पृथ्वीछन्दः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


लक्षणम्[सम्पादयतु]

जसौ जसयला वसुग्रहयतिश्च पृथ्वी गुरुः- वृत्तरत्नाकर:३. ९१

।ऽ। ।।ऽ ।ऽ। ।।ऽ ।ऽऽ ।ऽ ज स ज स य ल ग।

यत्र प्रत्येकम् अपि पादे क्रमेण एकः जगणः¸ एकः सगणः, पुनः एकः जगणः, एकः सगणः,एकः यगणः एकः लघुश्च भवति ।

तद्वृत्तं पृथ्वीवृत्तं भवति। अस्मिन् वृत्ते अपि सप्तदशाक्षराणि भवन्ति तथा च यतिः अष्टमे नवमे च भवति।

उदाहरणम्[सम्पादयतु]

लभेत सिकतासु तैलमपि यत्नतः पीडयन्,
पिबेच्च मृगतृष्णिकासु सलिलं पिपसासार्दितः।
कदाचिदपि पर्यटञ्छशविषाणमासादयेत्,
न तु प्रतिनिविष्टमूर्खजनचित्तमाराधयेत् ।।

अर्थः[सम्पादयतु]

प्रयत्नं कुर्वन् कश्चित् जनः सिकताकणान् मर्दयन् तेभ्यः तैलं प्राप्तुं शक्नुयात् ।

पिपासकुलः सन् मृगमरीचिकाभ्यः अपि जलं प्राप्नुयात् ।

किन्तु दुराग्रहिणः मूर्खस्य चित्तम् आराधयितुं न प्रभवेत् ।

उदाहरणसङ्ग्रह:-[सम्पादयतु]

१)यदा विकलधर्मता भवति चोत्थिताधर्मता,त्वजोऽपि निजमाययार्जुन जनिं तदानीं लभे।
सतां च परिपालनं प्रमथनं खलानां तथा,करोमि विदधे स्थिरं प्रतियुगं च धर्मं पुन:॥

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=पृथ्वीछन्दः&oldid=408961" इत्यस्माद् प्रतिप्राप्तम्