पोलोक्रीडा

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्

फलकम्:Underlinked

अश्वारुढकन्दुकक्रीडा (POLO) अश्वक्रीडायाः अन्यतमाक्रीडा ।

पोलोक्रीडा
अश्वारुढकन्दुकक्रीडकाः

ऐतिहासिकी पृष्ठभूमिः[सम्पादयतु]

इदं क्रीडनं विशुद्धरुपेण भारतीयं विद्यते । यदि नाम परम्परायाः प्राचीनतया दृष्टया वीक्ष्यते चेदस्येतिहासः परः सहस्त्रवर्षप्राचीनमस्ति । अस्य क्रीडनस्य प्राचीनं नाम 'चौगान्’ इत्यस्ति नवीनमभिधानं च 'पोलो’ वर्तते । पोलो शब्दस्योत्पत्तिः सम्भवतः तिब्बतदेशस्य 'पुलू’ शब्दतः सञ्जाता । त्रिविष्टपदेशे पुलूनामक एको वृक्षः प्राप्यते यस्य मूलैः पोलोक्रीडनस्य कन्दुको निर्मीयते स्म । चौगान-पदस्यार्थश्च हाकीतुल्या यष्टिरस्ति यां हस्ते धृत्वाऽश्वारोही कन्दुकं ताडयति क्रीडति च ।

अस्य क्रीड्नस्यारम्भः कदा कुत्र चाभवदिति विषये नास्ति मतैक्यं सर्वेषाम् । कश्चन कथयति यद द्विसहस्रवर्षेभ्यः पूर्वमिदं क्रीडनम् 'ईरान्’ देशे क्रीडयते स्म तथा तत एव भारतमागात । अन्यः कश्चन च कथयन्ति यदिदं विशुद्धं भारतीय मेवास्ति तथा भारतादेव समस्ते जगति प्रचरितम्, परं तावत् तु सर्वेऽपि स्वीकुर्वन्ति यन् मणिपुर-काश्मीर -ईरान्- प्रभृतीनां साहित्येऽस्य क्रीडनस्य वर्णनमुपलभ्यते । भारते सर्वतः प्रथममिदं क्रीडनं प्रतियोगितारुपेण सिलचर-नगरे १८५३ -५४ तमेशवीयवर्षेऽभूत् ।

मुगलसम्राजां कालेऽपि पोलो-क्रीडनस्यातीव प्रगतिरभूत । सम्राडबाबरः पोलो -क्रीडनस्यात्यन्तमनुराग्यवर्तत । अनेकवारं सोऽश्वान्निपत्याहतोऽप्यभूत् । तेषु दिवसेषु देहल्यां स्रुध्नपुरे (आगरानगरे) च चोगान -क्रीडनस्य प्रतियोगिता आयोज्यन्ते स्म । सम्राजोऽकबरस्य समयेऽपि क्रीडाया अस्यै पूर्णं प्रोत्साहनमदीयत तथाऽस्यै क्रीडायै नवीनानि क्रीडाङ्ग्णानि निर्मापितानि । श्रूयते यत सम्राडकबरः स्वकीयान्तः पुरस्य नारीभिः सह पोलो क्रीडनं विधत्ते स्म । तदानीं जीर्णशीर्णैः वस्त्रखण्डैः कन्दुकं निर्मान्ति स्म तथैकया प्रलम्बयाऽग्रतो वलितमुखया यष्टिकया च क्रीडन्ति स्म । सम्राज्ञी नूरजहां-महाभागाऽपि विशिष्य क्रीडायामस्यां रुचिमत्यासीत् । क्षत्रियनार्योऽपि क्रीडनेऽस्मिन् सहयोगिन्योऽभवन् । ईरानदेशीयासु महिलासु 'सुलतान् अमीरखुसरो’ महानुभावस्य पत्नी तथा तदीया राजपुत्र्यपि परमनुरागं धारयन्त्यावभूताम् । देहल्याः कुतुबमीनारनिर्माता कुतुबुद्दीन ऎबकोऽपि क्रीडाया अस्याः परमानुराग्यासीत् तस्य मृत्युरपि 'चौगान' क्रीडायमश्चात पतनानन्तरमभूत् । ड्यूक प्राफ एडिनबरामहोदयः साम्प्रतमपि पोलो -क्रीडायामियाननुरज्यति यत् तेन 'ग्रेड पार्क' (विशालोद्याने) पोलो -क्रीडाक्षेत्रं निर्मितमस्ति तथा तन्मनसि यदा स्वसमानेन क्रीडकेन सह स्पर्धाया इच्छा भवति तदा स भारतमागच्छति ।

