प्रवेशद्वारम्:भारतम्/उत्तमलेखाः
दिखावट
गुप्तसाम्राज्यम्

गुप्तसाम्राज्यम् भारते क्रि श ४ शतकः ५ शतकपर्यन्तम् आसीत् । गुप्तानां काले समग्रं भारतम् एकीकृतम् अभवत् । भारतीये इतिहासे गुप्तकालः "भारतस्य सुवर्णकालः" इत्येव उल्लिखितः अस्ति । तदवसरे भारते विज्ञानं राजनैतिकव्यवहारः च प्रवृद्धौ । गुप्तवंशः श्रीगुप्तेन स्थापितः। अस्मिन् काले अनेके कवयः वैज्ञानिकाः गणितज्ञाः च अवसन् । गुप्तराजसभायां कालिदासार्यभट्टविष्णुशर्मवराहमिहिरादयः विद्वांसः अवसन्। ६ शतके गुप्तसाम्राज्यस्य पतनानन्तरं पुनः भारतं बहूनां राजानां मध्ये विभक्तम् अभवत् ।