पश्यादित्यान्वसून् रुद्रान्...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(पश्यादित्यान् वसून् -11.6 इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः[सम्पादयतु]

गीतोपदेशः
पश्यादित्यान्वसून् रुद्रानश्विनौ मरुतस्तथा ।
बहून्यदृष्टपूर्वाणि पश्याश्चर्याणि भारत ॥ ६ ॥

अयं भगवद्गीतायाः एकादशोऽध्यायस्य विश्वरूपदर्शनयोगस्य षष्ठः(६) श्लोकः ।

पदच्छेदः[सम्पादयतु]

पश्य आदित्यान् वसून् रुद्रान् अश्विनौ मरुतः तथा बहूनि अदृष्टपूर्वाणि पश्य आश्चर्याणि भारत ॥ ६ ॥

अन्वयः[सम्पादयतु]

भारत ! आदित्यान् वसून् रुद्रान् अश्विनौ तथा मरुतः पश्य, अदृष्टपूर्वाणि बहूनि आश्चर्याणि पश्य ।

शब्दार्थः[सम्पादयतु]

भारत = अर्जुन !
आदित्यान् = द्वादशादित्यान्
वसून् = अष्टवसून्
रुद्रान् = एकादशरुद्रान्
अश्विनौ = देववैद्यौ
तथा = तथा
मरुतः = सप्तमरुतः
पश्य = अवलोकय
अदृष्टपूर्वाणि = पूर्वम् अनवलोकितानि
बहूनि = नानासङ्ख्यानि
आश्चर्याणि = उतानि
पश्य = अवलोकय ।

अर्थः[सम्पादयतु]

अर्जुन ! द्वादशादित्यान् अष्टवसून् एकादशरुद्रान् देववैद्यौ तथा सप्तमरुतः पश्य । पूर्वम् अनवलोकितानि नानासङ्ख्याकानि उतानि अत्र पश्य ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]