पाण्ड्याः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

भारतस्य दक्षिणदिशि आसन् पाण्ड्यानां, चोळानां, चेराणां च राज्यानि । उत्तरभारते विद्यमानानि महासाम्राज्याणि पश्चिमतः तथा मध्य-एषियातः निरन्तरं जातानाम् आक्रमणानां कारणतः शिथिलानि अभवन् । तदा भारतस्य कलायाः तथा संस्कृतेः च केन्द्रं फलवत्याः इण्डो-गङ्गाप्रस्थभूमितः दक्षिणदिशि अपसृतम् । तावत् पर्यन्तम् एतानि राज्यानि प्रबलानि न आसन् । परस्परं कलहं कुर्वन्ति स्म । तदनन्तरं क्रमशः एते प्रबलाः अभवन् । कालान्तरे आग्नेय-एषियायाम् अपि राज्यस्थापनम् अकुर्वन् ।

"https://sa.wikipedia.org/w/index.php?title=पाण्ड्याः&oldid=431916" इत्यस्माद् प्रतिप्राप्तम्