरं गच्छन्नासीत् तदा स मार्गः संयोगवशात् श्रीशङ्करमिश्रस्य द्वारत एव समा गच्छति स्म, श्रीशङ्करमिश्रश्च तत्रैव सन्तिष्ठमान आसीत् ।

पक्षधरमिश्रश्चाऽभिमानवशात् आहोस्वित् मानसिकवृत्तीनां शास्त्रीयपदार्थ चिन्तासन्तानसंलग्नरूपकारणवशात् श्रीशङ्करमिश्रं न ननाम, नापि च यात्रा पूरकहस्तिवाहनतोऽधस्तादेवाऽवतीर्याऽधोदेशसंयोगं विहितवान्, यतः श्रीशङ्कर मिश्रस्य तदपेक्षया ज्येष्ठत्वात्, अत उभयत्वावच्छिन्नकार्यविधानस्य नितान्त मावश्यकत्वेन तदभावदर्शनात् श्रीशङ्करमिश्रस्याऽऽवेशो जातः । आवेशावच्छिन्न एव श्रीशङ्करमिश्रः प्रोवाच यत्

उच्चैः पतनम् ।

उत्तरम्-तहि ध्रु वे व्यभिचारः ।

शङ्करः-सोऽपि पतिष्यत्येव ।

पक्षधरः-प्रागभावे मानाभावः ।

शङ्करः-त्वं गौः, अर्थात् मूर्खः ।

पक्षधरः-

'किं गवि गोत्वमुताऽगवि गोत्वं चेद् गवि गोत्वमनर्थकमेतत् ।

भवदभिलषितमगोरपि गोत्वम्भवतु भवत्यपि सम्प्रति गोत्वम् ।।

एवं क्रमेणाऽयं विचारो महानेव लम्बायमानो जातोऽतः सर्वस्यापि शास्त्रार्थ लक्षणलक्षितस्य विचारस्याऽत्र समुल्लेखविधाने गुरुतरभारगभितोऽयं ग्रन्थः स्यात् । स चाऽत्र प्रकाशकेन ग्रन्थगौरवभिया निषिद्धः ।

अयमस्ति श्लोकार्थः-'गौ'रित्यस्य गोत्वविशिष्टोऽर्थः । पृच्छति पक्ष धरः-कि गवि गोत्वं वर्तते गोभिन्ने वा गोत्वमस्तीत्युच्यताम् ? यदि गवि ( गोत्वविशिष्टे ) गोत्वं वर्तते, तहि भवत्यात्माश्रयो दोषः । तदेवोक्तं 'चेद् गवि गोत्वमनर्थकमेतत्' । यदि च अगवि ( गोभिन्ने ) गोत्वं वर्तते इत्युच्यते, तदा भवतोऽपि गोभिन्नत्वात् भवत्यपि गोत्वस्य सत्त्वेन, यथा मयि भवता गोत्व मुच्यते तथा भवानपि गौरित्यर्थः । तदा तु समानो दोषः-इति तु परमार्थः ।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=पक्षधरमिश्रः&oldid=458091" इत्यस्माद् प्रतिप्राप्तम्