पी टी उषा

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
पी टी उषा
P t usha.jpg
पिलवुल्लकण्डितेक्केपरम्बिलुषा
Native name

पिलवुल्लकण्डितेक्केपरम्बिलुषा

പിലാവുള്ളകണ്ടി തെക്കേ പറമ്പിൽ ഉഷ[१]
Born 27 जून 1964 (1964-06-27) (वयः ५२)
Payyoli, Kozhikode, Kerala, India
Residence Payyoli, Kozhikode
Nationality Indian
Other names Payyoli Express, Golden Girl
Occupation track and field athlete
Employer Indian Railways
Known for Padma Shri
Height फलकम्:Infobox person/height
Spouse(s) V. Srinivasan
Children Ujjwal
Parent(s) Paithal, Lakshmi
Website ptusha.org
Signature
Signature of P. T. Usha.svg

पिलवुल्लकण्डितेक्केपरम्बिलुषा(P. T. Usha) (मलयाळम्‌: പിലാവുള്ളകണ്ടി തെക്കേ പറമ്പിൽ ഉഷ; जननम् - जून् २७, १९६४; पी टी उषा इति प्रसिद्धा) केरलराज्यात् भारतीया क्रीडका अस्ति। १९७९ तः भारतीयक्रीडापटुभिः सह तस्याः सम्पर्कः वर्तते । भारतस्य अत्युत्तमक्रीडापटुषु एषा अन्यतमा इति परिगण्यते। भारतीयरेखामार्ग-क्षेत्रयोः राज्ञी इत्यपि सा निर्दिश्यते।[उद्धरणं वाञ्छितम्] पय्योलि एक्स्प्रेस् इति तस्याः उपनाम। अद्यत्वे सा केरके कोयिलण्डिप्रदेशे 'उषाक्रीडाशालां' चालयति। पि टि उषा केरलराज्ये कोझिकोड्जनपदे पय्योलिग्रामे जन्म प्राप्नोत्। १९७६ तमे वर्षे केरलसर्वकारेण महिलानां कृते क्रीडाशाला आरब्धा। उषा स्वस्य जनपदस्य प्रतिनिधित्वेन तत्र अवसरं प्राप्नोत्।

वृत्तिजीवनयात्रा[सम्पादयतु]

१९७९ तमे वर्षे राष्ट्रियविद्यालयक्रीडासु सा भागम् अवहत् । तत्र एतस्याः प्रतिभाम् अभिज्ञातवान् ओ एम् नम्बियार् सदा तस्याः प्रशिक्षकत्वेन अतिष्ठत् । १९८० तमे वर्षे मास्को-ओलिम्पिक्स्-क्रीडाकूटे तया रङ्गप्रवेशः कृतः । किन्तु तस्मिन् तस्याः प्रदर्शनं नीरसं जातम् । १९८२ तमे वर्षे नवदेहल्याम् एश्याक्रीडाकूटे १०० मी २०० मी स्पर्धासु रजतपदकं प्राप्तवती । अग्रिमे वर्षे कुवैत्-एशियाकूटे तया स्वर्णपदकं जितम् ४०० मी धावनस्पर्धायाम् । १९८३ तः ८९ पर्यन्तं तया १३ स्वर्णपदकानि प्राप्तानि । १९८४ तमे वर्षे लास्-एञ्जलीस्-ओलिम्पिक्स्-क्रीडाकूटे ४०० मी कूर्दन-धावनस्पर्धायाम् उपान्त्यस्पर्धायां प्रथमस्थानं प्राप्नोत् । किन्तु अन्तिमस्पर्धायां क्षणस्य शतांशेन सा कांस्यपदकात् च्युता जाता । उपान्त्यस्पर्धायां जयं प्राप्तवती सा ओलिम्पिक्-अन्तिमस्पर्धायां भागम् ऊढवत्सु भारतीयमहिला-क्रीडापट्वीषु प्रथमा, भारतीयक्रीडापटुषु पञ्जमी च जाता ।

दक्षिणकोरियादेशस्य सियोल्-नगरे जाते १० एशियन्क्रीडाकूटे उषया ४ स्वर्णपदकानि, १ रजतपदकञ्च प्राप्तम् । अत्र तया भागम् ऊढवत्सु सर्वासु स्पर्धासु विक्रममेव साधितवती । १९८५ तमे वर्षे जकार्तायां जाते एशियन्क्रीडाकूटे तया ५ स्वर्णपदकानि जितानि । क्रीडापटुना एकस्मिन्नेव अन्ताराष्ट्रिये क्रीडाकूटे एतावतां पदकानां प्राप्तिः नूतनः विक्रमः जातः । एतावता उषया १०१ अन्ताराष्ट्रियपदकानि जितानि सन्ति । सा दक्षिणरेल्वेविभागे अधिकारिणी अस्ति । तया पद्मश्री अर्जुनप्रशस्तिः च प्राप्ता अस्ति ।

