प्रकाशाणु
फोटॉन् | |
प्रकाशाणवः सायन् परांशुकिरणेन उत्सर्जिताः भवन्ति | |
रचना | मूलकणः |
---|---|
साङ्ख्यिकी | बोसोन् |
कुटुम्बः | प्रमापीबोसोन् |
अन्तरक्रियाः | विद्युच्चुम्बकत्वं,निर्बल (गुरुत्वाकर्षणश्च) |
प्रतीकम् | γ |
सिद्धान्तितः |
अल्बर्ट् ऐन्स्टैन् (1905) "प्रकाशाणुः" (फोटॉन्) इति नाम सामान्यतया गिल्बर्ट् न्यूटन् लुईस् इति आरोप्यते (1926) |
संहतिः |
0 (सैद्धान्तिक मान) < 1×10−18 eV/c2 (प्रयोगिकसीमा)[१] |
मध्यमजीवनकालः | स्थिरः[१] |
वैद्युतावेशः |
0 < 1×10−35 e |
वर्णावेशः | 0 |
प्रचक्रणः | 1 |
प्रचक्रणावस्थाः | द्वौ: +1 ℏ, −1 ℏ |
समता | -1 |
सी समता | -1 |
सङ्घनित | I(JP C)=0,1(1−−) |
प्रकाशाणुः (आङ्ग्ल: Photon, फॊटॉन्; प्राचीनयूनानी: φῶς अथवा φωτός, फॉस् अथवा फोतोस्, अनु. 'प्रकाशः') एकः प्रकारः मूलकणः यः विद्युतचुम्बकीयक्षेत्रस्य प्रमात्रारूपेण कार्यं करोति, प्रकाशं, आकाशवाणीतरङ्गादि विद्युतचुम्बकीय विकिरणाः, विद्युच्चुम्बकत्वबल कृते बलवाहकं च सहितं । प्रकाशाणवः संहतिहीनाः[२] भवन्ति अतः ते सर्वदा निर्वाते प्रकाशवेगेन 29,97,92,458 मि/से चलन्ति । प्रकाशाणुः बोसोन् वर्गे अन्तर्भवति ।
यथा सर्वेषां मूलकणानां प्रकाशाणवः सम्प्रति प्रमात्रायन्त्रशास्त्रेण सर्वोत्तमरूपेण व्याख्यातानि सन्ति, तयोः तरङ्गकणयोः गुणयुक्तव्यवहारः तरङ्ग–कणद्वित्वं प्रदर्शयन्ति च । आधुनिक प्रकाशाणुः अवधारणा माक्स् प्लाङ्कस्य संशोधनस्य उपरि निर्मितेन अल्बर्ट् ऐन्स्टैनस्य कार्येण सह २० शताब्द्याः प्रथमदशकद्वये उत्पन्ना । द्रव्यं विद्युतचुम्बकीय विकिरणं च कथं परस्परं ऊष्मीयसाम्ये भवितुं शक्नुवन्ति स्म इति व्याख्यातुं प्रयतमाने प्लाङ्क् प्रस्तावम् अयच्छत् यत् एकस्मिन् द्रव्ये संगृहीता ऊर्जा पूर्णाङ्कसङ्ख्याभिः विच्छिन्नानां समानां च भागाः भवति इति मन्तव्यः । प्रकाशविद्युतप्रभावं व्याख्यातुं प्रकाशः एव विच्छिन्नैः ऊर्जा-एककैः निर्मितः इति विचारं ऐन्स्टैन् प्रवर्तयति । १९२६ तमे वर्षे गिल्बर्ट् न्यूटन् लुईस् इत्यनेन एतेषां ऊर्जा-एककानां कृते फोटॉन् इति पदं लोकप्रियं कृतवान् ।[३] तदनन्तरम् अन्ये बहवः प्रयोगाः आइन्स्टाइनस्य दृष्टिकोणं प्रमाणीकृतवन्तः ।
कणभौतिकशास्त्रस्य मानकप्रतिरूपे कालावकाशे प्रत्येकं बिन्दौ एकं निश्चितं समरूपतां धारयन् प्रकाशाणुः-आदिमूलकणाश्चापि भौतिकनियमानाम् आवश्यकः परिणामः इति वर्णितः । आवेश-संहति- प्रचक्रणादिकणानां आन्तरिकगुणाः अनेन प्रमापीसमरूपकेन निर्धारिताः भवन्ति । प्रकाशाणुः-अवधारणा प्रयोगात्मक-सैद्धान्तिकभौतिकशास्त्रे क्षणिकप्रगतिम् अकरोत्, यथा- परांशु (लेजर्), बोस-ऐन्स्टैन् संघननं, प्रमात्रा क्षेत्रसिद्धान्तः, प्रमात्रायन्त्रशास्त्रस्य संभाव्यव्याख्या च । अस्य प्रयोगः प्रकाशरसायनशास्त्रे, उच्च-सङ्कल्प सूक्ष्मदर्शिकायां, आणविकदूराणां परिमाणेषु च कृतः अस्ति । अपि च, प्रमात्रासङ्गणकानां तत्त्वत्वेन, प्रकाशीयप्रतिबिम्बनस्य अनुप्रयोगानां, प्रमात्रागुप्तलेखनशास्त्रम् इत्यादीनां प्रकाशिकसञ्चारस्य च कृते अपि प्रकाशाणूनाम् अध्ययनं कृतम् अस्ति ।
सम्बद्धाः लेखाः
[सम्पादयतु]सन्दर्भाः
[सम्पादयतु]- ↑ १.० १.१ Amsler, C. (2008). "Review of Particle Physics: Gauge and Higgs bosons". फिजिक्स् लेटर्स् बी 667 (1): 1. Bibcode:2008PhLB..667....1A. doi:10.1016/j.physletb.2008.07.018. Unknown parameter
|collaboration=
ignored (help); Unknown parameter|hdl-access=
ignored (help); Unknown parameter|hdl=
ignored (help) - ↑ प्रकाशाणूनां निश्चलसंहतिः यथावत् शून्यः इति मन्यते ।
- ↑ "December 18, 1926: Gilbert Lewis coins "photon" in letter to Nature" [दिसम्बर १८, १९२६: गिल्बर्ट् इत्यनेन नेचर् कृते पत्रे "फोटॉन्" मुद्रां करोति]. www.aps.org (in आङ्ग्ल). आह्रियत 9 मार्च 2019.