पुण्यो गन्धः पृथिव्यां च...
दिखावट
श्लोकः
[सम्पादयतु]- पुण्यो गन्धः पृथिव्यां च तेजश्चास्मि विभावसौ ।
- जीवनं सर्वभूतेषु तपश्चास्मि तपस्विषु ॥ ९ ॥
अयं भगवद्गीतायाः सप्तमोध्यायस्य ज्ञानविज्ञानयोगस्य नवमः(९) श्लोकः ।
पदच्छेदः
[सम्पादयतु]पुण्यः गन्धः पृथिव्यां च तेजः च अस्मि विभावसौ जीवनं सर्वभूतेषु तपः च अस्मि तपस्विषु ॥ ९ ॥
अन्वयः
[सम्पादयतु]पृथिव्यां च पुण्यः गन्धः विभावसौ तेजः च अस्मि । सर्वभूतेषु जीवनं तपस्विषु तपः च अस्मि ।
शब्दार्थः
[सम्पादयतु]- पृथिव्यां च = भूमौ
- पुण्यः = स्वाभाविकः
- गन्धः = गन्धः
- विभावसौ = सूर्ये
- तेजः च = कान्तिःच
- अस्मि = भवामि
- सर्वभूतेषु = सकलप्राणिषु
- जीवनम् = आयुः
- तपस्विषु = मुनिषु
- तपः च = तपः अपि
- अस्मि = भवामि ।
अर्थः
[सम्पादयतु]अहं पृथिव्यां सुरभिः गन्धः सूर्ये कान्तिः च अस्मि । सकलप्राणिषु आयुः तपस्विषु तपः च अस्मि ।