पृथक्त्वेन तु यज्ज्ञानं...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


श्लोकः[सम्पादयतु]

गीतोपदेशः
पृथक्त्वेन तु यज्ज्ञानं नानाभावान्पृथग्विधान् ।
वेत्ति सर्वेषु भूतेषु तज्ज्ञानं विद्धि राजसम् ॥ २१ ॥

अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य एकविंशतितमः(२१) श्लोकः ।

पदच्छेदः[सम्पादयतु]

पृथक्त्वेन तु यत् ज्ञानं नानाभावान् पृथक् विधान् वेत्ति सर्वेषु भूतेषु तत् ज्ञानं विद्धि राजसम् ॥

अन्वयः[सम्पादयतु]

सर्वेषु भूतेषु पृथग्विधान् नानाभावान् पृथक्त्वेन तु यत् ज्ञानं वेत्ति तत् ज्ञानं राजसं विद्धि ।

शब्दार्थः[सम्पादयतु]

भूतेषु = प्राणिषु
पृथग्विधान् = विविधान्
नानाभावान् = भिन्नान् आत्मनः
पृथक्त्वेन = भेदेन ।

अर्थः[सम्पादयतु]

सर्वेषु भूतेषु अयं दुःखी, अयं सुखी इत्यादिरूपेण नाना क्षेत्रज्ञान् येन पश्यति तत् ज्ञानं राजसं भवति।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]