साधनानि[सम्पादयतु]

  • १९७७ तमे वर्षे कोट्टायाम्नगरे जाते राज्यस्तरीय-क्रीडाकूटे राष्ट्रियविक्रमः साधितः ।
  • १९७८ तमे वर्षे कोल्लम्नगरे जाते राष्ट्रिय-अन्ताराज्य-क्रीडाकूटे कनीयक्रीडापटुत्वेन आकर्षणकेन्द्रं जातम् ।
  • १९८० तमे वर्षे जाते मास्को ओलिम्पिक्स् क्रीडाकूटार्थं चिता जाता ।
  • ओलिम्पिक्-स्पर्धायाम् अन्तिमस्तरं प्राप्तवती प्रथमकेरलीया प्रथमभारतीयमहिला च इयम् ।
  • मास्को-ओलिम्पिक्स्-स्पर्धायां भागं गृहीतवत्सु अवरतमा आसीत् इयं षोडशवर्षीया ।
  • १९८२ देहली-एशियन्-स्पर्धायां प्रथमं पदकं प्राप्तवती ।
  • १९८३ तमे वर्षे कुवैत्-एशियन् चाम्पियन्शिप्-मध्ये ४०० मी अन्ताराष्ट्रियस्पर्धायां प्रथमवारं भागं गृहीत्वा सफलतां प्राप्नोत् ।
  • लासेञ्जलीस्-स्पर्धायां ५५.५४ क्षणानां विक्रमः तया साधितः । एदम्प्राथम्येन अस्मिन् महिलानां कृते ४०० मी धावनस्पर्धा आयोजिता आसीत् ।
  • १९८५ जकार्ता एशियन् क्रीडाकूटे उषया ५ स्वर्णपदकानि प्राप्तानि ।
  • १९८६ तमे वर्षे सियोल्-एशियन्-क्रीडाकूटे तया ४ स्वर्णपदकानि प्राप्तानि, एशियायाः 'धावनराज्ञी' इति बिरुदं प्राप्तवती ।
  • १९८० तः उषा ओलिम्पिक्-क्रीडाकूटे भागम् अवहत् । १९९१ तमे विवाहः सम्पन्नः इत्यतः १९९२ तमे वर्षे जाते बार्सेलोनियाक्रीडाकूटे तया भागः न ऊढः ।
  • तया १९९६ तमे वर्षे जाते अट्लाण्टा-ओलिम्पिक्स्-क्रीडाकूटे अन्तिमरूपेण भागः स्वीकृतः ।

जागतिकविक्रमः[सम्पादयतु]

१९८५ तमे वर्षे जाते जकार्ता-एशियन्-क्रीडाकूटे तया १००, २००, ४०० धावनस्पर्धासु, ४०० प्रतिरोधधावनस्पर्धायां च स्वर्णपदकं ४ X ४०० मी रिलेस्पर्धायां च कांस्यपदकं प्राप्तवती । एकस्मिन् क्रीडाकूटे कयाचित् महिलया एतावन्ति स्वर्णपदकानि न प्राप्तानि । अतः अयमस्ति कश्चन विक्रमः ।

प्रशस्तयः पुरस्काराश्च[सम्पादयतु]

  • १९८४ - अर्जुनप्रशस्तिः
  • १९८५ - अत्युत्कृष्टमहिलाक्रीडापट्वी
  • १९८४ - पद्मश्री
  • १९८४, १९८५, १९८६, १९८७, १९८९ - एशियाक्रीडासु - अत्युत्तमक्रीडापट्वी
  • १९८६ सियोल्-एशियन्-क्रीडाकूटे - आदिदास-स्वर्ण-पादत्राण-प्रशस्तिः (Adidas Golden Shoe Award)
  • ३० अन्ताराष्ट्रियप्रशस्तयः
  • १९९९ - केरल-क्रीडा-पत्रिकोद्यमी-प्रशस्तिः
  • १९८५, १९८६ उत्तमक्रीडापटु-जागतिकप्रशस्तिः

टिप्पणी[सम्पादयतु]

बाह्यशृङ्खला[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=पी_टी_उषा&oldid=300336" इत्यस्माद् पुनः प्राप्तिः