सामग्री पर जाएँ

पुरुषः प्रकृतिस्थो हि...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


श्लोकः

[सम्पादयतु]
गीतोपदेशः
पुरुषः प्रकृतिस्थो हि भुङ्क्तेप्रकृतिजान्गुणान् ।
कारणं गुणसङ्गोऽस्य सदसद्योनिजन्मसु ॥ २१ ॥

अयं भगवद्गीतायाः त्रयोदशोध्यायस्य क्षेत्रक्षेत्रज्ञविभागयोगस्य एकविंशतितमः(२१) श्लोकः ।

पदच्छेदः

[सम्पादयतु]

पुरुषः प्रकृतिस्थः हि भुङ्क्ते प्रकृतिजान् गुणान् कारणं गुणसङ्गः अस्य सदसद्योनिजन्मसु ॥ २१ ॥

अन्वयः

[सम्पादयतु]

पुरुषः हि प्रकृतिस्थः प्रकृतिजान्गुणान् भुङ्क्ते अस्य सदसद्योनिजन्मसु गुणसङ्गः कारणम् ।

शब्दार्थः

[सम्पादयतु]
पुरुषः = जीवः
प्रकृतिस्थः = प्रकृतिपरिणामे देहे स्थितः
प्रकृतिजान् = प्रकृतिसम्भवान्
गुणान् = सुखदुःखादीन्
भुङ्क्ते = अनुभवति
सदसद्योनिजन्मसु = साध्वसाधुयोनिजननेषु
गुणसङ्गः = शब्दादिषु विषयेषु तज्ज्ञानसाधनेषु इन्द्रियेषु वा आसक्तिः ।

शरीरं प्रकृतेः परिणामः । तदभिन्नतया स्थितः पुरुषः प्रकृतिस्थसत्त्वादिगुणानां कार्यभूतान् सुखदुःखादीन् अनुभवति । सः कदाचित् देवादिषु साधुयोनिषु जातः सत्त्वगुणस्य फलं सुखम् अनुभवति। कदाचित् पश्वादिषु असाधुयोनिषु जातः तमोगुणस्य फलं दुःखम् अनुभवति । कदाचित् साध्वसाधु-योनिषु मनुष्येषु जातः रजोगुणफलं सुखदुःखमिश्रम् अनुभवति । एवं सत्त्वादिगुणस्य सुखदुःखमोहानाम् अनुभवे कारणं तस्य पुरुषस्य शब्दादिषु विषयेषु तज्ज्ञानसाधनेषु वा इन्द्रियेषु आसक्तिः । सा आसक्तिः अत्र गुणसशब्देन उच्यते ।

सम्बद्धसम्पर्कतन्तुः

[सम्पादयतु]

सम्बद्धाः लेखाः

[सम्पादयतु]