प्रकृतिं स्वामवष्टभ्य...
श्लोकः[सम्पादयतु]
![]() | अयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |

- प्रकृतिं स्वामवष्टभ्य विसृजामि पुनः पुनः ।
- भूतग्राममिमं कृत्स्नमवशं प्रकृतेर्वशात् ॥ ८ ॥
अयं भगवद्गीतायाः नवमोध्यायस्य राजविद्याराजगुह्ययोगस्य अष्टमः(८) श्लोकः ।
पदच्छेदः[सम्पादयतु]
प्रकृतिं स्वाम् अवष्टभ्य विसृजामि पुनः पुनः भूतग्रामम् इमं कृत्स्नम् अवशं प्रकृतेः वशात् ॥ ८ ॥
अन्वयः[सम्पादयतु]
स्वां प्रकृतिम् अवष्टभ्य प्रकृतेः वशात् अवशम् इमं कृत्स्नं भूतग्रामं पुनः पुनः विसृजामि ।
शब्दार्थः[सम्पादयतु]
- स्वाम् = स्वकीयाम्
- प्रकृतिम् = शक्तिम्
- अवष्टभ्य = अवलम्ब्य
- प्रकृतेः वशात् = स्वभाववशात्
- अवशम् = कर्मपरतन्त्रम्
- इमम् = अमुम्
- कृत्स्नम् = सर्वम्
- भूतग्रामम् = भूतसमुदायम्
- पुनः पुनः = भूयो भूयः
- विसृजामि = उत्पादयामि ।
अर्थः[सम्पादयतु]
यावन्ति भूतानि कल्पक्षये प्रकृतौ लीनानि सन्ति कल्पादौ तु तामेव प्रकृतिम् अधिाय तान्येव सर्वाणि भूतानि पुनः सृजामि ।