पिताहमस्य जगतो...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


श्लोकः[सम्पादयतु]

गीतोपदेशः
पिताहमस्य जगतो माता धाता पितामहः ।
वेद्यं पवित्रमोङ्कारः ऋक्साम यजुरेव च ॥ १७ ॥

अयं भगवद्गीतायाः नवमोध्यायस्य राजविद्याराजगुह्ययोगस्य सप्तदशः(१७) श्लोकः ।

पदच्छेदः[सम्पादयतु]

पिताहम् अस्य जगतः माता धाता पितामहः वेद्यं पवित्रम् ओङ्कारः ऋक्साम यजुरेव च ॥ १७ ॥

अन्वयः[सम्पादयतु]

अस्य जगतः पिता माता धाता पितामहः वेद्यं पवित्रम् ओङ्कारः ऋक् साम यजुः च अहम् एव ।

शब्दार्थः[सम्पादयतु]

अस्य = एतस्य
जगतः = प्रपञ्चस्य
पिता = जनकः
माता = जननी
धाता = पोषयिता
पितामहः = पितुः पिता
वेद्यम् = वेदितव्यं वस्तु
पवित्रम् = पावनं वस्तु
ओारः = प्रणवः
ऋक् = ऋग्वेदः
साम = सामवेदः
यजुः च = यजुर्वेदः च
अहमेव = अहमेव ।

अर्थः[सम्पादयतु]

अहमेव अस्य जगतः पिता, माता, पोषयिता, पितामहः, ज्ञेयं वस्तु, पावयिता, ओारः, ऋग्वेदादिश्च अस्मि।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=पिताहमस्य_जगतो...&oldid=418661" इत्यस्माद् प्रतिप्राप्तम्