पत्रं पुष्पं फलं तोयं...
पठन सेटिंग्स
श्लोकः
[सम्पादयतु]अयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति ।
- तदहं भक्त्युपहृतमश्नामि प्रयतात्मनः ॥ २६ ॥
अयं भगवद्गीतायाः नवमोध्यायस्य राजविद्याराजगुह्ययोगस्य षड्विंशतितमः(२६) श्लोकः ।
पदच्छेदः
[सम्पादयतु]पत्रं पुष्पं फलं तोयं यः मे भक्त्या प्रयच्छति तत् अहं भक्ति उपहृतम् अश्नामि प्रयतात्मनः ॥ २६ ॥
अन्वयः
[सम्पादयतु]यः पत्रं पुष्पं फलं तोयं मे भक्त्या प्रयच्छति प्रयतात्मनः भक्त्युपहृतं तत् अहम् अश्नामि ।
शब्दार्थः
[सम्पादयतु]- यः = यः मानवः
- पत्रम् = पर्णम्
- पुष्पम् = कुसुमम्
- फलम् = फलम्
- तोयम् = उदकम्
- मे = मह्यम्
- भक्त्या = प्रीत्या
- प्रयच्छति = ददाति
- प्रयतात्मनः = निगृहीतमनस्कस्य
- भक्त्युपहृतम् = भक्त्या समर्पितम्
- तत् = तद्वस्तु
- अहम् अश्नामि = अहं परिगृह्णामि ।
अर्थः
[सम्पादयतु]यस्तु मनः निगृह्य पत्रं पुष्पं फलं तोयं च भक्त्या प्रयच्छति भक्त्या प्रदत्तं तत्सर्वम् अहम् अवश्यं परिगृह्णामि ।