पञ्चाङ्गम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


तिथिवारकरणयोगनक्षत्राणि पञ्चाङ्गानि भवन्ति। अस्मिन् भारतदेशे हैन्दवाः वेशेषतया शुभाशुभकार्येषु पञ्चाङ्गानाम् उपयोगं कुर्वन्ति।
तिथेश्च श्रियमाप्नोति वारादायुष्यवर्धनम्।
नक्षत्रात् हरते पापं योगात् रोगनिवारणम् ।।
करणात् कार्यसिद्धिः स्यात् पञ्चाङ्गफलमुत्तमम्।
एतेषां श्रवणान्नित्यं गङ्गास्नानफलं भवेत् ।।
प्रतिनित्यम् एतेषां श्रवणेन गङ्गास्नानफलं लभ्यते इति पूर्विकाणां विद्वत्तल्लजानाम् आशयः। प्रत्येकस्य अङ्गस्य श्रवणेन कानि कानि फलानि लभ्यन्ते इत्यपि अस्मिन् श्लोके वर्णितं दृश्यते। तिथेः श्रवणेन श्रियमाप्नोति। वारात् आयुष्यवर्धनं भवति। नक्षत्रात् पापं हरति । योगात् रोगनिवारणं भवति। करणात् कार्यसिद्धिः भवति। एवं पञ्चाङ्गानां श्रवणेन उत्तमोत्तमफलानि लभ्यन्ते।

तिथिः[सम्पादयतु]

प्रतिपच्च द्वितीया च तृतीया च चतुर्थिका।
पञ्चमी च तथा षष्ठी सप्तमी चाष्टमी तथा॥१॥
नवमी सा तिथिः प्रोक्ता दशम्यैकादशी तथा।
द्वादशी च तथा प्रोक्ता तथा चैव त्रयोदशी॥२॥
चतुर्दशी पूर्णिमा चाप्यमावास्या तिथयः षोडशस्मृताः।
१.प्रतिपत् २. द्वितीया,३. तृतीया, ४. चतुर्थी, ५.पञ्चमी, ६.षष्ठी, ७.सप्तमी, ८.अष्टमी, ९.नवमी, १०.दशमी, ११.एकादशी, १२.द्वादशी, १३.त्रयोदशी, १४.चतुर्दशी, १५.पूर्णिमा, १६.अमावास्या इति षोडशस्मृताः तिथयः।

  • ३० तिथयः इत्यपि कथयन्ति। शुक्लपक्षस्य (१५) पञ्चदश तिथयः। कृष्णपक्षस्य (१५) पञ्चदश तिथयः।

वासरः[सम्पादयतु]

भानुश्च सोमवारश्च मङ्गलो बुधसंज्ञकः।
बृहस्पतिश्शुक्रशनी सप्तवाराः प्रकीर्तिताः॥
१.भानुवासरः, २.सोमवासरः, ३.मङ्गलवासरः, ४.बुधवासरः, ५.गुरुवासरः, ६.शुक्रवासरः, ७.शनिवासरः इति सप्तवासराः सन्ति।

नक्षत्रम्[सम्पादयतु]

अश्विनी भरणी चैव। कृत्तिका रोहिणी तथा॥१॥
मृगशीर्षा च आरिद्रा तथैव च पुनर्वसु।
पुष्यम्याश्लेषपितृभं फल्गुनीजोत्तरा तथा॥२॥
हस्त-चित्त-स्वातिभं च विशाखाभिदमेव च।
अनूराधा-ज्येष्ठ-मूल-पूर्वाषाढस्तथैव च॥३॥
उत्तराषाढ-विष्णुश्च धनिष्ठा शततारकम्।
पूर्वाभाद्रोत्तराभाद्र रेवती ऋक्षमेव च॥४॥
१.अश्विनी, २.भरणी, ३.कृत्तिका, ४.रोहिणी ५.मृगशीर्षा, ६.आद्रा, ७.पुनर्वसू, ८. पुष्यः, ९.आश्लेषा, १०. मघा, ११.पूर्वफल्गुनी, १२.उत्तरफल्गुनी, १३.हस्ता, १४.चित्रा, १५.स्वाती, १६.विशाखा, १७.अनुराधा, १८.ज्येष्ठा १९.मूला, २०.पूर्वाषाढा, २१.उत्तराषाढा, २२.श्रवणा, २३.धनिष्ठा, २४.शततारा, २५.पूर्वाभाद्रा, २६.उत्तराभाद्रा, २७.रेवती इति २७ नक्षत्राणि भवन्ति।

योगः[सम्पादयतु]

विष्कम्भः प्रीतिरायुष्मान् सौभाग्यश्शोभनस्तथा।
अतिगण्डः सुकर्मा च धृतिः शूलस्तथैव च॥१॥
गण्डो वृद्धिः धृवश्चैव व्याघातो हर्षणस्तथा।
वज्रसिद्धिव्यतीपाताः वरीयान् परिघश्शिवः॥२॥
सिद्धः साद्ध्यः शुभः शुक्लः ब्रह्म ऐन्द्रश्च वैधृतिः ।
एते योगास्तु विज्ञेयाः सप्तविंशतिसंख्यकाः॥३॥
१.विष्कम्भः, २.प्रीतिः, ३.आयुष्मान्, ४.सौभाग्यः, ५.शोभनः, ६.अतिगण्डः, ७.सुकर्मा, ८.धृतिः, ९.शूलः, १०.गण्डः, ११.वृद्धिः, १२.धृवः, १३.व्याघातः, १४.हर्षणः, १५.वज्रः, १६.सिद्धिः, १७.व्यतीपातः, १८.वरीयान्, १९.परिघः, २०.शिवः, २१.सिद्धः २२.साद्ध्यः २३.शुभः, २४.शुक्लः, २५.ब्रह्मा, २६.ऐन्द्रः, २७.वैधृतिः इत्येते २७ योगाः विज्ञेयाः भवन्ति।

करणः[सम्पादयतु]

बवश्च बालवश्चैव तैतिलो गरजो वणिक्।
भद्रश्च शकुनिश्चैव चतुष्पान्नागवांस्तथा॥१॥
किंस्तुघ्नमितिचैवोक्ता करणैकादशस्मृताः ॥२॥
१.बवः, २.बालवः, ३.तैतिलः, ४.कौलवः, ५.गरजः, ६.वणिक्, ७.भद्रः, ८.शकुनिः ९.चतुष्पात्, १०.नागवान्, ११.किंस्तुघ्नम् इति ११ करणाः सन्ति।

"https://sa.wikipedia.org/w/index.php?title=पञ्चाङ्गम्&oldid=395536" इत्यस्माद् प्रतिप्राप्तम्