पिण्डखर्जूरः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
खर्जूरवृक्षः
पिण्डखर्जूरराशिः

एषः पिण्डखर्जूरः अपि भारते अपि वर्धमानः कश्चन फलविशेषः । एषः पिण्डखर्जूरः अपि सस्यजन्यः आहारपदार्थः । अयं पिण्डखर्जूरः आङ्ग्लभाषायां Drydate इति उच्यते । एषः पिण्डखर्जूरः आहारत्वेन यथा उपयुज्यते तथैव औषधत्वेन अपि उपयुज्यते । अस्य पिण्डखर्जूरस्य फलं रसं चापि उपयुज्यते । एषः पिण्डखर्जूरः Dryfruits इति यानि उच्यन्ते तेषां शुष्कफलानां गणे अन्तर्भवति । पिण्डखर्जूरः नाम शुष्कखर्जूरः एव । खर्जूरम् एव शुष्कीकृत्य स्थाप्यते ।

आयुर्वेदस्य अनुसारम् अस्य पिण्डखर्जूरस्य स्वभावः[सम्पादयतु]

वृक्षे लम्बमानानि पक्वखर्जूरगुच्छानि
वृक्षे लम्बमानानि अपक्वखर्जूरम्

एषः पिण्डखर्जूरः पचनार्थं लघुः । अयं पिण्डखर्जूरः स्निग्धः, मधुररसयुक्तः चापि ।

आपणे पिण्डखर्जूरस्य, खर्जूरस्य चापि विक्रयणम्
१. एषः पिण्डखर्जूरः हृद्यः, बृंहणः च ।
२. एषः पिण्डखर्जूरः वातं पित्तं च हरति । अतः वातजैः रोगैः, पित्तजैः रोगैः च पीड्यमानानां, वातप्रकृतियुक्तानां, पित्तप्रकृतियुक्तानां च, पित्तकाले, देशे च अस्य पिण्डखर्जूरस्य उपयोगः हितकरः ।
३. एषः पिण्डखर्जूरः मद्यस्य आधिक्येन सेवनेन जातेषु रोगेषु अपि उपयुज्यते ।
४. एषः पिण्डखर्जूरः वमनं, दाहं च शमयति ।
५. एषः पिण्डखर्जूरः श्वासम् (अस्तमा), कासं च निवारयति ।
६. एषः पिण्डखर्जूरः हृदयस्य बलं वर्धयति । मूर्छारोगं चापि निवारयति ।
७. एषः पिण्डखर्जूरः रुचिकारकः अपि ।
८. एतस्य पिण्डखर्जूरस्य खर्जूरादिमन्थ अपि उपयोक्तुं शक्यते ।
९. आवश्यकतायाः अनुसारम् अस्य पिण्डखर्जूरस्य गुलिका अपि उपयुज्यते ।

"https://sa.wikipedia.org/w/index.php?title=पिण्डखर्जूरः&oldid=361353" इत्यस्माद् प्रतिप्राप्तम्