पम्प

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search

पम्पः (Pampa) कन्नडभाषायाः "आदिमहाकविः" इति प्रसिद्धः। 'आदिपुराणं', 'विक्रमर्जुनविजयम्' इत्येतयोः द्वयोः ग्रन्थयोः कर्ता। गद्य-पद्य- मिश्रित चम्पूशैल्या कृतीः रचितवान् । आदिकविरिति प्रख्यातः पम्पः कन्नडस्य रत्नत्रये अन्यतमः। पम्पं युगप्रवर्तकः इति कन्नडजनाः आदरेण कथयन्ति । तस्य कालं ’पम्पयुगः’ इति घोषितवन्तः ।

पूर्वाश्रमः[सम्पादयतु]

पम्पः गदगसमीपे अण्णिगेरिग्रामे जन्म प्राप्तवान् । एतस्य मातापितरौ अब्बलब्बे भीमप्पय्य नामकौ । क्रि. श. ९३५तः ९५५ पर्यन्तं शासनं कृतवतः वेमुलवाडचालुक्यवंशीयस्य राज्ञः द्वितीय- अरिकेसरिणः आश्रये पम्पः आसीत् । पम्पस्य पूर्वजाः वेङ्गिमण्डलस्थाः । वेङ्गिमण्डलं कृष्णा-गोदावरीनद्योः मध्ये आसीत् । अस्मिन् प्रदेशे स्थितेषु सप्तग्रामेषु वेङिपळु इति कश्चन प्रसिद्धः अग्रहारः अस्ति । तत्र जमदग्निपञ्चार्षेयप्रवरस्थः श्रीवत्सगोत्रोद्भवः पम्पः। माधवसोमयाजिः पम्पस्य पूर्विकः इति ज्ञायते । एषः पम्पस्य प्रपितामहस्य पिता । माधवसोमयाजेः पुत्रः अभिमानचन्द्रः । एषः गुण्टूरुसमीपे गुण्डिकळग्रामस्य निडुगुन्दिनामके अग्रहारे आसीत् । पम्पस्य प्रपितामहस्य अभिमानचन्द्रस्य पुत्रः कोमरय्यः । एतस्य काले कुटुम्बस्थाः उत्तरकन्नडप्रदेशस्य बनवासिक्षेत्रं प्रति स्थानान्तरिताः । कोमरय्यः पम्पस्य पितामहः । तस्य पुत्रः भीमप्पय्यः । भीमप्पय्यस्य भार्या अण्णिगेरिपुरोहितसिङ्घस्य पौत्री । पम्पः एतयोः पुत्रः । जिनवल्लभः पम्पस्य अनुजः । पम्पस्य पिता भिमप्पय्यः यज्ञयागादीनां हिंसां विरुध्य जैनमतं स्वीकृतवान् । देवेन्द्रमुनिः पम्पस्य गुरुः ।

जीवनम्[सम्पादयतु]

पम्पः 'देशी' 'मार्गः' इति शैलीभ्यां कृतीः रचितवान् । संस्कृतसाहित्यसदृशस्य 'मार्गः' इति, शुद्धकन्नडसदृशं 'देशी' इति कथ्यते। कृतिरचनयाः काले पम्पः अरिकेसर्याः सेनानायकः आसीत् इति ऊहा अस्ति । सः पराक्रमी, युद्धनिपुणः च आसीत् । कन्नडभाषायां परिणितः । स्वस्य देशप्रेम दर्शयितुं पम्पः " आरङ्कुशविट्टोडं नेनेवुदेन्न मनं बनवासिदेशम् " इति मातृभूमिं बहुधा श्लाघितवान् अस्ति। पम्पः पुलिगेरेतिरुळ्गन्नडशैल्या कव्यं अरचयत् । सः आदिपुराणं क्रि. श. ९४१- ४२तमे वर्षे अरचयत् । एतत् गुणसेनाचार्यस्य पूर्वपुराणे आगतस्य प्रथमजैनतीर्थङ्करस्य वृषभनाथस्य कथां वदति । पम्पस्य अपराकृतिः 'विक्रमार्जुनविजयं' महाभारतस्य कथां निरूपयति । व्यासस्य महाभारत -कथां प्रादेशिकभाषया, देशीयगुणान् मेलयित्वा रचिता प्रथमा कृतिः एषा । "व्यासमुनीन्द्ररुद्रवचनामृतवार्दिनीसुवें कवि व्यसनेम्ब गर्वमेनगिल्ल" इति कन्नडभाष्या विनयपूर्वकम् उक्तवान् अस्ति। तस्य अश्रयदातारम् अरिकेसरिणम् अर्जुनेन सह तोलयित्वा तमेव कथानायकं कृतवान् । तस्य कृतिषु विद्यमानान् विचारान् तथा तस्य अनुजेन कुर्क्याल्-ग्रामे स्थापितेन शिलाशासनेन च एतावत् विवरणं ज्ञायते । नागराजकविः "पसरिप कन्नडक्कोडेयनोर्वने सत्कवि पम्पनागवं" इति पम्पं श्लाघितवान् । "एं कलियो, सत्कवियो? कवितागुणार्णभवं " इति अपि पम्पं श्लाघितवन्तः सन्ति । पम्पस्य द्वे कृती प्राचीनकन्नडस्य काव्यरचनायाः क्रमे अतिव प्रभावं जनितवन्तौ । पुराणेतिहासं काव्ये योजयितुं पम्पस्य काव्यानि आदर्शरूपेण सन्ति। स्वभाषाविषये " हितमितमृदुवचनयुक्तम्" इति पम्पः उक्तवान् अस्ति। एतस्य शास्त्रीयकवेः स्वकृतिषु प्रकटितान् आशयान्, उपयुक्तानि रूपकाणि आधुनिककन्नडसाहित्यकृतिनाम् उपरि नितरां प्रभावान् अजनयन् ।

"https://sa.wikipedia.org/w/index.php?title=पम्प&oldid=293560" इत्यस्माद् पुनः प्राप्तिः