सामग्री पर जाएँ

पण्डितः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

पण्डितः स उच्यते यो विद्यार्थमैश्वर्यमेव महान्तमासाद्यः असमुन्नद्धो विचरति।

पण्डितप्रतिमा
पाकिस्थानस्था पण्डितप्रतिमा एषा।

शब्दोत्पत्तिः

[सम्पादयतु]

पण्डा वेदोज्ज्वला बुद्धिर्जातास्येति यद्वा पण्ड्यते तत्त्वज्ञानं प्राप्यतेऽस्मात् । गत्यर्थेति क्तः। पुल्लिङ्गं शब्दः अयम्। तत्पर्य्यायः । विद्वान् २ विपश्चित् ३ दोषज्ञः ४ सन् ५ सुधीः ६ कोविदः ७ बुधः ८ धीरः ९ मनीषी १० ज्ञः ११ प्राज्ञः १२ संख्यावान् १३ कविः १४ धीमान् १५ सूरिः १६ कृती १७ कृष्टिः १८ लब्धवर्णः १९ विचक्षणः २० दूरदर्शी २१ दीर्घदर्शी २२ । इत्यमरः । २ । ७ । ५-६ ॥

धीरो धीमान् लब्धवर्णो विपश्चिद्,
वृद्धो विद्वान् प्राप्तरूपोऽभिरूपः ।
सूरिः प्राज्ञः पण्डितः सन्मनीषी,
ज्ञो दोषज्ञः कोविदः स्यात्प्रबुद्धः ॥ ३३२ ॥
बुधः सुधीः कृती कृष्टिः कविर्व्यक्तो विशारदः ।
विचक्षणश्च मेधावी संख्यावान्मतिमान्मतः ॥ ३३३ ॥

इति अभिधानरत्नमाला २।१।१।३३२॥

विशारदः २३ । कवी २४ सूरी २५ । इति भरतः ॥ विदग्धः २६ दूरदृक् २७ वेदी २८ वृद्धः २९ बुद्धः ३० विधानगः ३१ प्रज्ञिलः ३२ कृस्निः ३३ । इति शब्दरत्नावली ॥ विज्ञः ३४ मेधावी ३५ । इति राजनिर्घण्टः ॥ सिह्लकः । इति मेदिनी ॥ सर्व्वज्ञत्वात् महादेवः । यथा, महाभारते ।१३ । १७ । १२४ । न्यायनिर्व्वपणः पादः पण्डितो ह्यचलोपमः ॥

लक्षणानि

[सम्पादयतु]

आत्मज्ञानं कार्येषु शक्तिः तितिक्षा धर्मनित्यता च यं पुरुषार्थात् नापकर्षन्ति सः पण्डितः उच्यते । निषेवते प्रशस्तानि न सेवते निन्दितानि अनास्तिकः श्रद्धधानः एतत् पण्डितलक्षणम् । क्रोधः हर्षः दर्पः हीस्तम्भः मान्यमानिता च यं पुरुषार्थात् नापकर्षन्ति सः पण्डितः उच्यते । मन्त्रं मन्त्रितं वा यस्य कृत्यं न जानन्ति कृतमेवास्य जानन्ति सः पण्डितः इत्युच्यते । शीतमुष्णं भयं रतिः समृद्धिः असमृद्धिर्वा यस्य कृत्यं न विघ्नन्ति सः पण्डितः उच्यते । यस्य संसारिणी प्रज्ञा धर्मार्थावनुवर्तते यः कामादर्थं वृणीते सः पण्डितः इत्युच्यते । पण्डितबुद्धयः यथाशक्ति चिकीर्षन्ति यथाशक्ति च कुर्वते । पण्डितस्य प्रथमं प्रज्ञानं किमित्युक्ते क्षिप्रं विजानाति चिरं श्रुणोति विज्ञायचार्थं भजते न कामात् । परार्थे नासंपृष्ठः व्युपयुङ्क्ते । पण्डितबुद्धयः नराः अप्राप्यं न अभिवाञ्छन्ति नष्टं शोचितुं नेच्छन्ति । आपत्सु च न मुह्यन्ति । यः निश्चित्य प्रक्रमते कर्मणः नान्तर्वसति अवन्ध्यकालः वश्यात्मा सः पण्डितः उच्यते । पण्डिताः आर्य कर्मणि रज्यन्ते । भूतिकर्माणि कुर्वते । हितं च नाभ्यसूयन्ति । यः आत्मसंमानेन हृष्यन्ति । अवमानेन न तप्यते । गाङ्गो ह्रद इव अक्षोभ्यः सः पण्डितः उच्यते । तत्त्वज्ञः सर्वभूतानां योगज्ञः सर्वकर्मणाम् उपायज्ञः मनुष्याणां नरः पण्डितः उच्यते । यः प्रवृत्तवाक् चित्रकथ ऊहवान् प्रतिभानवान् आशुग्रन्थस्य वक्ता च सः पण्डितः उच्यते । यस्य श्रुतं प्रज्ञानुगं यस्य प्रज्ञाचैव श्रुतानुगा असंभिन्नार्यमर्यादः सः पण्डिताख्यां लभेत ।

तस्य बुद्धेरुज्ज्वलत्वञ्च कार्यभेदादनुमातव्यं तदेव तस्य लक्षणं यथा

पठकाः पाठकाश्चैव ये चान्ये शास्त्रचिन्तकाः। 
सर्वे व्यसनिनो मूर्खा यः क्रियावान्स पण्डितः॥

इति महाभारते वनपर्व्वणि॥

निषेवते प्रशस्तानि निन्दितानि न सेवते ।
अनास्तिकः श्रद्दधान एतत् पण्डितलक्षणम् ॥ 

इति चिन्तामणिः ॥

विद्याविनयसम्पन्ने ब्राह्मणे गवि हस्तिनि । 
शुनिश्चैव श्वपाके च पण्डिताः समदर्शिनः॥ 

श्रीभगवद्गीतायाम् । ५ । १७ ॥

"https://sa.wikipedia.org/w/index.php?title=पण्डितः&oldid=479777" इत्यस्माद् प्रतिप्राप्तम्