प्रशान्तमनसं ह्येनं...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

श्लोकः[सम्पादयतु]

गीतोपदेशः
प्रशान्तमनसं ह्येनं योगिनं सुखमुत्तमम् ।
उपैति शान्तरजसं ब्रह्मभूतमकल्मषम् ॥ २७ ॥

अयं भगवद्गीतायाः षष्ठोध्यायस्य आत्मसंयमयोगस्य सप्तविंशतितमः(२७) श्लोकः ।

पदच्छेदः[सम्पादयतु]

प्रशान्तमनसं हि एनं योगिनं सुखम् उत्तमम् उपैति शान्तरजसं ब्रह्मभूतम् अकल्मषम् ॥

अन्वयः[सम्पादयतु]

प्रशान्तमनसं हि शान्तरजसम् अकल्मषं ब्रह्मभूतम् एनं योगिनम् उत्तमं सुखम् उपैति ।

शब्दार्थः[सम्पादयतु]

प्रशान्तमनसं हि = शान्तचित्तम्
शान्तरजसम् = नष्टरजोगुणम्
अकल्मषम् = विषयशून्यम्
ब्रह्मभूतम् = ब्रह्मणि निलीनम् (जीवन्मुक्तम्)
एनम् = अमुम्
योगिनम् = समाधिनिम्
उत्तमम् = निरतिशयम्
सुखम् = सुखम्
उपैति = उपगच्छति ।

अर्थः[सम्पादयतु]

यस्य मनः एवं शान्तं भवति तम् उत्तमं सुखं प्राप्नोति । तस्य विषयरूपकल्मषं प्रक्षीणं भवति । सः अपगतकल्मषः जीवन्मुक्तः भवति ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=प्रशान्तमनसं_ह्येनं...&oldid=418675" इत्यस्माद् प्रतिप्राप्तम्