भारतेनास्यां क्रीडायां विश्वविजेतृत्वगौरवमद्यापि धार्यते । भारतस्य विश्वविजयि पोलो -क्रीडकदलस्य नायकाः स्वर्गीया जयपुरमहाराजा निदर्शनभूता आसन् । तेषामस्यां क्रीडायामनुरागवशादेव तैरुक्तमासीद् -‘भारते पोलो -क्रीडकानां न्यूनता नास्ति किन्तु न्यूनता विद्यते पोलोक्रीडार्थं समुचितानां क्षेत्राणाम्, उत्तमजातीयानामश्वानाञ्च ।" इति । भारतेन १९३१ तः १९३९ ई. पर्यन्तं नववर्षाणि यावद् विश्वविजेतृत्वगौरवं प्राप्तमासीत् । इयं क्रीडा वस्तुतो राज्ञां महाराजानां क्रीडास्ति यतोऽस्या मश्चस्य क्र्यः क्रीडाभ्यासादयश्चातीव व्ययसाध्याः सन्ति । अस्याः क्रीडायाः सामान्यतो नियमास्त एव सन्ति ये पूर्वं वर्णिता अतो न प्रपञ्च्यते ।

मानवस्य च पशोश्च मिश्रितं, क्रीडनं किमपि चित्रचित्रकृत ।
एकमेव भुवि विद्यते न्विदं, क्रीडाकेषु विदितं सदोन्नतम् ॥

जलकन्दुक क्रीडा(Water Polo)[सम्पादयतु]

भूमौ यथा पोलो क्रीडा विधीयते तथैव जले 'पोलोक्रीडा’ भवति । सप्त ७ क्रीडकानां दलं तावतामेव प्रतिदलं च जले सन्तरत् परस्परं सीमप्रवेशाय कन्दुकं ताडयति । एतस्यां क्रीडकानां स्फूर्तिः तरणशक्तिस्तथा तीव्रवेगेन जलवारणपटुताऽऽश्यकाः सन्ति ।

त्रिकन्दुकिकासन्धानक्रीडा(बिलियर्ड Biliuarad)[सम्पादयतु]

अस्यां क्रीडायां तिस्रः कन्दुकिका भवन्ति, तास्वेका शोणवर्णा तथा द्वश्वेते । एतासां सन्धानायैका लम्ब-शङ्कुमुखी प्रलम्बा यष्टिका प्रयुज्यते यां पाइण्टर् (Pointer) इति कथयन्ति । कीडार्थामेकं लम्बचतुरस्रं १२*६ १/२' मितमष्टपात् काष्ठपीठं -यस्या भूमेरुच्चता २' ९ १/२ तः २’१० १/२ मिता भवति निर्मीयते ।

द्वाविंशतिकन्दुकिकक्रीडा(स्नूकर Snoocar)[सम्पादयतु]

अस्यां क्रीडायां पञ्चदश १५ रक्तवर्णाः कन्दुकिकास्तथा ६ अन्यवर्णशालिन्यः एका च कृष्णा इत्थं द्वाविशतिसङ्ख्यकाः कन्दुकिका भवन्ति । पूर्वोक्ते क्रीडापीठ एवेयं क्रीडितुं शक्यते सन्धानयष्टिकाऽपि पूर्वोक्तरुपैव भवति ।

अश्वारुढकन्दुकक्रीडाश्लोकः[सम्पादयतु]

अश्चारोहणपूर्वकं नियतया यष्टयाऽग्रतः कन्दुकं
सन्ताडयापरखेलकस्य नियतक्षेत्रे प्रवेष्टुं रताः ।
पोलो क्रीडनतत्परा विजयिनः स्पर्धासु लब्धोत्सवाः
सानन्दं द्विविधां स्वकीयकृतिभिर्व्यञ्जन्त्यहो नैपुणीम् ॥

आधारः[सम्पादयतु]

अभिनवक्रीडातरंगिणी

"http://sa.wikipedia.org/w/index.php?title=पोलोक्रीडा&oldid=290445" इत्यस्माद् पुनः प्राप्तिः