पल्लीकमलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search
पल्लीकमलम्  
श्रेणी:पुस्तकानि यस्य मुखपृष्ठं नास्ति
लेखकः डॉ. रमा चौधुरी
देशः भारतम्
भाषा संस्कृतम्
प्रकारः रङ्गमञ्चीयाभिनवशैली

पल्लीकमलं नवदृश्यात्मकं नाटकं विद्यते। अस्मिन् नायकस्य रूपकुमारस्य नायिकाया कमलकलिकायाश्च प्रेम्णः परिणतिः परिणये भवति।

कथावस्तु[सम्पादयतु]

मधुमालतीपल्ल्याः कन्या कमलकलिका प्रकृतिसुषुमायामात्मविस्मृतेव सुप्रसन्ना विद्यते । सोषसं आनन्दमालिकेति अमृतकलिकेति वर्णयति । नदी तस्याः कृते मायाविनी विद्यते । तस्या मात्रे तरङ्गिण्यै तस्या इदं काव्यमयं जीवनं न रोचते । सा तां भर्त्सयति | गृहपतिर्ब्रह्मबलः कन्याया रोदनं श्रुत्वा पृच्छति – कस्मान्मम दुहिता रोदिति ? तरङ्गिणी तमब्रवीत्कुतस्ते दुहिता ? केयमासादिता ? मातापित्रोरीदृशं वाक्यं श्रुत्वा कमलकलिका आत्मनो विषये शङ्काकुला संवृत्ता। अथ सा नदीतीरमासाद्येमानेव प्रश्नान् पुनः पुनश्चिन्तयामास | तदानीमेव तस्याः सखी काञ्चनकलिका तामुपालभत यत्, त्वया कस्मादद्यावधि स्वविवाहवृत्तान्तो न निवेदितः । कमलकलिकयोक्तम् -अहमेतस्मिन् विषये किमपि न जानामि । ततः काञ्चनकलिका स्नानाय शाटीमानेतुं गृहं गता । कमलकलिकायाः शाटी वायुवेगान्नद्यां निपतिता। तदापि सा तां नदीं तुष्टाव -

कलकलकलना हिमगिरिलला ललति ललिता लोभना।

विलुलितचलना विकसितवलना ललाटाभरणशोभना।।

किञ्चित्कालानन्तरं नायको रूपकुमारो नौका-सङ्गीतं गायन् तस्याश्शाटीं गृहीत्वा तत्रागतः। प्रथमदर्शन एवं कमलकालका तस्यैव समजनि । पुनर्मिलनमाकांक्षन्तीं कमलकालिकां सोऽब्रवीत् - परश्वः पूर्णिमायामर्धरात्रे मम मयूखमालिकानौकायां जन्मोत्सवो विद्यते, तदा भवत्यागम्यताम् इति।

तृतीयदृश्ये कमककलिकावोचत् पितरौ – मम विवाहो न केनापि करणीय इति । अहं भवतोश्चरणसेवां कुर्वाणा जीवनं यापयिष्यामि । तरङ्गिण्या कथितं - तव वरस्तु भूम्यधिकारी राजा वर्तते। कोलकातायां तस्य प्रासादाः विलसन्ति । तथापि स त्वादृशया पल्लीबालया सह परिणयायसमुत्सुको वर्तते । कनककलिकया तन्निषिद्धम्।

एकस्मिन् दिवसे भूम्यधिकारी मार्तण्डमहोदयः कन्यां द्रष्टुमागतः । तस्य पितुः प्रभञ्जनस्य कृते वेत्रासनाभावात् स प्रभञ्जनायते स्म । अन्ते मार्तण्डेच्छया सर्वे शान्ता अभूवन् । कनककलिका समक्षमागता। प्रभञ्जनवचनात् सा गानमारभत -

विभुपदवहनां दुष्कृतदहनां नमामि जननीं पल्लीम्।

धनवनगहनां परमतसहनां विकसितकुन्दकमल्लीम्।। इत्यादि।

अथ कन्यां सुयोग्यां विलोक्य ते विवाहदिवसस्य निश्चयं कर्तुमारेभिरे । कन्यायाः मनोभावं जानानः पिताब्रवीत् - कन्यायाः सम्मत्यर्थं कञ्चित् कालमहमपेक्षे।

चतुर्थदृश्ये कृष्णाय प्रमत्ता राधेव कनककलिका रूपकुमारस्य सङ्गीतकं श्रुत्वा मध्यरात्रे नदीमाससाद। सा रूपकुमारस्य पुरतः प्रस्तावयति यत्त्वया सह नौकाविहारोऽस्य निशीथस्य सर्वोपरि वरेण्यं सुखमास्ते। तौ नौकाविहाराय प्रतिष्ठेताम् । कनककलिका स्वकीयं जीवनं तदा सार्थकममन्यत।

