प्रवेशद्वारम्:योगदर्शनम्/उत्तमलेखाः
दिखावट
ईशावास्योपनिषत्
शुक्लयजुर्वेदीया उपनिषत् । उपनिषत्सरणौ ईशोपनिषत् प्रथमा वर्तते । शुक्लयजुर्वेदस्य संहितोपनिषदियम् । अष्टादशमन्त्रात्मिका विद्यते । इयम् उपनिषत् ज्ञानभक्तिकर्ममार्गाणां समन्वयम् उपदिशति । अत्रत्यः तत्त्वोपदेशः सर्वाङ्गपरिपूर्णः विद्यते । पूर्णमदः पूर्णमिदमिति शान्तिपाठः आरभ्यते । अनन्तगुण-अनन्तशक्ति-अनन्तज्ञानेन युक्तः परमात्मा सर्वसम्पूर्णः । इदं व्यक्तविश्वमपि नियमबद्धमित्यतः वस्तुतः सम्पूर्णमस्ति ।