रूपकुमारेण स्वपरिचयो दत्तः – यदाहं वयसा सप्तवर्षीय आसम् । तदैकस्यां शारद्यां पूर्णिमायामस्या एव नौकाया उपरि आत्मानमेकाकिनमपश्यम् । ततः प्रभृतीयमेव मम सर्वस्वम् । अस्मिन्नेव दिनेऽहं नौकाया जन्मतिथिं मानयामि | अहं प्रातरारभ्यार्धरात्रं यावन् मनोमानुषं प्राणबन्धुं प्राप्तुं भ्रमामि । स प्राणबन्धुरेव ममात्मा, अन्तर्देवता, प्राणाः, देहः, जीवनञ्च विद्यते । कनककलिकोवाच - अहमपि तमेव त्वया सहान्विष्यामि | रूपकुमारः तस्याः प्रार्थनां न स्वीचकार। तां पल्लीघट्टेऽवतारयत् । तत्रैव निशीथे मार्तण्डः कनककलिकामवलोकयत्।

अथ चाभर्सयत् - अहं जानामि यत् किन्निमित्तं विवाहं नेच्छसि । मम वाग्दत्ता भूत्वापि त्वं स्वैरिणी वर्तसे । कनककलिका तं निराशं परित्यज्य गता। षष्ठे दृश्ये कर्कट-मर्कटौ हास्यं प्रस्तुतः। सप्तमे दृश्ये मार्तण्डः कनककलिकां हस्तगतं कर्तुं कुचक्रं चालयति।

स एकदा त्वया करो न दत्त इति ब्रह्मपदं वन्दिनमकरोत् । ब्रह्मपदेन मनसि चिन्तितम्।

मां मेषशावं भृशमेष दष्टुं फणां समुन्नाम्यति कालसर्पः।

तस्य प्रकोपोपशमे समर्थं प्रेक्षे न कञ्चिद् विषवैद्यमद्य।।

कनककलिका स्वकीयां रत्नमालां प्रदाय पितरं मोचयितुं प्रायतत। अष्टमाङ्के कनककलिकायाः जन्मरहस्यस्योद्घाटनं भवति । बन्दी ब्रह्मपदो मार्तण्डस्य सविधे नीतः । तत्र ब्रह्मपदेनोक्तं - करस्तु मया प्रागेव प्रदत्तः । परंतु यदि भवतां मतेन न प्रदत्तो मया, तर्हि मम कन्याया इमां रत्नमालां बन्धकरूपेण ध्रियतां भवद्भिः । तां मालां दृष्ट्वा प्रभञ्जनः किमपि स्मृतवान् । अथ चापृच्छत् - कुत इयं रत्नमाला समासादिता त्वया । ब्रह्मपदोऽब्रवीत् - इदं रहस्यं न प्रकटयितुं गृहीतशपथोऽस्म्यहम् । परन्तु स बाध्यः सन्नब्रवीत् - कनककलिका मया रत्नमालया समं सद्योजाता कन्यारूपेण नदीतटे समासादिता । ततो मम पत्नी तां पुपोष | सम्प्रतीयं मम जीवनधारा विद्यते।

प्रभञ्जनेन स्मृतम् - इयं ममैव कन्या । कनकचम्पादेवी तां प्रासूत । मम सन्देहादस्याः जननी इमां नदीसविधे व्यसृजत्।

नवमदृश्ये सन्ध्यासमये मायाविनीतटे कनककलिका रूपकुमारागमनमालोकते । स गीतं गायन्नागच्छत् । आगत्य तेन कथितम् राजकन्ये ! अद्य पल्लीं व्यक्त्वाहं गमिष्यामि। कनककलिकया कथितम् - अहमपि त्वया सह चलिष्यामि । रूपकुमारेणोक्तम् - मया दरिद्रेण सार्धम् ? कनककलिकावोचत् - भवतो गृहे नित्यं प्राणबन्धुः, मनोमानुषो वसति । तव कस्याभावः ? तत उभावेकरूपताङ्गतौ।

नाटकेऽस्मिन् कतिपयबंग-लोकोक्तीनां संस्कृतानुवादः समुपलभ्यते । यथा -

(१) आकाशचन्द्रः पतितः करे मे। (२) कुक्षौ क्षुधा मुखे लज्जा। (३) पथि ठक्कुर आद्रियमाणो मस्तकमारोहति ।

यद्यप्यस्य रूपकस्य सर्वाणि दृश्यान्येकोक्तिमण्डितानि सन्ति, किं तु पञ्चमाङ्कस्य कनककलिकाया एकोक्तौ महती प्रभविष्णुता जागर्ति। लेखिकायाः मतेन प्रहसनमपि नाटके तथावश्यकं यथा सङ्गीतनिबन्धनम्। पूर्वकथा चलचित्रानुवर्तनपूर्वकं पटपरिवर्तनद्वारा पूर्वदृश्ये प्रदर्शिता । कनककलिकाया जन्मरहस्यमपि पटपरिवर्तनपूर्वकं दर्शितम्।

सम्बद्धाः लेखाः[सम्पादयतु]

उद्धरणानि[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=पल्लीकमलम्&oldid=435797" इत्यस्माद् पुनः प्राप्तिः